________________
१२०]
[ प्रबुद्ध रौहिणेय नाटक प्रबन्धः वामनिका- (ग) अहं पीडाए मुच्छिदा तदो न जाणामि ।। श्रेष्ठी- हा वत्स ! हा विनयमण्डन ! हा कुलीन !* तिलक[हा
कुलतिलक] ! क्वगतोऽसि । देहि मे प्रतिवचनम् । (इति सहसा
मूर्च्छति ।) मनोरमा- (घ) हां वत्स ! हा सिरीसकुसुमसोमाल ! हा नियसरीर
सुंदेरिमसमुज्जासियसपरसुंदेर ! कधि गदो ? । देहि मे नियवयणं ।
दुदंसणं मंदभाइणीए । (इत्युच्चैःस्वरं रोदिति ।) रत्नाङ्गदः- (ससंभ्रमं) अरे ! शीघ्रं चन्दनैरभिषिञ्चत । कदलीपत्रैर्वीजयत ।
(सर्वेऽपि यथादिष्टमनुतिष्ठन्ति ।) श्रेष्ठी- (चेतनामास्थाय सदैन्यं) हा विधे ! भग्नोऽस्मन्मनोरथः पुत्रापहार
महादम्भोलिदण्डघातेन । हा वत्स ! क्व पुनस्त्वामवलोकयिष्ये ? | मत्पुण्यद्रुमनव्यपल्लवलसलक्ष्मीलताकुड्मल ! प्रत्यग्रप्रभवन्मनोरथवनव्यासेचनाम्भोधर ! ।। वंशव्योमविकाशनाम्बरमणे ! गेहैकचिन्तामणे ! हा वत्स! कगतोऽसि? दर्शय निजं वनं वराकस्य मे ॥१३॥
__ (इत्युच्चैःस्वरं सर्वे रुदन्ति । पुनः) श्रेष्ठी- (सदैन्यं)
भग्नाः सर्वमनोरथा धनकथा जज्ञे वृथा सर्वथा शश्वदुःखमसंख्यमुन्नतिमगात्सौख्यानि दूरं ययुः । शोभाचारुमुखेन्दुदर्शनसुधाधाराभिरासिञ्च मां यावनैव भवद्वियोगदहने प्राणाः प्रयान्ति क्षणात् ॥१४॥
(ग) अहं पीडया मूछिता ततो न जानामि । (घ) हा वत्स ! हा शिरीषकुसुमसुकुमार ! हा निजशरीरसौन्दर्यसमुज्जासितस्वपरसौन्दर्य !
कुत्र गतः ? । देहि मे निजवचनम् । दुर्दर्शनं मन्दभागिन्यां । ★ अत्र कियाँश्चित्पाठस्त्रुटितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org