________________
प्रथमोऽङ्कः]
[१०५ वनिता- (मन्दं मन्दं रुदन्ती परिक्रामति ।) रौहिणेयः (सौत्सुक्यं) वनिते ! त्वरिततरं प्रचल ।
(वनिता सम्यग् गन्तुं नोत्सहते ।) रौहिणेयः (स्वगतं) यावत्कोऽपि क्वापि कस्मादपि स्थानादभ्येति
तावदेनामुत्पाट्य तद्गिरिगह्वरं प्रविशामि । (इति तां स्कन्धे निधाय दिशोऽवलोकयस्त्वरिततरं निष्क्रान्तः ।) पुरुषः- (पुष्पाण्यादाय सरभसं कदलीगृहमनुसरति । मध्यमवलोक्य)
अहो ! जिग्ये मया, यतः प्रियायाः प्रागेवाहमागतः । तद्यावदसावभ्येति तावज्झटिति शय्यामारचयामि । (इति तथा कृत्वा कौतुकचिकीर्षया प्रत्यासन्नतरुणा तिरो भूत्वा क्षणं प्रच्छन्न एवास्ते । वामाक्षिस्पन्दनमभिनीय साशङ्क) कथमिष्टसंप्रयोगकर्मणि अनिमित्तोपस्थानम् ?, अतिचिरायितं च तया, तत्किमेतत् ? । (इति ससंभ्रममुत्थाय सर्वतोऽवलोकयति ।) कथं न क्वपि दृश्यते ? । यदि वा मम विप्रलम्भनार्थं क्वपि तिरो भूत्वा
भविष्यति । (इति तदवलोकनाय सर्वतः परिभ्राम्यति ।) शबर:- (तमवलोक्य सहर्ष स्वगतं) (क) अहो ! सच्चकं यातं
पहियअहाणयं । मरुमंडलीतण्हालुपहियस्स वक्कवित्थालिय च्चिय
अंजलीपिच्चं पुन अंतला पिसल्लेन पीनं । पुरुषः- (सवैलक्षं) न क्वचिदपीक्ष्यते, तत्कि मां परित्यज्य स्वगृहं गता?,
यदि वा भ; नीता ?, अहो ! अस्ति केनापि बन्दीकृता ?, तत्कमप्यभ्यर्णवर्तिनं जनं पृच्छामि तद्गमनशुद्धिम् । (इति दिशोऽवलोकयति ।)
(शबरः प्रकटीभवति ।) पुरुषः- (तमवलोक्य) यदि पुनरसौ किमपि कथयति । (इति तमुपसर्ग्य
नीचैःस्वर) भद्र ! कपि दृष्टा अभिनवाभरणभूषिता वनं परिभ्रमता (क) अहो ! सत्यकं जातं पथिककथानकम् । मरुमण्डलीतृष्णावत्पथिकस्य
वक्त्रविस्तारितमेवाञ्जलिपेयं पुनरन्तरा पिशाचेन पीतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org