________________
११८]
[प्रबुद्ध रौहिणेय नाटक प्रबन्धः शबर:- (सर्वतोऽवलोक्य) (क) निग्गदे लोहिणेए । तओ एए जाव
भुयगभयभिंभला चिट्ठन्ति ता वामनियाए वरारोहं (वरावहारं) शंशिऊण पलाएमो । (इति तां स्कन्धात्परित्यज्य सहसा भूमौ, प्रकाशं) वामनिगे ! शिट्ठिपुत्ते तक्कलेणावहलिदे । (इत्यभिधाय निष्क्रान्तः)
(वामनिका भूपातपीडया मूर्छामभिनयति ।) श्रेष्ठी- (ससंभ्रम) अपसरतापसरतास्मदपायस्थानात् । अरे रत्नाङ्गद !
विलोकय कपि विषधरम् । अन्यथा दक्ष्यति कमपि । रत्नाङ्गदः- (सहसोपसृत्य) क्व आस्ते ?, व दृष्टः ? । (इति सर्वतोऽवलोकयन्
सर्पाकारां तां चीरिकामवलोक्य)* [श्रेष्ठी-] (स्वगतं) कथमियमौषधैः सर्वतः प्रलिप्ता ?, तन्नूनं केनचिच्चौरेण
द्रव्यजिघृक्षया चीरिकासर्पश्चके । (प्रकाशं) रत्नाङ्गद ! निश्चितं कस्यचिद्दश्योश्चेष्टितमदः । तदवलोकय सर्वमप्यागन्तुकं स्वकं च
लोकम् । मा कस्यापि वस्त्रादि विभूषणं वा गतं भविष्यति । रत्नाङ्गदः- (सर्वजनमालोक्यापृच्छय च श्रेष्ठिनं प्रति) स्वामिन् ! यथास्थित्याऽऽस्ते
लोकः । श्रेष्ठी- (साशङ्कं विलोक्य) रत्नाङ्गद ! कथं [न]क्वापि विलोक्यते मनोरथः ?।
तदवलोकय क्वापि । रत्नाङ्गदः- आस्ते मातुः पार्वे ।
(प्रविश्य पटाक्षेपेण) मनोरमा- (साक्षेप) (ख) रयणंगय ! अहो ! कोउगं तुम्हाणं । कधं न
जाणध तुब्भे गिहप्पवेसलग्गं ?, जमित्थोवविट्ठा ज्जेव एवं
(क) निर्गतो रौहिणेयः । तत एते यावद्भुजगभयविह्वलास्तिष्ठन्ति तावद् वामनिकायै
वरापहारं शंसित्वा पलायामहे । वामनिके ! श्रेष्ठिपुत्रस्तस्करेणापहृतः । (ख) रत्नाङ्गद ! अहो ! कौतुकं युष्माकम् । कथं न जानीथ यूयं गृहप्रवेशलग्नं,
यदोपविष्टा एवैवं विलम्बध्वे । ततः समानयत श्रेष्ठं पुत्रकम् । साध्यते
गृहप्रवेशलग्नम् । * अत्र कियांश्चित्पाठस्त्रुटितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org