________________
[ प्रबुद्ध रौहिणेय नाटक प्रबन्धः उवलक्खेदु । (इत्यनाकणितकेन पुनः पुष्पाण्युपचिनोति ।) रौहिणेयः- किमिति मामवगणयसि ?, यद्वाक्यं नाकर्णयसि । वनिता (अन्यतो विलोकयन्ती) (ख) कोऽवि ( ऽसि ) तुमं ? | रौहिणेय :- ( सगर्व) आः ! कथं मामपि न जानासि ?, येनाखिलं पुरमिदं स्वपराक्रमेण हृत्वा धनं जनमनीयत निर्धनत्वम् । नीतं समुन्नतिमिह स्वकुलं च येन सोऽहं मलिम्लुचपतिर्ननु रौहिणेयः ॥२८॥ वनिता- (सभयं) (क) कथं सच्चकं य्येव तुमं तक्करो ? 1 रौहिणेयः अद्यापि किं कश्चित्संदेह : ?, तस्करोऽस्मि ।
वनिता
(वेपमाना तरुमूले निलीयते ।)
१०४]
रौहिणेयः- वनिते ! अग्रतो भव ।
वनिता
( पूत्कर्तुमिच्छति ।)
रौहिणेयः- (सक्रोधं) यदि पापे ! पूत्करिष्यसि ततस्ते शिरः कर्तयिष्ये । वनिता (कथं कथमपि साहसमवष्टभ्य ) (ख) अरे दुरायार ! यदि मम पिययमो एदमि अंतरे आगमिस्सदिता नूणं न सुंदरं संपज्जिस्सदि । रौहिणेयः- कस्ते प्रियः ? |
वनिता - (ग) जो इत्थ (इत्यर्धोक्ते तूष्णीमास्ते ।) रौहिणेयः
-
-
-
संप्रत्यहमेव भवत्याः स्वामी, किमन्येन ? । तद्यदि प्राणितं प्रीणासि तत्त्वरितमग्रतो भव । नो चेदनयाऽसिधेनुकया शिरः कूष्माण्डपातं पातयिष्यामि । ( इति क्षुरिकामुत्क्षिपति ।)
(क) कथं सत्यकमेव त्वं तस्कर: ? ।
(ख) अरे दुराचार ! यदि मम प्रियतमो एतस्मिन्नन्तरे आगमिष्यति तन्नूनं न सुन्दरं
संपत्स्यते । (ग) योऽत्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org