________________
८०
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(षष्ठं पर्व आश्रयन् 'प्रश्रयं वीरभद्रोऽप्येवमवोचत । निष्क्रान्तोऽपि पितुर्गेहात् पितुर्गेहेऽहमागमम् ॥१५०॥ तवाऽऽज्ञावशवर्त्यस्मि शिष्योऽस्मि तव सर्वदा । औरसो हि पापपुत्रो धर्मपुत्रोऽस्म्यहं पुनः ॥१५१।। तत: स सुखमेवाऽस्थाच्छङ्खस्य श्रेष्ठिनो गृहे। पौरान विस्मापयन्नावि:कलाविज्ञानकौशलैः ॥१५२।। पतत्र रत्नाकरनृपस्याऽऽसीद्विश्वकसुन्दरी । अनङ्गसुन्दरी नाम पुरुषद्वेषिणी सुता ॥१५३।। तस्या: पार्श्व प्रतिदिनं श्रेष्ठिशवसुता ययौ। नामतो विनयवती विनयैकनिकेतनम् ॥१५४।। स्वस:! क्व यासीति पृष्टा वीरभद्रेण साऽन्यदा । भ्रातृस्नेहाद् विनयवत्याचचक्षे यथातथम् ॥१५५।। सा सखी ते विनोदै: कैः कालं गमयति स्वस:! ? । इत्युक्ता वीरभद्रेण वीणाद्यैरिति साऽवदत् ॥१५६॥ तायास्याम्यहमपीत्युक्ता तेन तु साऽवदत् । न पुंसो बालकस्याऽपि प्रवेशस्तत्र ते कुत: ? ॥१५७।। विधास्यामि वधरूपं सम्यगित्यभिधाय सः । तत्सम्मतो नट इव सद्य: स्त्रीवेषमोददे ॥१५८॥ सोऽगात् तया समं तत्र सखि! केयं त्वया सह ? । पृष्टेत्यनङ्गसुन्दर्या मत्स्वसेति जगाद सा॥१५९।। तदा चाऽनङ्गसुन्दर्या सुन्दरैर्वर्णकैर्नवै: । फलके लिखितुं हंसी विरहार्मोपचक्रमे ॥१६०॥ तां वीरभद्र इत्यूचे त्वया विरहपीडिता । इयं लिखितुमारेभे परं दृष्ट्यादि नेदृशम् ॥१६१॥ तर्हि त्वमालिखेत्युक्त्वा फलकं वर्णकैः सह । अनङ्गसुन्दरी वीरभद्रायाऽर्पयति स्म सा ॥१६२॥ लिखित्वा तादृशीं हंसी वीरभद्रोऽपि तत्क्षणम् । तस्यै समर्पयामास सा निरूप्यैवमब्रवीत् ॥१६३॥ अहो! आलेख्यनैपुण्यमन्तर्भावप्रकाशकम् । तथाहि दृष्टिरेतस्या बाष्पाम्बुकणवर्षिणी ॥१६४।। प्रम्लानं वदनं चञ्चूः श्लथोपात्तमृणालिका । ग्रीवा च शिथिला पक्षावुफ्तनासहाविमौ ॥१६५॥ शून्यं चेदमवस्थानभवस्थां विरहाकुलाम् । आख्याति व्यक्तमेतस्या अनाख्यातामपि स्वयम् ॥१६६।। कलाविदीदृशी कस्मादियत्कालं सखि! त्वया । नाऽऽनीतेयं गृहे क्षिप्त्वा रहस्यमिव किं धृता ? ||१६७।। वीरभद्रोऽप्युवाचैवं गुरूणामभिशङ्कया। नाऽऽनीताऽहमिह स्वम्रा नाऽन्यत् किमपि कारणम् ॥१६८।। अनङ्गसुन्दरीत्यूचेऽतः परं प्रत्यहं त्वया। आगन्तव्यं सह स्वम्रा किं चाऽस्या नाम सुन्दरि! ? ॥१६९॥ वीरभद्रो झगित्यूचे नाम वीरमतीति मे । भूयोऽप्यूचे राजपुत्र्या वेत्स्यन्या अपि किं कला: ? ॥१७०।। ऊचे विनयवत्यैवमचिराज्ज्ञास्यसि स्वयम् । न प्रत्यय: पराख्यातेष्वत्यद्भुतगुणेष्वपि ॥१७१॥ एवमस्त्वित्युदित्वाऽय मुदिताऽनङ्गसुन्दरी। सत्कृत्य विनयवतीं विससर्ज तदन्विताम् ।।१७२॥
वीरभद्रो वधूवेषं गृहे मुक्त्वा ययौ पुन: । आपणे श्रेष्ठिन: पार्श्वे पितृभक्तिनियन्त्रितः ॥१७३।। श्रेष्ठी तमूचे सस्नेहं वत्स! क्वाऽऽस्था इयच्चिरम् ? । इह त्वां पृच्छतां नृणां निर्विण्णोऽस्म्युत्तरं ददत् ।।१७४।। बभाषे वीरभद्रोऽपि तातोद्याने गतोऽस्म्यहम् । श्रेष्ठ्यप्यभाषतैवं च यद्येवं शोभनं कृतम् ॥१७५।। तथैवाऽह्रि द्वितीयेऽपि तत्र सोऽगात् कलानिधिः । अनङ्गसुन्दरी वीणां वादयन्तीं ददर्श च॥१७६।। इत्यूचे वीरभद्रस्तां तन्त्रीरेषा न सुस्वरा । मनुष्यवालोऽमुष्यां यदर्नुस्यूतोऽस्ति सुन्दरि! ॥१७७।। कथं नु ज्ञायत ? इति तयोक्तः सोऽब्रवीदिदम् । ज्ञायते त्वदुपक्रान्तरागनिर्वाहदर्शनात् ॥१७८।। ततश्च साऽर्पयामास वीरभद्रस्य वल्लकीम् । तद्विदुत्कीलयामास तत्तन्त्रीं सोऽपि तत्क्षणात् ॥१७९।। मनुष्यवालं तन्मध्यात् स शल्यं हृदयादिव। आकृष्य दर्शयामास तस्या विस्मयमादधत् ।।१८०।। तत्तन्त्री संज्जयित्वा स भूयो दण्डे निबध्य च । वादयामास तां वीणां प्रावीण्यजिततुम्बरुः ॥१८१।। स्वरानुत्पादयामास सारण्या सुस्फुटश्रुतीन् । तानांश्च कूटतानांश्च व्यक्तव्यञ्जनधातुकान्॥१८२।। १. प्रणयम् ॥२. स्वपुत्रः ।। ३. आवि: प्रकटं यथा स्यात् तथा।।४. तया सम्मतः॥५.०माददौ खंता.॥ ६. वर्णकै:वर्ण: (रंगो वडे)।।७. चित्रकौशल्यम्।। ८.
र्भावप्रकाशनम् ला. ॥९. बाष्पाचकण० हे. ॥१०. मृणालिका-कमलदण्डः, शिथिलं उपात्ता-गृहीता मृणालिका यया सा ।। ११. उड्डयनेऽक्षमौ ॥ १२.श्रमितः ॥१३. तन्त्र्येषा सुस्वरा न हि हे. ॥१४. संलग्नः ॥ १५. त्वया आरब्धस्य रागस्य निर्वाहदर्शनात् ॥ १६. वीणाम् ।। १७. वोटितवान् ॥१८. विस्माययन् मन: हे. ॥१९. सज्जयित्वाऽथ मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org