________________
प्रथमोऽङ्कः]
[१०१ किन्तूच्चैः काम्यमस्मात्कमलदलचलल्लोचने ! तावकीनो
न्मीलद्वन्धूकमुग्धाधरमधुररसानास्ति वस्त्वन्यदत्र ॥१९॥ रौहिणेयः- (वनितामवलोक्य सस्पृह)
किं शृङ्गारमयी ? किमु स्मरमयी ? किं हर्षलक्ष्मीमयी ? किं पीयूषमयूखदीधितिमयी ? किं पुण्यवीथीमयी ? । किं वा विष्टपसृष्टिसौष्ठवमयी ? किं रूपसंपन्मयी ?
नो जाने विधिनेयमम्बुजमुखी कैश्चिद्दलैर्निर्मिता ॥२०॥ किञ्च
मुक्ता सीमन्तिकास्याः शिरसि वितनुते विभ्रमं कृत्तिकाणां हारः श्रृङ्गारयोनेनिधिकलशलसच्छृङ्खलाभः स्तनान्तः । चञ्चच्चन्द्रार्कबिम्बश्रियमनुसरतः कर्णयोः कुण्डले द्वे
कूजत्काञ्चीकलापः कलयति जघने शक्रकोदण्डकान्तिम् ॥ वनिता - (क) पिययम ! निसग्गदोहग्गसंसग्गसहाए अलं मे वत्तणकहाए।
लावण्णनिहीणं विहियनिरवग्ग[ह?]सोहग्गेणं कहं न वण्णणिज्जगुणभायणं भवामि । तं किं पि घडइ भुवणंमि माणसं पिम्मचंगिमागारं ।
जस्संसग्गेण इयरं पि नूणं पावेइ परभायं ॥२२॥ पुरुष :- (सस्नेहं सर्वाङ्गमालिङ्गितुमिच्छति ।) रौहिणेयः- (सविस्मयं शबरं प्रति) अहो ! राकाशशाङ्कयोरिव सौदामिनी
जलदयोरिव प्रीतिप्रद्युम्नयोरिवानयोरेव संयोगः श्लाघ्यते ।
भुवनमप्येताभ्यां विभूषितम् । (क) प्रियतम ! निसर्गदौर्भाग्यसंसर्गसहया अलं मे वर्तनकथया । अथवा युष्मादृशानां
निरन्तरशरणानां गुणमणिमहोदधीनां लावण्यनिधीनां विहितनिरवग्रहसौभाग्येन कथं न वर्णनीयगुणभाजनं भवामि ।
तत्किमपि घटयति भुवने मानसं प्रेमचङ्गिमागारम् । यत्संसर्गेण इतरदपि नूनं प्राप्नोति परभागम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org