________________
॥ श्रीन्यायसिन्धुः ॥
इत्यादिदोषघटना स्वयमेव बुद्धौ, बुद्ध्यादिभावमधिकृत्य च तेऽप्रयलात् । पूर्वोक्तयुक्तिमननादनसूययाऽऽवि - भूता कुतर्कबलतो न विघट्टनीया ।।७६४।। यत् पञ्चविंशतिमितं भवता न्यदर्शि, तत्त्वं न तत्त्वमिदमप्यविचारितं यत् । सत्त्वादिकं त्रितयमत्र प्रधानमिष्टं, प्रत्यकेशः किमु मिथो घटनात्मकं वा ? ||७६५।। आद्ये प्रधानमपि नैकमनेकरूपं, तत्त्वत्रयं भवतु किन्तु ततो द्वयं वै । तत्त्वं त्वदुक्तगणनादधिकं प्रविष्टं, न्यूनत्वनिग्रहभवं न च किं भयं ते ? ||७६६।। अन्त्ये समष्टिपरिणामतयैव तेषां, तत्त्वस्वभाव उररीक्रियते त्वया किम् ? । प्रत्येकशोऽथ परमस्य न वै विवक्षा, कार्याक्षमत्वत इह प्रथमो न युक्तः ।।७६७।। यस्मात् पृथक् समुदयः समुदायितो नो, मान्योऽतिरिक्तकलसादिनिराकरिष्णोः । एकान्तवादलयभीतिमता न शक्यं, वक्तुं कथञ्चिदतिरिक्तपदार्थजातम् ।।७६८।। एवं च तद् यदि पृथङ् न च तत्स्वरूपं, सत्त्वादिकं समुदयात्मनि तत्त्वतैषाम् । नो युज्यते भवतु वा खसुमाद्यलीक - पुञ्जे न किं तव मता बुध ! तत्त्वताऽन्या ।।७६९।। पक्षोऽन्तिमो यदि तवाऽभिमतस्तदाऽत्र, वाच्यस्तया न जनकं किमु कार्यमात्रे । तत्त्वान्तरे न जनकं किमु वा न तत्र, कल्पस्तवाऽभिलषितः प्रथमस्तु युक्तः ।।७७०।। यस्मात् सदैव भवतोऽभिमतोऽत्र भावः, स्वस्वस्वभावसमभावतयाऽन्यथा वा । पुंसो विनाऽपरिणतो व्यवतिष्ठते नो, तत्त्वत्रयं च जनकं समभावकार्ये ।।७७१।। तत्त्वान्तराजननतो यदि तत्त्वता नो, स्यात् तर्हि ते चरमपक्ष इहाऽस्त्वविघ्नः । तत्स्वीकृतौ कथय किं न महत्सु भूते - ष्वस्तङ्गताऽभ्युपगता बुध ! तत्त्वता ते ।।७७२।। यत्सङ्घतो भवति कार्यमसौ यदि स्यात्, तत्सन्निविष्टजनकाजनितं तदा तु । न स्यान्महागुणसमूहभवोऽसमूहात्, सत्त्वादिकान् न तु तथोपगमोऽप्यभीष्टः ।।७७३।। सामग्यतो भवति कार्यजनिन चैक - हेतोस्ततस्तव मते नयनादयोऽपि । तत्त्वस्वभावममलं न पृथक्त्वतो वै, गच्छेयुरित्यपि महाँस्त्वयि दोषदण्ड: ।।७७४।। अर्थक्रियाजनकतैव न तत्त्वताया, नैयत्यतस्तव मता बुध ! येन तस्याः । प्रत्येकशी विगमतस्त्रिषु तत्त्वताया, राहित्यतो विभजनं न भवेद्धि हीनम् ॥७७५।। कूटस्थनित्यपुरुषस्य यतस्त्वयैवा - ऽकिञ्चित्करस्य गणना खलु तत्त्वमध्ये । स्पष्टीकृता शपथमात्रत एव तस्मात्, सत्त्वत्रिकस्य तव तत्त्वगणेऽनिवेशः ।।७७६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org