SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ६० ॥ श्रीन्यायसिन्धुः ॥ सत्कार्यमेव कपिलेन निरूपितं य - नाशो न कस्यचिदपि तस्य मतेऽस्ति तत्त्वात् । बुद्ध्यादिकं न विलयं तत एव तस्मिन्, यातीत्यतो भवतु बन्धनमेव पुंसः ।।७५१।। नाशस्तिरोभवननामक इष्यते चेत्, तत् सर्वदाऽपि किमु वा क्वचिदेव काले । आद्ये सदैव विलयान्महतः सदैव, मुक्तिर्भवेत् पुरुषगा न तु भेदबोधात् ।।७५२।। अन्त्ये त्वसज्जननमेव मते तवाऽपि, प्राप्तं तथा सति घटाद्यपि किं तथा नो । पूर्वं तिरोहिततया यदि तस्य सत्त्वं, नित्यैव सा तव तदा किमु वाऽस्त्यनित्या ।।७५३।। आद्ये तिरोभवनमेव तिरोहितं ते, यत् सर्वदा भवतु तेन सदैव बन्धः ।। बुद्धेः सदा स्फुरणतः पुरुषस्य यस्माद्, बिम्बादिकल्पनघटा त्वनपायिनी ते ।।७५४।। अन्ते तिरोभवनमेव पुनस्त्वयाऽस्या, वाच्यं विनाशघटनानुपगन्तृणाऽङ्ग! । तत्राऽनवस्थितिकृतान्तमुखप्रवेशो, दुर्वार एव तव तत्त्वरसप्रहाणेः ।।७५५।। उत्पद्यते तव मतेऽथ तथा विनाशो, बुद्धेस्तिरोभवननामक इष्यते यः । नोत्पादवानुत मतो यदि पूर्वकल्प - स्तत्राऽनवस्थितिघटा त्वपरोदिता तत् ।।७५६।। प्राकट्यमेव कपिलेन तवोक्तमावि - वाख्यया जनितमत्र न चाऽऽत्मलाभः । तत् सर्वदा प्रकटमेव मतं त्वया चे - न्मुक्तिः सदैव पुरुषस्य तदा मते ते ।।७५७।। तत् सर्वदाऽप्रकटमेव मतं त्वया चेद्, बन्धः सदैव पुरुषस्य तदा मते ते । प्राकट्यमस्य प्रकटं क्वचिदेव काले, चेत् सम्मतं तव तदा ननु तत्र वाच्यः ।।७५८।। प्राकट्यगा प्रकटता तव सर्वदाऽऽवि - र्भावात्मना परिणता क्वचिदेव वा स्यात् । आद्ये पुनर्भवतु मुक्तिरनर्गलैव, पुंसः सदैव हि तिरोभवनाच्च बुद्धेः ।।७५९।। अन्त्ये तु सा प्रथममस्ति नवेति तत्र, पक्षोऽन्तिमो यदि तदा स्वमतप्रकोपः । किं वा तथैव न घटादिपदार्थसार्थः, पूर्वं ह्यसन्नपि मतो जनिमान् बुधाग्य ! ।।७६०।। आद्ये तिरोहिततयैव तु तस्य सत्त्वं, मुक्तिप्रसङ्गभयतो भवताऽनुमोद्यम् । तत्राऽपि किं प्रकटमस्ति तिरोहितत्वं, किं वा न तत् प्रकटमित्यपि चोद्यमेव ।।७६१ ।। नोत्पादवान् यदि मतस्तव बुद्धिनाशो, व्योमादिवद् भवतु तर्हि स नित्यमेव । तत्त्वे सदैव पुरुषस्य न बन्धलेशो, मुक्तिः परन्तु गृहिणीव समीपगा स्यात् ।।७६२।। व्योमोत्पलादिवदसावथ वा ह्यसन् स्या - द्धत्वन्तरानुदयतो न तु सन् कदाचित् । एवं च शाश्वतिकबुद्धिनियोगतोऽस्य, बन्धः सदैव पुरुषस्य भवेन्मते ते ।।७६३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy