________________
प्रथमोऽङ्कः]
[८५
॥ अर्हम् ॥ ॥ न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरेभ्यो नमः ॥ पण्डितप्रकाण्डश्रीमद्रामभद्रमुनिविरचितं
प्रबुद्धरौहिणेयम् । यस्योपदेशपदमप्यवगत्य नित्यं
मुक्तिश्रियं तनुभृतः सपदि श्रयन्ते । स्वर्भूर्भुव:कमलकोशविकाशनैकप्रद्योतनः स जयताज्जिनवर्धमानः ॥१॥
(नान्द्यन्ते) सूत्रधार :
सत्पुंसां चरितानि यानि कविभिावर्णितान्यद्भुतं
सौभाग्यस्य पदं भवन्ति भुवने विस्तारमायान्ति च । तव्यावर्णनतस्त्वमी अपि चिरं यान्ति प्रशस्ति क्षिते
स्तान्युच्चैश्चरितानि ते च कवयः प्रीणन्तु रङ्गाङ्गणम् ॥२॥ (पुरोऽवलोक्य सप्रमोदं) अहह ! कथं मदर्शनेऽपि हर्षप्रेडोलिनी परिषत् ? यदि वा हर्षप्रकर्षस्य नाट्य एवायमवसरः । यतः - चञ्चच्चन्द्रमरीचयो मधुमदः स्निह्यत्सुहृत्सङ्गमः
श्रीखण्डं मलयानिलः पिकवधूसोत्कण्ठकण्ठध्वनिः । उन्मीलनवपाटलीपरिमलः प्रेयस्विनीविभ्रमाः
अष्टौ ते खलु हर्षवर्षविधयः, श्लाघ्याः सुराणामपि ॥३॥ भवतु, तावत्सभ्यादेशमनुतिष्ठामि । (इति परिक्रमति ।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org