SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १०२] [प्रबुद्ध रौहिणेय नाटक प्रबन्धः नित्यं शिल्पिकलाकलापवसतेर्वस्तूनि संतन्वतस्तत्किञ्चिद्भवनाद्भुतैकगुणभृतस्त्वत्र निष्पद्यते । आत्मानं स्वगुणैः प्रकाशयति यद्यस्माच्च विश्वत्रयी सृष्टिः पङ्कजविष्टरस्य नितरां धत्ते ध्रुवं सौष्ठवम् ॥२३॥ वनिता - (सर्वतोऽवलोक्य) (क) पाणनाह !, चित्तानिलेण कामस्स विजयजत्तुम्मुहस्स भुयणम्मि । आउहसालाउ व पयडियाउ पुफियवणालीओ ॥२४॥ तदेहि पुष्पाणि अवच(चि)णिय एदंमि सीदलकदलीहरे चिरयाल फलिदमणोरथमहीरुहफलं कीडारससुहमणुहवाव । पुरुष :- (स्वगतं) ऋतुर्वसन्तः स्वस्तुल्यं घनं निर्विजनं वनम् । पक्ष्मलाक्षी स्मरक्षीबा दृष्टः पुण्यैश्चिरादहम् ॥२५॥ (प्रकाशं) प्रिये मदनवति ! अद्य चिराच्चिन्तितमनोरथोऽनुभवतीरमवततार । ततो यत्किमपि प्राणेश्वरी ममादिशति तदस्तु । किन्तु कः किल प्रथमं प्रचुरप्रसूनान्यादायैतत्कदली-गृहमनुसरति ?। (इति प्रतिज्ञाय पृथक्पृथग्दिशो गमनं नाटयतः ।) वनिता - (पुष्पावचयं नाटयति ।) रौहिणेयः- पुष्पार्थं प्रहिते भुजेऽनिलचलनीलागिकाविस्तृतः सल्लावण्यलसत्प्रभापरिधिभिर्दोर्मूलकूलङ्कषः । ईषन्मेघविमुक्तविस्फुरदुरुज्योत्स्नाभरभ्राजितव्योमाभोगमृगाङ्कमण्डलकलां रोहत्यमुष्याः स्तनः ॥२६॥ (क) प्राणनाथ ! चैत्रानिलेन कामस्य विजययात्रोन्मुखस्य भुवने । आयुधशाला इव प्रकटिताः पुष्पितवनाल्यः ॥ तदेहि पुष्पाणि अवचीय एतस्मिन् शीतलकदलीगृहे चिरकालफलितमनोरथमहीरुहफलं क्रीडारसमनुभवावः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy