________________
द्वितीयः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
वाद्यप्रकारमाश्रित्य सकलं निष्कलं च सः । रागं प्रपञ्चयामास विपञ्च्यां' श्रवणामृतम् ॥ १८३॥ साऽनङ्गसुन्दरी सा च पर्षदुत्कर्षहर्षभाक् । आलेख्यलिखितेवाऽस्थाद् गीतहार्या मृगा अपि ॥ १८४ ॥ तद्वीणागीतमाकर्ण्य दध्यौ सा राजकन्यका । ईदृशं गुणवत् पात्रं देवानामपि दुर्लभम् ॥ १८५ ॥ निरर्थकं किं च मम जन्माऽपि ह्यनया विना । शोभते पुष्पदाम्नैव प्रतिमा सकलाऽपि हि ।। १८६ | तस्या अवसरप्राप्तमन्यास्वपि कलासु सः । प्रावीण्यं दर्शयामास तन्मनोवित्ततस्करः ||१८७|| वीरभद्रः स्वानुरक्तां विज्ञायाऽनङ्गसुन्दरीम् । अन्यदा श्रेष्ठिनं शङ्खं रहस्येवमवोचत ॥१८८॥ पृष्ठतो विनयवत्यास्तात ! प्रत्यहमप्यहम् । गच्छाम्यनङ्गसुन्दर्याः पार्श्वे युवतिवेषभृत् ॥ १८९ ॥ तद्युष्माभिर्न भेतव्यं करिष्येऽहं यथा तथा । न कोऽप्यनर्थो भावी वो भावि प्रत्युत गौरवम् ॥ १९०॥ मह्यं दातुं निजां कन्यां चेद्वः प्रार्थयते नृपः । तदादौ नाऽनुमन्तव्यं मान्यमत्याग्रहे सति ॥ १९९ ॥ श्रेष्ठ्यपि व्याजहारैवं त्वं वेत्स्यभ्यधिको धिया । एकं तु ब्रूमहे वत्स! कार्यं कुशलमात्मनः ॥ १९२॥ वीरभद्रः प्रत्युवाच विमनास्तात! मा स्म भूः । पश्याऽचिराच्छुभोदकं स्वसूनोः कर्म शोभनम् ॥१९३॥ वत्स!वेत्सि त्वमित्युक्त्वा स श्रेष्ठी मौनमाश्रयत् । रत्नाकरर्नृपास्थाने वार्तेति च तदाऽभवत् ॥१९४॥ "ताम्रलिप्त्याः कश्चिदागाच्छङ्खश्रेष्ठिगृहे युवा । पुरे कलाभिश्चित्राभिरचित्रीयत सोऽन्वहम् ॥ १९५॥ तस्य वैदेशिकत्वाच्च ज्ञातिर्विज्ञायते न हि । महाकुलोत्पन्न इति व्याचष्टे तु तदाकृतिः ॥ १९६ ॥ अथेत्थं नृपतिर्दध्यौ युवाऽयं रूपमन्मथः । सदाचारः सदाकार: कलारत्नाकरः सुधीः ॥१९७॥ अनुरूपो मद्दुहित्रे यद्ययं रोचते वरः । न ह्यवद्यं तदा धातुर्युक्तसम्बन्धकारिणः ।।१९८।। 'वीरभद्रस्तदाऽवोचद् विजनेऽनङ्गसुन्दरीम् । इयत्यामपि सामग्र्यां किं भोगविमुखा सखि ! ? ॥ १९९ ॥ अनङ्गसुन्दरीत्यूचे भोगाः कस्य न वल्लभाः ? । वल्लभो दुर्लभः किन्तु स्वानुरूप: कुलोद्भवः ॥२००॥ वरं मणिः केवलैव न तु काचाङ्गुलीयगा । वरं सैरिज्जलरिक्ता न तु यादः समाकुला ॥२०१॥ शून्यैव वरं शाला न तु तस्करपूरिता । अद्रुमैव वरं वाटी विषद्रुममयी न तु ॥ २०२॥
अनुदूढा वरं नारी रूपयौवनवत्यपि । निष्केलेनाऽकुलीनेन न तु पत्या विडम्बिता ॥ २०३ ॥ त्रिभिर्विशेषकम्। न हीयत्कालमद्राक्षमनुरूपं वरं सखि ! । वरमल्पगुणं वृत्वा कथं स्यां हास्यभाजनम् ? || २०४ || वीरभद्रोऽब्रवीदेवमनुरूपो वरो वरः । मम नास्तीति मा वादी' बहुरत्ना हि भूरियम् ॥२०५॥ अनुरूपं वरं किं तेऽद्यैव सम्पादयाम्यहम् ? । अरोचकिनि ! भोगास्ते रोचिष्यन्ते परं न हि ॥ २०६ ॥ जगदेऽनङ्गसुन्दर्याऽप्येवमाशाप्रदानतः । किं कर्षयसि मे जिह्वामथ मिथ्या वदस्यदः ? ॥२०७॥ यद्यैमिथ्या दर्शय त्वमनुरूपं वरं ततः । कला -यौवन-रूपादि कृतार्थं मे यथा भवेत् ॥ २०८॥ वीरभद्रस्तयेत्युक्तो निजरूपमदीदृशत् । साऽप्यूचे त्वदधीनाऽस्मि तर्ह्यहं त्वं पतिर्मम ॥ २०९॥ अथ सोऽवोचदस्त्वेवं माऽपवादः स्म भूदिति । एष्याम्यतः परं नेह विज्ञप्यस्तत्त्वया नृपः ॥२१०॥ यथाऽयं श्रेष्ठिनं शङ्ख सोपैरोधं वदत्यदः । अनङ्गसुन्दरी वीरभद्राय प्रतिगृह्यताम् ॥२११॥ आमित्युक्ते तया वीरभद्रो निजगृहं ययौ । आहूय जननीं सद्यः साऽपि चैवमवोचत ॥ २१२॥ [अनुरूपवराभावात् पित्रोः खेदाय केवलम् । अभूवमहमम्बेयत्कालं शल्यमिवोरसि ॥२१३॥ कला-रूपादिभिः स्वस्याऽनुरूपोऽस्ति निरूपितः । वीरभद्राभिधः शङ्खश्रेष्ठिसूनुर्मया वरः ॥ २१४॥ अद्यैव देहि मां तस्मै ततो विज्ञप्यतां स्वयम् । तैंत् तातः श्रेष्ठिनं शङ्ख मदर्थेऽर्थयते यथा ।। २१५।।
१. वीणायाम् ।। २. चित्रस्था इव ॥ ३. चेद्वः सुतां ला. ॥। ४. शुभपरिणामम् ॥ ५. कार्यम् ।। ६. नृपसभायाम् ॥७. आश्चर्यमकरोत् ॥ ८. दोषः ।। ९. ब्रह्मणः ॥ १०. काचस्याऽङ्गुलीये वर्तिनीति मणिविशेषणम् ॥ ११. सरित् रिक्तजला हे ॥ १२. जलजन्तुव्याप्ता ॥ १३. उपवनम् ।। १४. अपरिणीता ।। १५. कलारहितेन ॥ १६. वृत्ता ला. ॥। १७. श्रेष्ठः ॥ १८. नाडवादी हे. ला. विना सर्वत्र ॥ १९. वसुन्धरा ला ॥ २०. हे अरुचिमति! 'अरोचक' रोगग्रस्ते ! ॥ २१. सत्यम् ।। २२. नृपः ॥ २३. साग्रहम् ॥ २४. तं मु. ॥
Jain Education International
८१
For Private Personal Use Only
www.jainelibrary.org