________________
११४]
[प्रबुद्ध रौहिणेय नाटक प्रबन्धः शबर:- (ख) अहो ! कुहितकंजिणीए पीयूष (पेऊस)कुण्डेण समं
सोहग्गसमसीसी । अहो ! खलकुट्टीए गुलेण सद्धिं पालिप्पद्धी। (रत्नाङ्गदं प्रति) लयणंगय ! पिचुमन्दकन्दलीए रसालरसस्स य केलिशे तुमए संयोगे किते ? ([इति]निभृतं हसन्नन्यतोऽव
लोकयति।) वामनिका- (सरोष) (ग) अरे अडयणीतगंधय ! आभवं पभूदाविरू(भू)
ददोगच्चसमसीसीसंट्ठिदच्छुदाअंधय ! इक्कं दाव मम ठाणे नच्चेसि
अन्नं पुण ममं पि उवहसेसि ? ता तुम तथा गच्छाहि जधा न पुणे दीसेसि । (इति तत्संमुखं कराङ्गुलीर्मोटयति ।) (घ) आ दासी(ए)धीदे ! पुरिसपवंचणेक्कचिट्ठोवटुंभपुढे ! निसग्गदोहग्गदुढे ! सोत्तियबंभनकपुत्तं ममं अधक्षिप(अधिखिव) सि ? ता तुमं तधि गच्छ जधि मम पढम कोवीणवच्छं गदं । . (पुनरुपहसन्) भविस्सकुट्टिणि ! उच्चिट्ठवट्टिणि ! वत्त[से] एदेणं घरट्टमोट्टेणं थवणट्टेणं तुमं गव्विदा । ता अम्हाणं तुज्झ व्व नयलथूलयणं (?) एतं कडीयलं पिच्छ । (इति पाश्चात्यप्रदेशं दर्शयति ।) (वामनिका सवैलक्षमधोमुखीभूय तूष्णीमास्ते ।)
शबर:
(ख) अहो ! कथितकाञ्जिकायाः पीयूषकुण्डेन समं सौभाग्यसमशीर्षी । अहो !
खलकुट्टया गुडेन सार्धं प्रतिस्पर्धा । रत्नाङ्गद ! पिचुमन्दकन्दल्या रसालरसस्य च कीदृशस्त्वया संयोगः कृतः ? ।। अरे अटजनीस्तनन्धय ! आभवं प्रभूताविर्भूतदौर्गत्यसमशीर्षासंस्थितक्षुधान्धक! एकं तावन्मम स्थाने नृत्यसि अन्यत्पुनर्मामपि उपहससि तत्त्वं तथा गच्छ यथा
न पुनर्दृश्यसे । (घ) आ: दास्याःपुत्रि ! पुरुषप्रवञ्चनैकचेष्टोपष्टम्भपुष्टे ! निसर्गदौर्भाग्यदुष्टे !
सौत्रिक(श्रोत्रिय)ब्राह्मणकपुत्रं मामथ (अधि)क्षिपसि तत्त्वं तत्र गच्छ यत्र मम प्रथमं कौपीनवस्त्रं गतं । भविष्यत्कुट्टिनि ! उच्छिष्टवर्तिनि ! वर्तसे एतेन घटीस्थूलेन स्तनावर्तेन त्वं गर्विता । तदस्माकं तवेव..... एतत्कटीतलं पश्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org