________________
॥ श्रीन्यायसिन्धुः ॥ सत्त्वादिकं निखिलवस्त्वनुगन्तुकत्वा - दन्योन्यसंश्रयसमुद्भवरोधनाच्च । तुल्यान्वयित्वविरहान्वयतश्च भेदे - ऽप्येकं मतं यदि तदाऽस्त्वविचारितं तत् ।।७७७।। अर्थक्रियाजनकता सुगतेन सत्ता, नैयायिकैरभिमता परजातिरेषा । उत्पत्त्यवस्थितिलयान्वयिता तु जैनै - वेदान्तिनाऽप्यभिमता त्रिविधा विचित्रा ।।७७८।। तद्वत् त्वयाऽप्यनुगता निखिलेषु तत्त्वे - ष्वेका सदादिमतितोऽभ्युपगन्तुमिष्टा । उक्तेषु तत्त्वनिकरेष्वनिवेशनेन, तत्त्वान्तरं भवतु सा न च किं मते ते ।।७७९।। ज्ञानादयस्तव मता ननु बुद्धिधर्मा - स्तेषां न तत्त्वत इहाऽभिमतं पृथक्त्वम् । तत्त्वान्तरत्वमत एव निरुक्ततत्त्वे - ष्वप्राप्तितो न च कथं तव सम्मतं च ।।७८०।। तादात्म्यतो यदि मते तव धर्मितत्त्वे, तेषां निवेश इति न व्यतिरेकिणस्ते । व्यक्तं प्रधानजनितं महदाद्यभिन्नं, कस्मात् त्वयैव पृथगत्र निरूपितं तत् ।।७८१।। चेत् तत्त्वता तव मते यदि धर्मिमात्रे, धर्मी तदा तव मतः किमु धर्मभिन्नः । धर्मत्वयोग्यपि च वा प्रथमे प्रधानाद्, भिन्नं न किञ्चिदपि तत्त्वमनिन्दितं स्यात् ।।७८२।। किं वा प्रधानमपि नैव भवेच्च तत्त्वं, धर्मादभिन्नतनुतोपगताऽस्य यस्मात् । तादात्म्यमेव च तवाऽपि कथञ्चिदिष्टं, यद्धमधर्मिघटनानिपुणं न चाऽन्यत् ।।७८३।। ज्ञानादयोऽपि किमु नैव मते तवाऽन्य - पक्षे भवन्तु बुध तत्त्वतया प्रसिद्धाः । को वाऽपराध इह धर्मगणस्य येन, द्वेषश्च तेषु कपिलेन प्रकाशितोऽभूत् ।।७८४।। मोक्षोपयोगि यदि तत्त्वतया तवेष्टं, तत्त्वं तदाऽपि मतिरेव निरूपणीया । ग्राह्यं विना मतिनिरूपणमेव नो चे - दिच्छादयोऽपि विषयाः समुपासनीयाः ।।७८५।। बुद्ध्यात्मभेदमतिरेव हि मुक्तिहेतु - बुद्ध्यात्मनोभवतु भेदमतावपेक्षा । अन्यन्न किञ्चिदपि तज्जननेऽत्र साक्षा - दे॒तुः किमर्थमथ तस्य निरूपणं च ।।७८६।। मोक्षोऽपि मानविषयं समभीप्स्यते 1 - मनिं विना न प्रकृतिर्महदादयो वा । आत्माऽथवाऽत्र विबुधैरुपगन्तुमिष्टा, मानं पृथग् भवतु तत्त्वत एव तत्त्वम् ।।७८७।। सामान्यमेव भवतोऽभिमतं च शक्तं, शक्यं विधेयमपि किं न पृथक् च तत्त्वम् । तादात्म्यतो यदि विशेषत एव तस्य, नो वा पृथक् कथनमस्ति तदाऽज्ञतैव ।।७८८।। सामान्यमेव प्रथमं सकलानुगामि, वाच्यं विशेषमननं तत एव यस्मात् । तादात्म्यतो भवति लाघवमत्र पक्षे, सामान्यतोऽनुगमने सुलभोऽवबोधः ।।७८९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org