SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः] किं चात्र अन्यच्च क केचिद्वेल्लितवल्लभाभुजलताश्लेषोल्लसन्मन्मथाः केचित्प्रीतिरसप्ररूढपुलकाः कुर्वन्ति गीतध्वनिम् । केचित्कामितनायिकाधरदलं प्रेम्णा पिबन्त्यादरात् किञ्चित्कूणितलोललोचनपुटाः पद्मं द्विरेफा इव ॥१०॥ उत्कृत्तदन्तिदशनद्युतिमत्प्ररोहगन्धाश्रितभ्रमरराजिविराजिमध्यम् । आभाति केतकदलं त्रिजगद्विचिन्त्य ( जित्य ) प्रोत्तम्भितं विजयपत्रमिव स्मरेण ॥ ११ ॥ ( सर्वतोऽवलोक्य शबरं प्रति ) अहो ! महत्कौतुकम्, मया निरन्तरमपहृतधना अपि ध्वस्तसमस्तशोकाः सततविहितबिब्बोका: सफलीकृतजीवलोकाः क्रीडन्त्यमी लोकाः । यदि वा नहि नह्येतत्, यदेते पूर्लोकाः प्रकटविभवापास्तधनदा गतव्रीडाः क्रीडारसमनुसरन्ति प्रियसखाः । [ee मदोन्मादज्ञातस्वपरजनभावव्यतिकरा स्तदेतन्मन्येऽहं मम सुकृतराशेर्विलसितम् ॥१२॥ तदेतन्मध्याद्यदि किमप्यपह्रियते मनस्तोषणं भूषणं रौद्रं दारिद्रास्त्रं वस्त्रं भुवनजनमनःकेकिकादम्बिनी काचिन्नितम्बिनी तदद्यतनं दिनमवन्ध्यं भवति । यतः - Jain Education International वणिग् वेश्या कविर्भट्टस्तस्करः कितवो द्विजः । यत्रापूर्वोऽर्थलाभो न मन्यते तदहर्वृथा ॥१३॥ (नेपथ्ये) (क) वल्लहसंगसुहियाण सुहय ! सुहओ स एस महुमासो । पुण तव्विओअविहुराण नूणं मरणं विसेसेइ ॥ १४ ॥ वल्लभासङ्गसुखितानां सुभग ! सुखदः स एष मधुमासः । पुनस्तद्वियोगविधुराणां नूनं मरणं विशेषयति ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy