SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ शबर: द्वितीयोऽङ्कः] [११७ आदौ सद्भर्तृवाञ्छा तदनु रुचितराः कल्पसंकल्पनास्तास्तद्भोगाभोगलिप्सा प्रतिदिवसमतोऽपत्यभावाभिलाषः । इत्थं संपूर्णकामा अतनुसुतनुजोद्वाहहर्षातिरेका नृत्यन्ति स्कन्धदेशोपरि विधृतसुतास्तारतारं तरुण्यः ॥१२॥ शबर:- (सहर्षमिव) (क) एदाओ दो वि वेवाहिणीओ वधूवरं खंधेहि ठविय सहरिसं नच्चन्तीओ सोहंति । ता वामनिगे ! तुमए खंधठिदाए अम्हे वि नच्चिस्सामो । आलुहसु मम खंधदेसं । (वामनिका नाट्येन तत्स्कन्धदेशमध्यारोहति ।) (गन्धर्वकान् प्रति) (ख) अले ! गोलीलच्छीओ विव एदाओ सिद्धिणीओ ससुयविवाहेसु नच्चंति । ता तुब्भे निद्दयं तुलानि वाएध । (इत्युच्चस्तूर्यनिनादेन तन्मध्यस्थः शबरो नृत्यति तत्स्कन्धस्थिता च वामनिका 1) (चीरिकासर्पो युवतिकक्षान्तरादधः पतति ।) सर्वेऽपि- (सर्पमवलोक्य) सर्पः सर्पः । (इति सभयमन्यान्यदिक्षु व्रजन्ति ।) (रौहिणेयः सभयमिव कियद्भूमिं गत्वा स्त्रीवेषमुत्सारयति ।) (वरस्तन्मुखमवलोक्योपलक्ष्य च रोदिति ।) रौहिणेयः- (साधिक्षेपं) अरे ! तिष्ठ । मा रोदीः । यदि रोदिषि तदाऽनया क्षुरिकया कर्णौ कर्तयिष्यामि । (इति क्षुरिकां दर्शयति ।) ___ (वरः सभयं तूष्णीमास्ते ।) रौहिणेयः- यावन्न कोऽपि मामवलोकयति तावत्त्वरिततरं गिरिगह्वरं विशामि । (इति पश्चादभिमुखमवलोकयन् निष्क्रान्तः ।) (क) एते द्वे अपि विवाहिन्यौ वधूवरं स्कन्धे स्थापयित्वा सहर्ष नृत्यन्त्यौ शोभेते तद्वामनिके। त्वयि स्कन्धगतायां वयमपि नतिष्यामः । आरोह मम स्कन्धदेशं । (ख) अरे ! गौरीलक्ष्म्याविव एते सिद्धिन्यौ स्वसुतविवाहेषु नृत्यतस्तद्यूयं निर्दयं तूराणि वादयत । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy