________________
द्वितीयः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
कामरूप: सुर इव गुटिकादिप्रयोगतः । किं चाऽन्यत् ? सा कला नाऽस्ति यां 'स्रष्टेव न वेत्ति सः ॥११८॥ कन्यां तस्याऽनुरूपां तु नाऽपश्यं क्वचिदप्यहम् । इयं तु कन्यका दृष्टा चिरात् तदुचिता मया ॥ ११९॥ मैयाऽप्युक्तं ममाऽप्येषा कलाकौशलशलिनी । अनुरूपवरार्थेऽस्याश्चिरं ग्रस्तोऽस्मि चिन्तया ॥१२०॥ दैवानुकूल्यात् तदयं सङ्गमः साधुरावयोः । चिराद् वधू-वरत्वेन घटेतां तनयौ द्वयोः ॥ १२१ ॥ अनुरूपस्नुषालाभाद् गत्वा हृष्टो निजां पुरीम् । स प्राहिणोद् वीरभद्रं महत्या जैन्ययात्रया ॥१२२॥ वीरभद्रं वरं प्रेक्ष्याऽमन्दमानन्दमासदम् । तत्पित्राख्याततद्रूप- गुणसंवाददर्शनात् ॥ १२३॥ शुभे दिने पैर्यणैषीत् कन्यां मे प्रियदर्शनाम् । वीरभद्रः कुलस्त्रैणभद्रमङ्गलपूर्वकम् ।। १२४॥ कत्यप्यहानि स स्थित्वा सदारः स्वां पुरीं ययौ । तिष्ठन्ति न चिरं जातु मानिनः श्वशुरौकसि ॥१२५॥ अश्रौषं चाऽन्यदा वीरभद्रो यामे निशान्तिमे । मुक्त्वा मे तनयां सुप्तामेकाकी क्वचिदप्यगात् ॥१२६॥ आनैषीत् तत्प्र॑वृत्तिं च वामनः कोऽपि सम्प्रति । परं न व्यक्तमाख्याति स्फुटमाख्याहि तत्प्रभो! ॥१२७॥ इति सागरदत्तेन विज्ञप्तो भगवानपि । कुम्भो गणधर श्रेष्ठो जगादैवं कृपानिधिः ॥ १२८ ॥
1
1
"तस्यां निशायां जामाता स तंवैवमचिन्तयत् । कलानां पारदृश्वाऽस्मि मन्त्राः सिद्धाश्च भूरिशः ॥१२९॥ ज्ञाताश्च दिव्यगुटिकाप्रयोगा विस्मयास्पदम् । विज्ञानेषु च सर्वेषु भृशं प्राप्तं च पौटवम् ॥१३०॥ सर्वं निरर्थकं तच्च मनागप्यप्रकाशनात् । नियन्त्रितोऽस्मि यदिह गुरुसान्निध्यलज्जया ॥ १३१ ॥ कूपमण्डूकवत् तिष्ठन्नहो! कापुरुषोऽस्म्यहम् । प्रकाशयामि तद्गत्वाऽन्यदेशेषु निजान् गुणान् ॥१३२ || विचिन्त्येति समुत्थाय भूयोऽप्येवमचिन्तयत् । प्रिया कृतकसुप्ता चेंद्रतेर्विघ्नाय तद्भवेत् ॥ १३३॥ तत: क्रीडाकृते तां स समुदस्थापयत् प्रियाम् । साऽप्युवाच शिरोऽर्तिर्मे किं कदर्थयसि प्रिय ! ? ॥१३४॥ शिरोऽर्तिः कस्य दोषेण तवेति तेंदुदीरिता । त्वद्दोषेणेति साऽवादीत् कीदृशेनेति सोऽवदत् ॥ १३५ ।। साऽप्यूचे समयेऽत्राऽपि यत्ते वैदग्ध्यवागियम् । सोऽवोचन् मा कुपः कान्ते! करिष्ये नेदृशं पुनः ॥१३६॥ तां साभिप्रायमित्युक्त्वा रमयामास सोऽधिकम् । साऽप्यस्वाप्सीद् रतिश्रान्ता तां वक्रोक्तिमजानती ॥१३७॥ सत्यसुप्तेति तां मुक्त्वा हैंढामुक्तान्तरीयकः । वीरवद् वीरभद्रोऽथ निर्जगाम निजाद् गृहात् ॥ १३८ ॥ स्वं श्यामवर्णं गुटिकाप्रयोगेण चकार सः । याति वैंर्णपरावृत्त्या रूपं काव्यवदन्यताम् ॥१३९॥ कलाकलाप-विज्ञानातिशयं दर्शयश्च सः । विद्याधर इवाऽभ्राम्यत् स्वैरं ग्राम - पुरादिषु ॥ १४०॥ साऽऽपृच्छ्य श्वसुरौ तातगृहेऽगात् प्रियदर्शना । विना पतिं कुलस्त्रीणां वासो ह्यन्यत्र नोचितः ॥१४१॥ ||एकदा सिंहलद्वीपे रैत्नाकरनृपास्थितम् । पुरं रत्नपुरं नाम वीरभद्रो ययावटन् ॥ १४२॥ स हट्टे श्रेष्ठिशङ्खस्य शृङ्खोज्ज्वलगुणश्रियः । न्यषीदत् तेन पृष्टश्च कुतो भद्र! त्वमागमः ? ॥१४३॥ बभाषे वीरभद्रोऽपि ताम्रलिप्त्याः स्ववेश्मतः । रुषित्वा निःसृतो भ्राम्यन्निह ताताऽहमागमम् ॥ १४४॥ शङ्खश्रेष्ठ्यप्यभाषिष्ट न सुष्ठु भवता कृता । कुमार! सुकुमारेण विदेशगतिरीदृशी ।। १४५।। कर्मेदं वक्रमपि ते दैवेन सरलीकृतम् । अक्षताङ्गो यदत्राऽऽगास्त्वं वत्स! मम सन्निधौ ॥ १४६ ॥ इत्युक्त्वा तं गृहे नीत्वा शङ्खश्रेष्ठी स्वपुत्रवत् । स्नपयित्वा भोजयित्वा सस्नेहमिदमभ्यधात् ॥ १४७॥ ममाऽनुत्पन्नपुत्रस्य पुत्र! पुत्रस्त्वमेव हि । स्वामी भूत्वा मद्विभवमुपभुङ्क्ष्व च देहि च ॥१४८॥ कुरुष्व मैंदृशोः प्रीतिं विलसन्नमरैर्द्धिकः । धनं हि सुलभं वत्स! तद्भोक्ता दुर्लभः सुतः ॥ १४९॥
I
१. ब्रह्मेव ॥ २. मयाऽप्यूचे हे ॥ ३. स्नुषा-पुत्रवधूः ॥४. भाषायां 'जान' ।। ५. चोपयेमे हे. ।। ६. कुलस्त्रीणां भद्रमङ्गल (गीत) पूर्वकम् ।। ७. पत्नीसहितः ।। ८. स हे. खंता.मु. ।। ९. प्रवृत्ति: - वृत्तान्तः ॥ १०. तथैवमचि० हे. ॥। ११. पारगामी ॥। १२. चातुर्यम् ॥ १३. तत्तु खंता. मु. ॥। १४. कुपुरुषः ॥ १५. समुत्थाप्य मु. ।। १६. कृत्रिमतया सुप्ता ॥ १७. चेद्गतिर्वि० ला. हे ॥ १८. उत्थापितवान् ॥ १९. तेन प्रेरिता ।। २०. दृढं आमुक्तं बद्धमान्तरीयं अधोंऽशुकं वस्त्रं येन सः ।। २१. काव्यपक्षे वर्णानामकारादीनां परावर्तनेन अन्यार्थतां प्राप्नोति ॥ २२. दर्शयन्नसौ है. ॥ २३. रत्नाकरनाम्ना नृपेणाऽऽश्रितम् ॥ २४. शङ्ख इवोज्ज्वला गुणाः श्रीश्च यस्य सः ॥ २५. दानं देहि ॥ २६. मन्नेत्रयोः ॥ २७. विलसन्नसमर्द्धिक: हे. पा. ला. ॥ २८. अमरस्येव ऋद्धिर्यस्य सः ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org