SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः] [८७ स्निग्धरसवैदग्ध्यनिधानं प्रबुद्धरौहिणेयाभिधानं प्रकरणम भिनेष्यामः । पारिपार्श्वकः - (विचिन्त्य) मारिष ! अस्त्येवम्, किन्तु यः किल युष्मत्प्रतिपन्थी शैलूषापसदः सद्यःसमासादितरङ्गरञ्जितसामाजिकसमाजैः समस्तप्रस्तुताभिनेयवस्तुवास्तवाभिनयविद्भिर्भवद्भिर्यः शतशः पुरा पराभूतः स युष्मदारब्धनाट्याभिनयध्वंसाय तत्किमपि कैतवं प्रस्तावयन्नस्ति, यतः प्रातिभवतां भवतां पराभवं राजग्रहं च संभावयामि । आयःशूलिका हि राजानः । [सूत्रधार:-] भाव ! मैवं कातरनरोचितं वचः प्रपञ्चय । न मे एवंविधाः शैलूषकुलकलङ्काः शङ्कामङ्कुरयन्ति । न चाहमुग्रराजग्रहस्य गम्यः । प्रत्युत्पन्नमतेः पुंसः साहसैकसहायिनः । तृणप्रायः क्षितीन्द्रोऽपि किं पुनः प्राकृतः पुमान् ? ॥७॥ (नेपथ्ये) हृदयङ्गममभिहितवानसि । को नाम निरवग्रहसाहसैकव्यवसायस्य पुंसः पराभवसंभावनेऽप्यलंभूष्णुः ? । सूत्रधारः- कथमुपक्रान्तमेव नर्तकैः ?, तदेहि करणीयान्तरमनुतिष्ठावः । (इति निष्क्रान्तौ ।) ॥ प्रस्तावना ॥ (ततः प्रविशति सिंहलो रविञ्जलश्च) सिंहलः - रविञ्जल ! न कदाचिदपि सहसाढ्यंभविष्णुना पुरुषेण विना तानि तानि मनःसमीहितानि सिद्धिमध्यारोहन्ति । तच्चास्माकीनं स्वामिनमामुष्यायणं रौहिणेयमन्तरेण कस्यान्यस्य ? येनात्यद्भुतसाहसैकनिधिना वीरावलेपच्छिदाऽलङ्कर्मीणपराक्रमेण जगतीमुल्लङ्घयमानां मुहुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy