________________
द्वितीयोऽङ्कः]
[११८ विलंबध । तदो समाणेध शिष्टं पुत्तयं । साहिज्जइ गिहप्पवेसलग्गं । श्रेष्ठी- (ससंभ्रमं) कथं नास्ति त्वत्पार्वे सुतः ? । मणोरमा- (क) इधयं य्येव तुम्ह पासे मिलीय अहं गिहं गदा ।। श्रेष्ठी- (सरोष) अहो ! भवत्याः प्रमादपारवश्यम् । सांप्रतमेव त्वं सुतं
स्कन्धमारोप्य नृत्यन्ती भुजगभयानष्टा । मनोरमा- (सातङ्क) (ख) नाध ! नाहमज्ज नच्चिदा । न वा करेण पम्हट्ठो
पुत्तओ । दट्ठी (ट्ठा) ता (?), किं नेदं ? । श्रेष्ठी- निश्चितं तर्हि केनापि त्वत्कपटव्यपदेशेन सुतोऽपजते । वामनिका- (चेतनामास्थाय मन्दस्वर) (ग) एत्थ चिट्ठदि । श्रेष्ठी- (सप्रत्याशं सर्वैः सह तामुपसृत्य) कथमत्र मनोरथोऽस्ति ? । वामनिका- (मन्दस्वर)(घ) नहि मणोरहो, किंतु गयमणोरहा संभग्गकडियडा
मंदभाइणी वामणिया । श्रेष्ठी- (सविषादं) यदि नास्मन्मनोनन्दनो नन्दनस्तत्किमन्येन ? । वामनिका- (सबाष्पं) (च) पुत्तओ तक्करेणावहरिदो । रत्नाङ्गदः- (साक्षेप) कथं जानासि ? | वामनिका- (छ) शबरेण निग्गच्छंतेणेदं संसिय अहं खंधादो तथा खोणीए
खित्ता जधा सव्वंगेहि भग्गा । ता हं निब्भग्गिणी कहं भविस्सं ?।
(इति मन्दं मन्दं रोदिति ।) रत्नाङ्गदः- (सौत्सुक्यं) कियद्वेला गतस्य ? । (क) अत्रैव युष्मत्पार्वे मिलित्वा अहं गृहं गता । (ख) नाथ ! नाहमद्य नृत्ता । न वा करेण प्रमृष्टः पुत्रकः । दृष्टा तावत्, किमिदम् ?। (ग) अत्र तिष्ठति । (घ) नहि मनोरथः, किन्तु गतमनोरथा, संभग्नकटितटा मन्दभागिनी वामनिका । (च) पुत्रकस्तस्करेणापहृतः । (छ) शबरेण निर्गच्छतेदं शंसित्वाऽहं स्कन्धात्तथा क्षोण्यां क्षिप्ता यथा सर्वाङ्गैर्भग्ना।
तदहं निर्भाग्या कथं भविष्यामि ? ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org