SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ शब्दार्थयोस्तादात्म्यतदुत्पत्त्योर्निराकरणे न तात्त्विकः कश्चित् सम्बन्ध इत्युपपादितम् ११०७-१११२ शब्दजन्यबोधरयाऽपोहविषयत्वेनाऽप्रामाण्यमपोहस्वरूपं च दर्शितम् १११३ शब्दस्याडपोहरूपार्थेन सह कार्यकारणभावसम्बन्धरततश्च वाच्यत्वरय जन्यत्वे वाचकत्वस्य जनकत्वे पर्यवसानमुक्तम् वाचकत्वमप्यपोहे दर्शितम् एकान्तमतखण्डन एव बौद्धोक्तदूषणानां प्रागल्भ्यं न स्याद्वाद इति दर्शितम् १११६-१११७ शब्देऽर्थप्रकाशजनकत्वं स्वाभाविकं याथार्थ्यायाथायें परापेक्षे इति दर्शितम् १११८ एकान्तवादिवचनस्य न यथार्थत्वं किन्तु सप्तभङ्गया इति दर्शितम् १११९ सप्तभङ्गीनिरूपणम् ११२० तत्र वाक्येऽवधारणस्याऽऽवश्यकत्वं दर्शितम् ११२१ कुम्भादावस्तित्वादेः प्रश्ने स्याद्वादरयैव सम्यक्प्रतिविधानत्वमिति दर्शितम ११२२ स्यादरत्येव कुम्भ इत्यादीनां सप्तानां भङ्गानां क्रमेण स्वस्वनिमित्तत उपदर्शनम् ११२३-११२७ सप्तभङ्गादधिको भङ्गो न सम्भवतीत्युपपादितः ११२८ अनेकान्ततावगमकस्य स्यात्पदस्योक्ते भङ्गे आवश्यकत्वं यत् स्वरूपादिना सत्त्वं तदेव पररूपादिनाऽसत्त्वमिति दर्शितम् ११२९-११३० बौद्धमतमाशय प्रतिक्षिप्तम् ११३१-११३६ स्याद्वादासहिष्णोः परस्य पूर्वपक्षः, तत्र प्रथमभङ्गप्रतिपाद्यरयाऽरितत्वस्य न्यायमतसिद्धसत्तारूपत्वे जैनसिद्धोत्पादव्यधौव्यात्मकसत्तारूपत्वे दोषोपदर्शनम् ११३७-११३९ अस्तित्वस्य कालवृत्तित्वपत्वे दोषः प्रदर्शितः ११४०-११४१ अस्तित्वस्य देशवृत्तित्वरूपत्वे दोषः प्रदर्शितः ११४२-११४३ घटत्वादिनाऽरितत्वस्य नैयायिकेनाऽप्युपगमात् प्रथमभङ्गे व्यधिक रणधर्मावच्छिन्नाभावस्य वेदान्तिनाऽप्युपगमाद् द्वितीयभङ्गे नैकान्तवादाद् विशेष इति दर्शितम् ११४४-११४५ उक्तप्रश्नप्रतिविधानम् ११४६-११४७ उक्त प्रश्नकर्तुः सत्त्वादिकं न प्रतीयते, नाडव्याप्यवृत्ति, न दर्शितार्थभिन्नरूपं, किं वाऽवाच्यमिति चत्वार: पक्षा अभीष्टा न सम्भवन्तीति दर्शितम् ११४८-११५२ प्रथमभङ्गेन विध्यंशरूपास्तित्वं द्वितीयभड्रेन निषेधांशरूपनास्तित्वं प्रतीयत इति दर्शितम् तृतीयादीनामपि भङ्गानां वस्त्वंशबोधकत्वं गौतममताद् विशेषश्च दर्शितः अस्तित्वाद्यंशावच्छेदकत्वस्य धर्मादिगतस्याऽनन्यसिद्धस्य भानप्रतिपादनेन न्यायादितो विशेष उपपादितः ११५५-११५८ वृत्तित्वरूपास्तित्वस्य प्रथमभङ्गप्रतिपाद्यत्वेऽपि न दोष इति दर्शितम् ११५९ तन्निरूपितवृत्तितायां तस्याऽवच्छेदकत्वं सार्वभौमाभ्युपगम उपदर्शितः ११६० उत्पादव्ययधौव्यरूपसत्त्वस्य प्रथमभङ्गप्रतिपाद्यत्वे दोषपरिहार: ११६१ कालास्तित्वपक्षे दोषपरिहार: द्वितीयभङ्गे वेदान्तमतादविशेषस्य परिहार: ११६३ वेदान्तमतमुपदर्श्य ततो जैनमते विशेषरयोपदर्शनमभावादिलक्षण्यप्रदर्शनेन ११६४-११७४ व्यधिकरणधर्मस्यैव द्वितीयभड़ेऽवच्छेदकतया भानमित्यपि नास्तीत्युपपादितम् ११७५-११७६ वस्त्वंशानामेव धर्माणां स्याद्वादतो विभजनं न तु विवक्षया काल्पनिकत्वमिति दर्शितम् 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001460
Book TitleNyayasindhu
Original Sutra AuthorNemisuri
AuthorKirtitrai
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy