________________
॥ श्रीन्यायसिन्धुः ॥
आलोचनात्मकधियो जनकानि यानि, ज्ञानेन्द्रियाणि तव पञ्च मतानि तानि । सामान्यतत्त्वमनने तु न भेदभाञ्जि, ज्ञानेन्द्रियत्वमखिलेषु यतः समानम् ।।७९०।। कर्मेन्द्रियत्वमपि तत्त्वमथैकमेव, कर्मेन्द्रियेषु न च भिन्नतयाऽभ्युपेयम् । भूतत्वमेकमथ भूतगणेषु तत्त्व - मित्यादि लाघवमवेहि समानभावे ।।७९१।। त्वत्प्रक्रिया हि निखिलैव निरङ्कुशाऽऽवि - र्भावात् तिरोभवनतश्च प्रसिद्धिमेति । तस्माद् द्वयं तदपि तत्त्वतयैव वाच्यं, नाऽतत्त्वतो भवति तत्त्वनिरूपणं यत् ।।७९२।। उक्तेषु तत्त्वनिवहेषु निवेशनं न, यस्मात् तयोर्भवति तद्व्यतिरिक्ततैव । जिज्ञासितस्य च निरूपणमिष्टमिष्टै - स्तत्तद्वयोर्यदि तदा चतुरस्रमत्र ।।७९३।। कार्यात्मकं द्वयमिदं यदि तत्समग्र - कार्यस्वरूपमुत वाऽभिमतं तु किञ्चित् । आद्ये भवेत् किमु पृथक् प्रतिकार्यमेव, किं वक्रमेव निखिलात्मकमाद्यपक्षे ।।७९४।। किं सर्वथैक्यमनयोर्ननु कार्यतस्ते, किं वा कथञ्चिदिति कल्प इहाऽऽदिमश्चेत् । सत्कार्यवादपरिनिष्ठिततत्त्वबुद्धे - रुत्त्पत्तिनाशघटना तव सर्वदा तत् ।।७९५।। अन्त्ये न किं जिनमतं तव सम्मतं यत्, स्याद्वाद एव शरणं तव तत्त्वसिद्धौ । किञ्चाऽन्यभावमवलम्ब्य तथापृथक्त्वं, प्राप्तं द्वयं भवति तेन पृथक् च तत्त्वम् ।।७९६।। एकः समग्रजनिमन्नियतः सदात्मो - त्पादो विनाश इति तेऽभिमतो द्वितीये । तत् किं प्रधानमिव तत्त्वतया न मान्यौ, तावप्यभेद इह भेदसमन्वितो यत् ।।७९७।। नो वाऽस्ति ते विनिगमो ननु येन किञ्चित्, कार्यात्मकत्वमुभयोरुपपद्यतेऽन्त्ये । उत्पत्तिनाशघटना क्वचिदैव किञ्च, कार्ये भवेत् तदुभयोश्च तदात्मतातः ।।७९८।। स्यात् कारणात्मकतयोपगमोऽनयोस्ते, तत् किं प्रधानमुत वा निजहेतवः स्युः । प्रत्येकशो यदि मतः प्रथमोऽत्र पक्षो, नो सर्वदोदयविनाशप्रसञ्जनं किम् ।।७९९।। किञ्च प्रधानमनुमाविषयस्तवैकं, तत्तद् द्वयं यदि तदा न तयोर्विशेषः । उत्पद्यते घट इति प्रथते यदा धीः, कुम्भो विनश्यति मतिश्च तदा न किं स्यात् ।।८००।। किं वा यदैव तव कश्चिदपीह भाव, उत्पद्यते विलयमेत्यथ वा तदैव । किं कार्यमात्रमपि नो जनिमद्विनाशि, वेत्यत्र को नियमकृद् वद साङ्ख्यविज्ञ ! ।।८०१।। किञ्च त्वया त्रिगुणसाम्यमकार्ययोग - मिष्टं प्रधानमनयोस्तु तदात्मतायाम् । न स्यात् तयोः सकलकार्यलयं विहाय, प्रत्यक्षसिद्धिघटना ननु लौकिकानाम् ।।८०२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org