SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ८८] [प्रबुद्ध रौहिणेय नाटक प्रबन्धः दर्श दर्शमहर्निशं भगवती दुग्धाम्बुधेरात्मजा मन्ये तद्भयभरेयमुररीचक्रे चिराच्चापलम् ॥८॥ रविञ्जल:- कथय तावत्कि किमादिदेशैनं मुर्मूर्षुर्लोहखुरोऽस्य जनकः ? । सिंहल :- इदमादिदेश । वत्स ! निष्णातोऽसि शस्त्रपरिश्रमे, अलङ्कर्मीणोऽसि पश्यतोहरकर्मणि, अनाहतप्रतिभोऽसि प्रत्युत्पन्नमतौ, जितश्रमोऽसि जङ्घालतायां, तत्र [न]काचिन्मे मनसि वैधुर्यावस्था संस्था. पथप्रस्थितस्य । किन्तु निजपितरि प्ररूढप्रौढवात्सल्यातुच्छस्य वत्सस्य विशेषेणादिश्यते । यदि मदीयस्तनयोऽसि तदा यः किल सकलसुरासुरमनुष्यसंकुलायां परिषदि श्रीमहावीराभिधानः सद्धर्ममाचष्टे तदीयमस्मत्कुलाचारपाटच्चरं वचः कर्णाभ्यर्ण संचरिष्णुतां गच्छद्रक्षणीयमिति । रविञ्जल:- अहो ! स्वसंतानतानवापनोददक्षा पितुः शिक्षा । (पुनर्विलोक्य) . सिंहल ! दृष्टास्त्वया सर्वेऽप्यमी वसन्तोत्सवोन्मदिष्णुमनसः प्रभास्वरकार्तस्वराभरणभूषिता विचित्रवासोविशेषोन्मिषल्लक्ष्मीका लोकाः ? । तदेहि त्वरिततरं गत्वा रौहिणेयाय संपादयामः । (इति निष्क्रान्तौ ।) ॥ विष्कम्भकः ॥ (ततः प्रविशति यथानुरूपोचितरचितनेपथ्यो रौहिणेयः कपिल लघुकेशः केकराक्षः चिपटनाशापुटः शबस्श्च ।) रौहिणेयः- (सर्वतोऽवलोक्य सकौतुकं) अहह ! वसन्तावतारव्यतिषङ्गरङ्गत्पर भागस्य सुभगम्भविष्णुमकरन्दोद्यानस्य सौन्दर्यलक्ष्मीः । तथाहि क्वचिन्मल्लीवल्लीतरलमुकुलोद्भासितवना वचित्पुष्पामोदभ्रमदलिकुलाबद्धवलया । क्वचिन्मत्तक्रीडत्परभृतवधूध्वानसुभगा क्वचित्कूजत्पारापतविततलीलासुललिता ॥९॥ Jain Education International For Private & Personal Use Only: www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy