SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ११२] श्रेष्ठी शबर: [ प्रबुद्ध रौहिणेय नाटक प्रबन्धः दाणं मज्झे रूवलावण्णसंपन्ने ? | अहवा नायं, तुमं एदाणं इत्थिगाणं चक्कलविउलथणयलेहि पलिबद्धे न गुणेसु पक्खवायं वहसि । मनोरमा (रत्नाङ्गदः सवैलक्षं तूष्णीमास्ते ।) रत्नाङ्गद ! नृत्यत्वसावपि वराकोऽस्मिन्नुत्सवे । यतःगाथकनर्तकनटविटभण्डकलावेदवाद्यचतुराणाम् । अर्थः कथमभविष्यल्लोके यद्युत्सवा न स्युः ॥९॥ 1 (सहर्षमिव) (क) जयदु जयदु समग्गनेगमवग्गचूलामणी सुभद्दसेट्ठी । अहो ! सामिणो सयलकलाकलावकोसल्लं । सामि ! दा महापसादो किदो । जिदं जिदमम्हेहिं । ( इति कटीतटं वादयन्नृत्यति ।) रत्नाङ्गदः- (सकौतुकं सोपहासं च) ( सर्वे हसन्ति ।) कर्णौ सर्पफणोपमौ पिठरिकाधः पीतवर्णा तनुर्नक्रं वक्रमुदग्रदन्मुखमतिस्थूलं त्रिकोणं शिरः । मार्जाराक्षिसदृक्षमक्षियुगलं द्वित्राश्च कूर्चे कचा भालं कालकरीरकर्परनिभं रूपं तदस्याद्भुतम् ॥१०॥ (ख) वत्स रयणंगय ! अहं गिहे गन्तूण सव्वे पउणेमि । तुभेहि पुण गिहप्पवेसमुहुत्तं सिग्धं साधिदव्वं । (इत्यभिधाय निष्क्रान्ता ।) (रत्नाङ्गदो विमृश्य पुरुषस्य कर्णे एवमेव ।) एष शीघ्रमागच्छामि । (इत्यभिधाय निष्क्रान्तः ।) पुरुषः (क) जयतु जयतु समग्रनैगमवर्गचूडामणिः सुभद्रश्रेष्ठी । अहो ! स्वामिनः सकलकलाकलापकौशलम् । स्वामिन् ! तावन्महाप्रसादः कृतः । जितं जितमस्माभिः । (ख) वत्स रत्नाङ्गद ! अहं गृहे गत्वा सर्वान् प्रगुणयामि । युष्माभिः पुनर्गृहप्रवेशमुहूर्तं शीघ्रं साधयितव्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy