________________
द्वितीयः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
वैजयन्त्याः समुत्तीर्य 'मार्गस्यैकादशीदिने । शुक्ले पौष्णगते चेन्दावह्नो भागे च पश्चिमे ॥५५॥ समं राजसहस्रेण षष्ठेन प्राव्रजत् प्रभुः । मनः पर्ययसञ्ज्ञं च तैदैव ज्ञानमासदत् ॥५६॥[युग्मम् ] पुरे राजपुरे सद्मन्यपराजितभूपतेः । चक्रे स्वामी द्वितीयेऽह्नि परमान्नेन पारणम् ||५७|| अमरैर्विदधे तत्र वसुधारादिपञ्चकम् । रत्नपीठं तेन राज्ञा स्वामिपादपदे पुनः || ५८॥ अनासीनोऽशयानश्च विविधाभिग्रहः प्रभुः । छद्मस्थस्त्रीणि वर्षाणि विजहार वसुन्धराम् ॥५९॥ 1 अन्येद्युर्विहरन्नाऽऽगात् सहस्राम्रवणं पुनः । सहकारतरोर्मूले चाऽस्थात् प्रतिमया प्रभुः ||६०॥ कार्तिकशुक्लद्वादश्यां शशाङ्के रेवतीगते । उत्पेदे केवलं तत्र घातिकर्मक्षयात् प्रभोः ॥ ६१ ॥ सद्यश्च देवैः समवसरणं तत्र निर्ममे । तत्र द्वारेण पूर्वेण प्रविवेश जगद्गुरुः ॥६२॥
चैत्यद्धुं तत्र षष्ट्यग्रकार्मुकत्रिशतोन्नतम्। प्रदक्षिणीकृत्य “नमस्तीर्थाये” त्यवदद् विभुः ||६३|| पूर्वसिंहासने तत्रोपाविशत् प्राङ्मुखः प्रभुः । व्यन्तरास्तत्प्रतिच्छन्दान् दिक्ष्वन्यास्वपि चक्रिरे ॥ ६४ ॥ अवास्थित यथास्थानं सङ्घोऽपि भगवानथ । ज्ञात्वेशं समवसृतं तत्राऽऽगाच्च कुरूद्वहः ||६५|| भगवन्तं नमस्कृत्य सोऽर्नुशक्रमुपाविशत् । प्रारेभाते इति स्तोतुमथ शक्र - कुरूद्वहौ ||६६|| "जय त्रिभुवनाधीश ! जय विश्वैकवत्सल ! । जय कारुण्यजलधे! जयाऽतिशयशोभित! ||६७ || विश्वप्रकाशनं भानोरमोघैर्भानुभिः सदा । विश्वसन्तापहरणं ज्योत्स्नया च हिमद्युतेः ॥६८॥ जगज्जीवनमम्भोभिः प्रावृडम्भोधरस्य च । जगदाश्वासनं वायोर्गत्या सन्ततयाऽपि च ॥ ६९॥ यथा निष्कारणमिह तथा ते परमेश्वर ! । जगत्त्रयोपकाराय प्रवृत्तिर्जयति प्रभो! ॥७०॥ अन्धकारमयं चाऽऽसीदन्धं वा जगदप्यदः । सप्रकाशं सेक्षणं वा त्वया जज्ञेऽधुना पुन: ॥ ७१ ॥ नरकाणां खिलेः पन्था भविताऽतः परं प्रभो ! । तिर्यग्योनावपि गतिः स्तोकस्तोका भविष्यति ॥७२॥ सीमग्रामान्तराणीव स्वर्गाश्च प्राणिनाममी । प्रत्यासन्ना भविष्यन्ति मुक्तिरप्यदैवीयसी ॥७३॥ त्वयि विश्वोपकाराय विहरत्यवनीमिमाम् । भावि किं किं न कल्याणमसम्भाव्यमपि प्रभो! ?” ॥७४॥ इति स्तुत्वा सौधर्मेन्द्रे कुरुराजे च तस्थुषि । अरनाथः स भगवान् विदधे धर्मदेशनाम् ॥७५॥ "चतुर्वर्गाग्रणीर्मोक्ष एकान्तसुखसागरः । तत्साधकतमं ध्यानमधीनं मनसश्च तत् ॥७६॥ आत्मायत्तमपि स्वान्तं कुर्वतामत्र योगिनाम् । रागादिभिः समाक्रम्य परायत्तं विधीयते ॥७७॥ रक्ष्यमाणमपि स्वान्तं समादाय मनामिषम् । पिशाचा इव रागाद्याश्छलयन्ति मुहुर्मुहुः ॥७८॥ राँगादितिमिरध्वस्तज्ञानेन मनसा जन: । अन्धेनाऽन्ध इवाऽऽकृष्टः पात्यते नरकावटे ॥७९॥ द्रव्यादिषु रति-प्रीती राग इत्यभिधीयते । तेष्वेवाऽरतिमप्रीतिं चाऽऽहुद्वेषं मनीषिणः ॥ ८० ॥ उभावेतौ दृढतरौ बन्धनं सर्वजन्मिनाम् । सर्वदुःखानोर्केहानां मूल - कन्दौ प्रकीर्तितौ ॥८१॥ कः सुखे विस्मयस्मेरो ? दुःखे कः कृपणो भवेत् ? । मोक्षं को नाऽऽप्नुयाद् ? राग-द्वेषौ स्यातां न चेदिह ॥८२॥ रोगेण ह्यविनाभावी द्वेषो द्वेषेण चेतरः । तयोरेकतरत्यागे परित्यक्तावुभावपि ॥ ८३ ॥ दोषाः स्मरप्रभृतयो रागस्य पैरिचारकाः । मिथ्याभिमानप्रमुखा द्वेषस्य तु पैंरिच्छदः ॥८४॥ तयोर्मोह: पिता बीजं नायकः परमेश्वरः । ताभ्यामभिन्नस्तद्र्क्ष्य: सर्वदोषपितामहः ॥८५॥ एवमेते त्रयो दोषा नाऽतो दोषान्तरं क्वचित् । तैरमी जन्तवः सर्वे भ्राम्यन्ते भववारिधौ ॥८६॥
१. मार्गशीर्षस्य ।। २. रेवतीं गते । ३. ज्ञानं तदैवमासदत् हे ॥ ४. चन्द्रे ॥ ५. ३६०धनुरुन्नतमित्यर्थः ॥ ६. पूज्यः ॥ ७ कुरुदेशस्य राजा ॥ ८. इन्द्रस्य पश्चात् ॥ ९. किरणैः ॥ १०. चन्द्रस्य ॥ ११. नेत्रसहितम् ।। १२. शून्यः ।। १३. नातिदूरा ॥ १४. चतुर्वर्गेऽग्रणी० खंता ।। १५. मनः ।। १६. छिद्रं, 'बहानुं ' इति भाषायाम् ।। १७. रागादय एवाऽन्धकारस्तेन ध्वस्तं ज्ञानं यस्य तत्, तेन ॥ १८. यथाऽन्धेनाऽऽकृष्टोऽन्धोऽवटे कूपे पात्यते तद्वत् ॥ १९. नरककूपे ।। २०. सर्व दोषानो कहानां हे. ।। २१. वृक्षाणाम् ॥ २२. रागं विना द्वेषो न भवेत्, द्वेषं च विना रागोऽपि न भवेदित्यर्थः ॥ २३. सेवकाः; परिचारिका: ला. मु. ॥ २४. परिवारः ।। २५. राग-द्वेषाभ्याम् ॥ २६. स्तद्रक्षः खंता; ताभ्यां रक्ष्य:- रक्षणीयः ॥ २७. सर्वदोषाणां पितरौ राग-द्वेषौ तयोरपि पिता मोह इत्यर्थः ॥ २८. भ्रम्यन्ते हे. मु. ॥
Jain Education International
७७
For Private Personal Use Only
www.jainelibrary.org