________________
८२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(षष्ठं पर्व इत्युक्त्वा मुदिता राज्ञी नृपं गत्वैवमभ्यधात् । दिष्ट्याऽद्य वर्धसे वत्सानुरूपवरलाभतः ।।२१६॥ स्वयं ह्यनङ्गसुन्दर्या स्वानुरूप: परीक्षितः । शङ्खश्रेष्ठिसुतो वीरभद्रो नाम वरो युवा ॥२१७।। राजाऽप्यूचे चिन्तयतो ममेदमिति वादिनी। चिन्तामणिरिवाऽऽगास्त्वं कामधेनुरिवाऽथवा ॥२१८॥ स्थैर्य दाक्ष्यं च वत्साया अहो! वरपरीक्षणे। इयत्कालमपि स्थित्वा यद् ववे वर ईदृशः॥२१९।। सद्योऽप्याह्वायितो राज्ञा बह्वीश्वरवणिग्वृतः । शङ्खश्रेष्ठ्याययौ तत्र राजानं प्रणनाम च ॥२२०॥ ततश्च श्रेष्ठिनं शङ्खमित्यभाषिष्ट भूपति: । कोऽप्यायातस्ताम्रलिप्त्या युवाऽस्ति तव वेश्मनि ॥२२१॥ स श्रूयते च सकलकलाजलधिपारगः। अद्वैतरूपसौन्दर्यो वो गुणगणेन च ॥२२२॥ शङ्खोऽप्युवाच देवैवं गुणान् वेत्ति जन: पुन: । राजाऽपि व्याजहाराऽथ स त्वदाज्ञावशे न वा ? ॥२२३।। शङ्खश्रेष्ठ्यप्यभाषिष्ट स्वामिन्! किमिदमुच्यते ? । तस्यैव हि गुणक्रीतो वशवर्ती जनोऽखिलः ॥२२४।। अभ्यधाद् भूपतिर्भूयस्तत्कृतेऽनङ्गसुन्दरी । अद्यैव गृह्यतां श्रेष्ठिश्चिराद्योगोऽस्तु योग्ययोः ॥२२५।। श्रेष्ठ्यूचे त्वं हि न: स्वामी पाल्यास्तव वयं प्रजा: । सम्बन्धश्च सखित्वं च समयोरेव शोभते ॥२२६।। राजाऽपीत्यादिशत् किं मां प्रत्यादिशसि भङ्गित: ? । कुर्वाज्ञां मे निर्विचारं गत्वा सज्जीभव द्रुतम् ।।२२७।। आदृत्य शङ्खो राजाज्ञामुपेत्य च निजे गृहे । आचख्यौ वीरभद्राय तत्सर्वं राजशासनम् ।।२२८॥ अनङ्गसुन्दरी-वीरभद्रयोर्ववृते तत: । महाविभूत्या वीवाह: शुभे लग्ने शुभे दिने ।।२२९॥ परस्परं तयो प्रीतिरवर्धत दिने दिने । सा स्यात् स्वयंवरवधू-वरयोर्तुत्तरोत्तरा ॥२३०॥ जैनं धर्मं दिशन् वीरभद्रस्तां श्राविकां व्यधात् । आस्तामत्र सतां सङ्ग: परलोकेऽपि शर्मणे ॥२३१॥ पटेऽर्हत्प्रतिमां सङ्घ चतुर्विधमपि स्वयम् । स लिखित्वाऽऽपर्यत् तस्यै सम्यगज्ञापयच्च ताम् ॥२३२॥
वीरभद्रोऽन्यदा दध्यौ मयि स्निग्धेयमीक्ष्यते। स्त्रीणां प्रकृतिलोलानां परं स्थैर्ये न निश्चयः ॥२३३।। भवत्वाशयमेतस्या ज्ञास्यामीति विमृश्य स: । वैदग्ध्यसुन्दरोऽऽनङ्गसुन्दरीमित्यभाषत ।।२३४॥ त्वत्त: प्रियतमे! किञ्चिदन्यत् प्रियतमं न मे । स्वदेशगमनायाऽहं त्वामापृच्छे तथाऽपि हि॥२३५।। यतश्चिरं मत्पितरौ मद्वियोगकदर्थितौ । अतीव दुःखमासाते तद्गत्वाऽऽश्वासयामि तौ॥२३६।। इहैव तिष्ठेः सुभ्र! त्वं भूयोऽप्येष्याम्यहं द्रुतम् । न खलु त्वां विनाऽन्यत्राऽहमपि स्थातुमीश्वरः ॥२३७।। साऽप्युवाच म्लानमुखी त्वयेदं साधु जल्पितम् । यत्राऽऽकर्णितमात्रेऽपि यियासन्तीव मेऽसवः ॥२३८।। ज्ञातं कठिनचित्तोऽसि य एवं वक्तुमीश्वरः । त्वादृशी यद्यहमपि तदा स्यां श्रोतुमीश्वरा ॥२३९॥ वीरभद्रस्तयेत्युक्तोऽब्रवीन्मा स्म कुप: प्रिये! । सहैव नयनोपायश्चिन्तितोऽयं मया तव ॥२४०।। आपप्रच्छे सनिर्बन्धं वीरभद्रस्ततो नृपम् । सहैवाऽऽनङ्गसुन्दर्या स्वदेशगमनं प्रति ॥२४१।। कथञ्चिद् व्यसृजद् राजा वीरभद्रं प्रियान्वितम् । पुत्री-जामातृविरहः प्रायः कस्य न दुःसह: ? ॥२४२॥ पोतारूढौ ततस्तौ तु चेलतुर्जलवम॑ना । गति: साहसिकानां हि समा स्थल-जलाध्वनोः ॥२४३॥ पत्रीव कार्मुकोन्मुक्तो नीडोत्थित इवाऽण्डज: । प्रससार तत: पोतोऽर्नुकूलमरुदीरितः ॥२४४।। कियन्तमपि चाऽध्वानं स पोतो यावदभ्यगात् । तावद्ववौ महावायु: कल्पान्तानिलसन्निभः ॥२४५॥ कल्पान्त इव पाथोधिरुद्भमन्नतिभीषण: । पोतमुच्छालयामास तृणपूलमिव द्विपः ॥२४६॥ मुहुरुच्छाल्यमानः सन् भ्रामं भ्रामं त्रिवासरीम् । ग्रीवोपरि परिभ्रष्टाण्डजाण्डमिव चाऽस्फुटत् ।।२४७॥ पोते स्फटितमात्रेऽपि सम्प्रापाऽनङ्गसन्दरी। एकं तदीयफलकं मत्यर्नाऽत्रटितायुषः ॥२४८।। १.०मणिरिवासि त्वं ला. ॥२. बहुभिरीश्वरैः-समृद्धैर्वणिग्भिर्वृतः॥३. वचनरचनया॥४. अङ्गीकृत्य॥५. विवाह: मु.॥६.प्रीतिः ।। ७. बोधयामास ।। ८. वैदग्ध्यं-पाण्डित्यं तेन सुन्दरः॥९. यातुमिच्छन्ति ॥१०. प्राणाः ॥११. बाण इव ॥१२. पक्षी ।। १३. अनुकूलवायुप्रेरितः ॥१४. त्रयाणां वासराणां दिनानां समाहारस्ताम् ।। १५. दृषदुपरि ।। १६. परिभ्रष्टं यदण्डजस्य-पक्षिणोऽण्डं तदिव॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org