SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १००] [प्रबुद्ध रौहिणेय नाटक प्रबन्धः रौहिणेयः - (विलोक्य ससंभ्रमं) कथमेतन्मनुजमिथुनमापतति ? । तत्कथं मच्चिन्तितमापत्स्यते? । किमेतौ कुरुतः ? । अतस्तावत्क्षणमेकं सहकारतरुणा तिरोधाय निरूपयामि । (इति सशबरस्तथा करोति ।) (ततः प्रविशति प्रियापितभुजपल्लवः सलीलं नवयौवनः पुरुषः सर्वाङ्गीणाभरणभूषिता यौवनारम्भविशेषोन्मिषितलावण्या च वनिता।) पुरुषः- (वनितां प्रति) प्रिये मदनवति !, वैदग्ध्यद्रुममञ्जरीमिव लसल्लावण्यवीचीमिव स्वःसौख्यैकखनीमिव स्मरनृपक्रीडाखलूरीमिव । शृङ्गाराद्भुतदीर्घिकामिव सुधासारप्रणालीमिव प्रेमोत्पत्तिमहीमिव प्रतिकलं त्वां संस्मरामि प्रिये ! ॥१५॥ वनिता- (क)सव्वुनयाई वनुज्जलाइँ संविहियसुमुहरायाइं । नाह ! तुह च्चिय वयणे सुहंति पत्ताइँ वयणाइं ॥१६॥ पुरुषः- अहो ! वक्तृत्वपरिपक्त्रिमत्वमस्मन्मनश्चकोरचन्द्रिकायाः । यदि वा यः सद्गुणो गुणज्ञः परमप्यगुणं गुणोत्तरं वदति । अतिदन्तुरमपि वदनं ताम्बूलं सुभगयत्येव ॥१७॥ अन्यथाऽन्योऽपि किं कश्चित्स्वगुणैरतिशयमासादयति ? । निष्कृत्रिमप्रेमविसंस्थुलायाः सर्वाङ्गसौभाग्यतरङ्गितायाः । वक्रप्रभामुद्रितचन्द्रिकायाः प्रिये ! किमेकं तव वर्णयामि ? ॥१८॥ दृष्टः पीयूषरश्मिः श्रुतममृतमथ स्वादितं स्वादु सीधु घ्रातः प्रत्यग्रपुष्पप्रकरपरिलसन्मांसलः स्निग्धगन्धः । (क) सर्वोन्नतानि वर्णज्ज्वलानि संविहितसुमुखरागाणि । नाथ ! तव खलु वदने शोभन्ते पत्राणि वचनानि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy