SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ८४] [प्रबुद्ध रौहिणेय नाटक प्रबन्धः श्रीमद्यशोवीरसत्तासमयोऽपि त्रयोदशशताब्दीय एवेति प्राचीनजैनलेखसंग्रहद्वितीयभागान्तर्गतश्रीजालोरदुर्गलेखात्स्पष्टमेवावबुध्यते । स चायम् "ॐ ॥ संवत् १२२१ श्रीजावालिपुरीयकाञ्चनगिरिगढस्योपरि प्रभुश्रीहेमसूरिप्रबोधितश्रीगूर्जरधराधीश्वरपरमार्हतचौलुक्यमहाराजाधिराजश्रीकुमारपालदेवकारिते श्रीपार्श्वनाथसत्कमूलबिम्बसहितश्रीकुवरविहाराभिधाने जैनचैत्ये । सद्विधिप्रवर्तनाय बृहद्गच्छीयवादीन्द्रश्रीदेवाचार्याणां पक्षे आचन्द्रार्कं समर्पिते ॥ सं० १२४२ वर्षे एतद्देशाधिपचाहमानकुलतिलकमहाराजश्रीसमरसिंहदेवादेशेन भां० पासूपुत्र-भां० यशोवीरेण समुद्धृते श्रीमद्राजकुलादेशेन श्रीदेवाचार्यशिष्यैः श्रीपूर्णदेवाचायः । सं० १२५६ वर्षे ज्येष्ठ सु० ११ श्रीपार्श्वनाथदेवे तोरणादीनां प्रतिष्ठाकार्ये कृते । मूलशिखरे च कनकमयध्वजादण्डस्य ध्वजारोपणप्रतिष्ठायां कृतायां । सं. १२६८ वर्षे दीपोत्सवदिने अभिनवनिष्पन्नप्रेक्षामध्यमंडपे श्रीपूर्णदेवसूरिशिष्यैः श्रीरामचन्द्राचार्यैः सुवर्णमयकलशारोपणप्रतिष्ठा कृता । शुभं भवतु ॥ छ ॥" संशोधनसमयेऽस्य नाटकस्यैकमेव पुस्तकं पत्तनस्थवाडीपार्श्वनाथसत्कपुस्तकभाण्डागारात् सुश्रावक - वाडीलाल-हीराचन्ददलालद्वाराऽऽसादितम् । तच्चातीवाशुद्धं पुरातनं क्वचित् क्वचित्पतितपाठम् । तदाधारेणैव संशोधितमिदम् । क्वचित्क्वचिदर्थसंगतावसत्यामप्यादर्शान्तरालाभेन तथैव मुद्रितम् । तच्च धीमद्भिः संशोध्य वाचनीयमित्यभ्यर्थयते - श्रीमच्चतुरविजयचरणोपासकः पुण्यविजयः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy