________________
११६]
[प्रबुद्ध रौहिणेय नाटक प्रबन्धः (वस्त्रैर्वक्त्राणि पिधाय सर्वे हसन्ति ।) रौहिणेयः- (स्वगतं) अहो ! शबरस्य कपटपटिमा । तदहं सांप्रतं स्वचिन्तित
मनुतिष्ठामि । (इति निष्क्रान्तः ।) श्रेष्ठी - (विहस्य) रत्नाङ्गद ! अहो ! हास्यरसस्य परमप्रकर्ष : । तथाहि
हास्यावेशवशान्नराः कतिपये गात्रैर्घटन्ते मिथः केऽप्यानेडकपुष्पपूजितभुवः संधूनयन्ते शिरः । केषाञ्चिन्मुखतः तपत्यविरतं ताम्बूलपूरः पर
स्तद्व्याक्षिप्तसमस्तवीक्षकजनो हास्यो रसः कोऽप्यहो ! शबर:- (स्वगतं) (क) किमज्ज वि चिरायति लोहिनेए ? ।
(ततः प्रविशति कुसुममुकुटोपशोभिता घट्टांशुककृतनीरङ्गिकानना
कुङ्कमस्तबकाञ्चितललाट युवतिः कक्षान्तरेऽलक्षश्चीरिकासर्पश्च) शबर:- (पुनः स्वगत) (ख) सुसरिच्छं मनोलमानेवच्छं लोहिनेयेन गिधीदं । युवतिः
(वरमुपसृत्य) (ग) एहि पुत्तय ! तुमए नवपरिणीदे खंधगइंमि इमम्मि सोहलए (मोहलए ?) नच्चिय चिरचिंतियमणोरथे पूरेमि ।
(इति मनोरथं नाट्येन स्कन्धे निधाय सहर्षमिव नृत्यति वधूः ।) अनुचरी- (घ) अहं पि नियभइणीयं खंधे ठविय वेवाहिणीए समं किं न
नच्चेमि ? | (इति साऽपि तथा करोति ।) श्रेष्ठी
अहो ! जनन्या अपत्यस्नेहः, ततो नृत्यतु वराकी । पूरयतु सुचिरसूत्रितमनोरथमालिकाः । यतस्तदेव स्त्रीणां प्रार्थनीयम् ।
(क) किमद्यापि चिरायते रौहिणेयः ? । (ख) सुसदृशं मनोरमानेपथ्यं रौहिणेयेन गृहीतम् । (ग) एहि पुत्रक ! त्वयि नवपरिणीते स्कन्धगतेऽस्मिन् मोहनके (मौखर्ये) नर्तित्वा
चिरचिन्तितमनोरथान् पूरयामि । (घ) अहमपि निजभगिनिकां स्कन्धे स्थापयित्वा विवाहिन्या समं किं न नृत्यामि? ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org