________________
(षष्ठं पर्व
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं पूर्णायामादिपौरुष्यां देशनाविरते प्रभौ । स्वयम्भूर्देशनां स्वामिपादपीठस्थितोऽकरोत् ।।११४॥ पूर्णद्वितीयपौरुष्यां व्यस्राक्षीत् सोऽपि देशनाम् । नत्वा श्रीकुन्थुमीयुश्च स्वं स्वं स्थानं सुरादयः ॥११५॥
तत्तीर्थभूश्च गन्धर्वयक्षो हंसरथोऽसित:। दधानो दक्षिणी बाहुदण्डौ वरद-पाशिनौ ॥११६।। मातुलिङ्गाङ्कुशधरौ धारयन् दक्षिणेतरौ । श्रीमत: कुन्थुनाथस्य जज्ञे शासनदेवता ॥११७।। तत्तीर्थभूर्बलादेवी गौराङ्गी केकिवाहना। बिभ्राणा दक्षिणौ बाहू बीजपूरक-शूलिनौ ॥११८।। मुष(षु)ण्ढी-पङ्कजभृतौ बिभ्रती दक्षिणेतरौ । सदा सन्निहिता जज्ञे प्रभोः शासनदेवता ॥११९॥ ताभ्याममुक्तसान्निध्यस्तत: स्थानादथाऽन्यतः । भव्यजन्तूपकाराय विजहार जगद्गुरुः ॥१२०॥ पषष्टिसहस्री साधूनां सा साध्वीनां सषट्शता। चतुर्दशपूर्वभृतां सप्तत्यधिकषट्शती ॥१२१॥ सहस्रद्वितयं सार्धमवधिज्ञानशालिनाम् । चत्वारिंशत्त्रयस्त्रिंशच्छती चाऽपि मनोविदाम् ॥१२२॥ केवलज्ञानिनां त्रीणि सहस्राणि शतद्वयम् । शतानि चैकपञ्चाशद्वैक्रियलब्धिशालिनाम् ॥१२३।। सञ्जातवादलब्धीनां सहस्रद्वितयं पुनः । श्रीवकाणां लक्षमेकन्यूनाशीतिसहस्रयुक् ॥१२४।। श्रीविकाणां त्रीणि लक्षाण्येकाशीतिसहस्यपि । आकेवलाद्विहरत: परिवारोऽभवत् प्रभोः ॥१२५।। गतेष्वब्दसहस्रेषु त्रयोविंशेषु केवलात् । चतुस्त्रिंशत्सहितेषु शतेष्वपि च सप्तसु ॥१२६॥ निर्वाणसमयं ज्ञात्वा सम्मेताद्रिं ययौ प्रभुः । समं मुनिसहस्रेण शिश्रियेऽनशनं ततः ॥१२७॥ [युग्मम्] मासान्ते राँधकृष्णादितिथौ भे कृत्तिकासु च । समं तैर्मुनिभिः स्वामी प्रपेदे पदमव्ययम् ॥१२८॥ कौमार-राज्य-चक्रित्व-व्रतेषु समभागकम् । आयु: पञ्चनवत्यब्दसहस्रमभवत् प्रभोः ।।१२९।। श्रीशान्तिनाथनिर्वाणादर्धपल्योपमे गते । कुन्थुनाथजिनेन्द्रस्य निर्वाणं समजायत ॥१३०।।
निर्वाणपर्वमहिमा विदधे सुपर्वनाथैः सुपर्वसहितै: परमेश्वरस्य। दंष्ट्रा-रदादि परिपूजयितुं यथावन् निन्ये च तैर्निजनिजेषु निकेतनेषु ॥१३१।।
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये षष्ठे पर्वणि श्रीकुन्थुनाथचरित
वर्णनो नाम प्रथम: सर्गः।।
१. विसर्जितवान् ।।२. कृष्णवर्णः ॥ ३. वामहस्तौ ।। ४. मुषुण्ढी स्याद् दारुमयी वृत्ताय:कीलसञ्चिता (शेषनाममाला श्लो.१५१) ।। ५. साधूनां सङ्ख्या ६० सहस्रमिता ॥६. साध्वीनां सङ्ख्या ६०६००मिता॥७. चतुर्दशपूर्विणां सङ्ख्या ६७०मिता ॥८. अवधिज्ञानिनां सङ्ख्या २५००मिता॥९. मन:पर्ययज्ञानिनां सङ्ख्या ३३४०मिता॥१०.केवलज्ञानिनां सङ्ख्या ३२००मिता॥११.वैक्रियलब्धीनां सङ्ख्या ५१००मिता ॥१२. वादलब्धीनां सङ्ख्या २सहस्रमिता ।। १३. श्रावकाणां सङ्ख्या १लक्ष-७९सहस्रमिता ॥१४. लक्षमेकंन्यूना खंता.पा.हे.छा.मु.॥१५. श्राविकाणां सङ्ख्या ३लक्ष-८१सहस्रमिता ॥१६. गतेषु २३७३४वर्षेषु ।।१७. पुन: मु. ॥ १८. वैशाखकृष्णप्रतिपदि॥१९. नक्षत्रे ॥२०. कौमारे २३७५०वर्षाणि, राज्ये २३७५०वर्षाणि, चक्रित्वे २३७५०वर्षाणि, व्रते २३७५०वर्षाणि ॥ २१. आयुर्वर्षाणि ९५सहस्रमितानि॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org