SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ॥ निवेदनम् ॥ अस्य प्रबुद्धरौहिणेयाभिधनाटकस्य कर्तारः श्रीमद्वादिदेवसूरिशिष्य-- श्रीजयप्रभसूरिशिष्याः श्रीमन्तो रामभद्रमुनिवरा इति प्रस्तावनान्तर्गतेन___"वादीन्द्रस्मयसंचयव्ययचणः श्रीदेवसूरिः प्रभु स्तद्गच्छाम्बुधिपार्वणोऽमृतरुचिः सैद्धान्तिकग्रामणीः । श्रीमत्सूरिजयप्रभः शमनिधित्रैविद्यवृन्दारक- । स्तच्छिष्योऽस्ति समस्तनिस्तुषगुणारामः स रामः कविः ॥ सत्यं सन्त्येव शीतांशुसंगीतवनितादयः । धुर्यं किमपि माधुर्यं रामभद्रगिरां पुनः ॥ ततस्तद्विरचितं सकर्णश्रव्यनव्योक्तिसूक्तिमुक्ताञ्चितं विविधस्निग्धरसवैदग्ध्यनिधानं प्रबुद्धरौहिणेयाभिधानं प्रकरणमभिनेष्यामः ।" इत्यनेन पाठेन प्रकटमेव प्रतीयते । सत्तासमयश्चैतेषां विक्रमीयस्त्रयोदशशताब्दीय एव, श्रीमद्वादिदेवसूरिप्रशिष्यत्वात् श्रीमत्पार्श्वचन्द्रपुत्र-श्रीमद्यशोवीरश्रीअजयपालकारितश्रीयुगादिदेवप्रासादान्तरस्य नाटकस्य सामाजिकैरभिनयसमादेशनाच्च । श्रीमतां वादिदेवसूरीणां प्रभावकचरित्रान्तर्गतेन "श्रीभद्रेश्वरसूरीणां गच्छभारं समर्प्य ते । जैनप्रभावनास्थेमनिस्तुषश्रेयसि स्थिताः ॥ रसयुग्मरवौ वर्षे १२२६ श्रावणे मासि संगते । कृष्णपक्षस्य सप्तम्यामपराह्ने गुरोदिने ॥ मर्त्यलोकस्थितं लोकं प्रतिबोध्य पुरन्दरम् । बोधका इव ते जग्मुर्दिवं श्रीदेवसूरयः ॥ - त्रिभिर्विशेषकम् ॥" अनेन पद्यत्रितयेन १२२६ वर्षे दिवंगतत्वं प्रकटमेव । एतेषामेव च सूरिवराणां प्रशिष्यत्वादेतद्ग्रन्थकर्तुस्त्रयोदशताब्दयन्त वित्वं स्पष्टमेव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001461
Book TitlePrabuddha Rauhineyam
Original Sutra AuthorRambhadramuni
AuthorShilchandrasuri
PublisherJain Sahitya Academy
Publication Year2003
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, Drama, L000, & L040
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy