SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः] [१०७ अन्यच्च, अरे शबर ! नेयमस्य करगृहीती, किन्तु महेभ्यकुलोत्पन्ना स्वैरिणी काचिदित्यनुमानतो निश्चीयते । यदि वा किमनया प्रस्तुतप्रयोजनविघ्नकारिण्या मीमांसया ? । भवतु, या काचिद्भवति गत्वैनामपहरामि । (इति तदभिमुखं परिक्रम्य पुनः पश्चादभिमुखं कतिचित्पदानि दत्त्वा शबरं प्रति) यदीमां नेदीयःप्रदेशस्थिते भतर्यपहरिष्ये तन्नूनमियं पूत्करिष्यते । मत्प्राणितस्यापि संदेहः । तदत्रस्थ एव क्षणं मर्षयामि यावदसौ दूरान्तरं व्रजति । (इति ऊर्ध्वस्थ एव तद्गमनमवलोकयति ।) कथं तिरोभूत एवासौ तरुभिस्तदहमेनामपहरामि । त्वं पुनरेनमुपपति केनापि कैतवेन निवार्यागच्छेः । शबरः - (क) एवं किलिस्सं । रौहिणेयः - (तामुपसर्प्य सानुनयमिव) सुतनु ! किमर्थमस्मादृशेऽप्याज्ञाकारिणि जने सति आत्मनैवंविधमनुचितमनुष्ठीयते ? । . (सहसा तमवलोक्य साशङ्कं स्वगतं) (का) को एस दुरायारो ? । जो किल, अदिनिद्दयदुटुरउद्दखुद्दरत्तच्छिछोहदुप्पिच्छो । आबद्धपिडियजुगो अइपिंगलकुडिलघणकेसो ॥२७॥ ता किं मण्णे एस तक्करो ?, अहवा कह नामेह तक्करसंभवो?, जदो अणेगलोगसंकुलमज्झमुज्जाणं । जइ वा ससुरकुलपरिकओ कोऽवि, तप्परिचएण मममेयं पयंपियं । यदि ताउं ममं मा (क) एवं करिष्ये । (का) क एष दुराचारः ? । यः किल, अतिनिर्दयदुष्टरौद्रक्षुद्ररक्ताक्षिक्षोभदुष्प्रेक्षः । आबद्धपिण्डिकायुगोऽतिपिङ्गलकुटिलघनकेशः ।। तत्कि मन्ये एष तस्करः ? । अथवा कथं नामेह तस्करसंभवः ? । यतोऽनेकलोकसंकुलमध्यमुद्यानम् । यदि वा श्वशुरकुलपरिकृतः कोऽपि, तत्परिचयेन मामेतत्प्रजल्पितम् । यदि तावन्मां मा उपलक्षयतु । (ख) कोऽपि(ऽसि) त्वम् ? । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy