________________
७२
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(षष्ठं पर्व शक्रसङ्क्रमिताङ्गुष्ठपीयूषं भगवान् पिबन् । क्रमेण 'वर्धमानोऽभूत् पञ्चत्रिंशद्धनूनतः ॥५१॥ पित्राज्ञया पर्यणैषीत् स काले राजकन्यका: । कर्म भोगफलं छेत्तुं चाऽन्यथा शक्यते न हि॥५२॥ त्रयोविंश्यब्दसहस्रेष्वर्धाष्टमशतेषु च । गतेषु जन्मतो राज्यं प्रभुः पित्राज्ञयाऽग्रहीत् ॥५३॥ गतेष्वब्देषु तावत्सु भर्तुर्मण्डलिकस्थितौ । मध्येऽस्वसदने चक्ररत्नं समुदपद्यत॥५४।। चक्रेऽर्चा चक्ररत्नस्य जगदर्योऽपि सूरसूः । महात्मानो हि कुर्वन्ति सेवकेष्वपि सत्कृतिम् ।।५५।। मागधेशं वरदाम-प्रभासाधिपती अपि । क्रमेण साधयामास चक्ररत्नानुगः प्रभुः ॥५६।। सिन्धुदेवीं वैताढ्याद्रिकुमारं कृतमालकम् । स्वयं सोऽसाधयदथ सेनान्या सिन्धुनिष्कुटम् ।।५७/ सेनान्योद्घाटितद्वारा प्रविश्य च तमिस्रया। निर्गत्य चाऽऽपातनाम्नो म्लेच्छान् प्रभुरसाधयत् ॥५८।। सेनान्या च वशीचक्रे द्वितीयं सिन्धुनिष्कुटम् । गत्वा च क्षुद्रहिमवत्कुमारं स्वाम्यसाधयत् ॥५९।। कल्प इत्यृषभकूटे निजं नाम लिलेख च । ववले च तत: स्थानाच्चक्ररत्नानुग: प्रभुः ॥६०॥ आगतश्चोपवैताढ्यं तच्छ्रेणिद्वयवर्तिभिः । विद्याधरेन्द्ररानर्चे विविधोपायनैः प्रभुः॥६१॥ गङ्गादेवीं नाट्यमालं स्वयं प्रभुरसाधयत् । गाङ्गं तु निष्कुटं सैन्यपतिना म्लेच्छसङ्कुलम् ॥६२।। सेनान्योद्घाटितखण्डप्रपातगुहया प्रभुः । प्रविश्य वैतादयगिरेर्निर्ययौ सपरिच्छदः ॥६३॥ नैसर्पप्रमुखास्तत्र नवाऽपि निधय: प्रभोः । सिध्यन्ति स्म स्वयमपि गङ्गामुखनिवासिनः ॥६४॥ द्वितीयं निष्कुटं गाङ्गं सेनान्याऽसाधयत् प्रभुः। विजिग्ये भरतक्षेत्रं षड्भिर्वर्षर्शतैरिति ॥६५॥ सम्पूर्णचक्रभृत्सम्पन् नरामरनिषेवितः । ततो निवृत्त: श्रीकुन्थुराययौ हस्तिनापुरम् ॥६६॥ चक्रे चक्रित्वाभिषेक: प्रभोर्देवैर्नरैरपि । उत्सवश्च द्वादशाब्दी पुरे तस्मिन्नजायत ॥६७।। त्रयोविंश्यब्दसहस्रा: सार्धाष्टमशता ययुः । श्रीकुन्थुस्वामिनश्चक्रवर्तिवैभवधारिणः ॥६८॥ तीर्थं प्रवर्तय स्वामिन्निति लोकान्तिकैः प्रभुः । विज्ञप्तो वार्षिकदानं ददौ राज्यं च सूनवे ॥६९।। स्वामी नपैश्च देवैश्च कृतनिष्क्रमणोत्सवः । विजयाशिबिकारूढः सहस्राम्रवणं ययौ॥७०॥ चुम्बता चम्पकलताचूतयष्टीविधुन्वता । वासन्तिका नर्तयता निर्गुण्डीरभिमृद्नता ॥७१॥ आलिङ्गता च लवली: स्पृशता नवमालिकाः। पाटलीश्च पाटयता पद्मिनीश्चाऽभिसर्पता ॥७२॥ आक्रमताऽशोकलता: कदलीरनुगृह्णता। यूनेव पवमानेन दक्षिणेन मनोरमम् ॥७३॥ दोलान्दोलनसंसक्तललनालटभीकृतम् । कुसुमावचयक्रीडाव्यग्रपौरेभ्यदारकम् ।।७४।। उन्मत्तकोकिलालापैर्मधुरैश्चाऽलकूजितैः । विहितस्वागतमिवोद्यानं तत् प्राविशत् प्रभुः ॥७५||पञ्चभि: कुलकम्।। शिबिकाया: समुत्तीर्य त्यक्त्वाऽस्लङ्करणादिकम् । वैशाखकृष्णपञ्चम्यां कृत्तिकास्वह्नि पश्चिमे ॥७६।। समं राजसहस्रेण षष्ठेन प्राव्रजत् प्रभुः । चतुर्थं प्राप च ज्ञानं मन:पर्ययसञकम् ॥७७॥[युग्मम्] पुरे चक्रपुरे व्याघ्रसिंहपार्थिववेश्मनि । द्वितीयेऽह्नि व्यधात् स्वामी परमान्नेन पारणम् ।।७८।। विदधे वसुधारादिपञ्चकं तत्र नाकिभिः । रत्नपीठं व्याघ्रसिंहेनांऽह्रिस्थाने पुन: प्रभोः ॥७९।। नि:सङ्गोऽप्रतिबद्धश्च समीरण इव प्रभुः । छद्यस्थ: षोडशाब्दानि विजहार वसुन्धराम् ।।८०।।
अन्येधुर्विहरन्नागात् सहस्राम्रवणं प्रभुः। कृतषष्ठस्तिलकद्रौ तस्थौ च प्रतिमाधरः ॥८१।। १. वृद्धिमापेदे कल्पद्रुम इवाऽवनौ हे.॥२.शस्त्रागारे ॥३. सूरस्य राज्ञः सुतः-कुन्थुरित्यर्थः ॥४. सेनान्या-सेनापतिना उद्घाटितं द्वारं यस्या: सा, तया॥५. चापातनाम्नो मु.प्रभृतिषु ॥६. आचार इति हेतोः॥७. वैताढ्यसमीपम् ॥ ८.०घरेन्द्ररानर्चि ला.॥९. असिध्यन्त हे. ॥१०. सेनान्याऽसाधयत् ततः। इत्थं भरतषट्खण्डीमखण्डाज्ञोऽजयत् प्रभुः॥हे. ॥११.०वर्षशतैरपि खंता. ॥ १२.०वर्तिवैभवशालिन: खंता. मु.॥ १३. लोकान्तिकामरैः हे. ॥ १४. ददौ दीक्षोत्सुकः प्रभुः हे.॥१५. आम्रलताः ॥ १६. सिन्दुवारान् , भाषायां 'नगोडवृक्ष' ॥ १७. वायुना ॥ १८. दोलान्दोलने संसक्ताश्च ता ललनाच, ताभि: लटभीकृतं सुन्दरीकृतम् । कुसुमावचयो वसन्तः, तस्य क्रीडायां व्यग्रा: पौरा इभ्या दारकाश्च यत्र तत् ।। १९. कृत्तिकानक्षत्रे ॥ २०. देवैः ॥ २१. तिलकवृक्षतले॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org