________________
प्रथम: सर्ग:)
त्रिषष्टिशलाकापुरुषचरितम् । द्वैतीयीकोऽन्तरात्मेव हृदि तस्याऽवसत् सदा । धर्म एवाऽर्थ-कामौ तु बहिःस्थौ 'बहिरात्मवत् ॥२०॥ प्रतापाक्रान्तदिक्कस्य तस्य शस्त्राणि जज्ञिरे। दोष्णोर्विभूषणायैव केयूर-कटकादिवत् ॥२१॥ न चुकोप से कस्मैचिज्जुगोप च महीमिमाम् । विनाऽपि तीव्रतां विश्वं प्रकाशयति चन्द्रमाः ॥२२॥ रूप-लावण्यपुण्याङ्गी शीलनैर्मल्यशालिनी। श्रीदेवीव हरेस्तस्य नाम्ना श्रीरिति पत्न्यभूत् ॥२३॥ किं सुधासारणि: ? किं वा सुधांशोरधिदेवता ? । सुधां क्षरन्ती वचसा शुशुभे सा शुभानना ॥२४।। मन्दमेवाऽनवद्याङ्गी जगाम च जगाद च । हंसीव राजहंसस्य तस्य सा प्राणवल्लभा ।।२५।। तया देव्या समं भोगान् बुभुजे सूरपार्थिवः । निर्विघ्नसुखनिर्मग्नो वैमानिक इवाऽमरः ॥२६॥ पाइतश्च सर्वार्थसिद्धे विमानेऽपूरयन्निजम् । जीव: सिंहावहस्याऽऽयुस्त्रयस्त्रिंशार्णवप्रमम् ॥२७।। श्रावणासितनवम्यां कृत्तिकास्थे निशाकरे । च्युत्वा ततस्तस्य जीव: श्रिय: कुक्षाववातरत् ॥२८॥[युग्मम्] चतुर्दन्तो गज: श्वेत: ककुद्यान् कुमुदद्युतिः । केसयुत्केसरो लक्ष्मीरभिषेकमनोरमा ॥२९॥ पञ्चवर्णं पुष्पदाम पार्वणो रजनीकरः । प्रद्योतन: कृतद्योत: सपताको महाध्वजः ॥३०॥ शातकौम्भ: पूर्णकुम्भ: पद्मपूर्ण सरोवरम्। सरितां पतिरुद्वीचिर्विमानं रत्ननिर्मितम् ॥३१॥ रत्नपुञ्जोऽभ्रंलिहरुग् निघूमश्च विभावसुः । एते चतुर्दश स्वप्नास्तदा ददृशिरे तया ॥३२॥ देव्या च कथितान् स्वप्नान् व्याचख्यौ नृपतिः प्रेगे। स्वप्नैरेभिः सुतो भावी चक्रभृत् तीर्थकृच्च ते ॥३३॥ ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च। राँधकृष्णचतुर्दश्यां कृत्तिकास्थे निशाकरे ॥३४॥ ग्रहेषु चोच्चसंस्थेषु छागाकं काञ्चनच्छविम्। सर्वलक्षणसम्पूर्ण श्रीदेवी सुषुवे सुतम् ।।३५।। नारकाणां क्षणं सौख्यमुद्योतश्च जगत्त्रये। अभूत्तदा चाऽऽसनानि शक्रादीनां चकम्पिरे ॥३६॥ उपेत्याऽऽसनकम्पेन कर्मकर्य इव क्षणात् । षट्पञ्चाशद्दिक्कुमार्य: सूतिकर्माणि चक्रिरे ॥३७॥
शक्रः पञ्चवपुर्भूत्वा मेरुशैलेऽनयत् प्रभुम् । इन्द्राश्च स्नपयामासुस्त्रिषष्टिस्तीर्थवारिभिः ॥३८॥ ईशानाङ्के निवेश्येशं शक्रोऽप्यस्नपयत् तत: । कृत्वा पूजादिकं चोच्चैरिति स्तोतुं प्रचक्रमे ॥३९।। “अद्य नीराणि क्षीरोदप्रभृतीनामुदन्वताम् । पद्मप्रभृतिह्रदानां पद्मानि च पयांसि च ॥४०॥
औषध्य: क्षुद्रहिमवत्प्रभृतीनां महीभृताम् । भद्रशालप्रभृतीनां वनानां कुसुमान्यपि ॥४१।। मलयाधित्यकादीनां भूमीनां चन्दनानि च । युष्मत्स्नात्रोपयोगेन कृतार्थानि जगत्पते! ॥४२॥त्रिभिर्विशेषकम्।। कृतार्थमिदमैश्वर्यमखिलानां दिवौकसाम् । देव! त्वज्जन्मकल्याणमहोत्सवविधानतः ॥४३।। उत्कृष्टो भूभृतामद्य तीर्थभूतोऽयमद्य च। प्रासाद इव बिम्बेन त्वया मेरुरलङ्कतः॥४४॥ अद्य चढूंषि चढूंषि पाणयश्चाऽद्य पाणयः । दर्शनेन स्पर्शनेन भवतो भुवनेश्वर! ॥४५॥ अद्य न: सफलं नाथाऽवधिज्ञानं निसर्गजम् । येनं ते जन्म विज्ञाय जन्मोत्सवमकृष्महि ।।४६।। यथाऽद्य हृदयद्वारे स्नात्रकाले ममाऽभवः । तथैव हृदयस्याऽन्तरपि भूयाश्चिरं प्रभो!” ||४७।। जगन्नाथमिति स्तुत्वा गृहीत्वा च पुरन्दरः । गत्वा च हास्तिनपुरं श्रीदेव्या: पार्श्वतोऽमुचत् ॥४८।। पचक्रे जन्मोत्सवः सूनो: शूरेणाऽपि महीभुजा । यद्वोत्पन्ने तीर्थनाथे सदोत्सवमयं जगत् ॥४९।। दृष्टो देव्या गर्भगेऽस्मिन् कुन्थ्वाख्यो रत्नसञ्चयः । कुन्थुरित्यभिधां तेन स्वामिनो विदधे पिता ॥५०॥ १. बहिरात्मकृत् खंता. ॥ २. सर्वशस्त्राणि छा. पा. ।। ३. च स काऽपि जु० हे. ॥ ४. त्रयस्त्रिंश्यर्णवप्रमम् खंता. । त्रयस्त्रिंशत्सागरप्रमाणम् ॥ ५. श्रावणकृष्णनवम्याम् ॥ ६. वृषभः॥७. पूर्णिमासम्बन्धी॥८. सूर्यः ।। ९. सौवर्णः॥१०. समुद्रः॥११. अग्निः॥१२. प्रात:काले।।१३. स्वप्नैरेभिर्जगद्वन्द्यो भावी ते तीर्थकृत् सुत: हे. ॥१४. वैशाखकृष्णचतुर्दश्याम् ।। १५. अज: लाञ्छनं यस्य सः, तम् ॥ १६. काञ्चनस्य सुवर्णस्य इव छवि: कान्तिर्यस्य सः, तम् ॥ १७. पञ्चत्रिंशद्धनुस्तुङ्गम् हे. ॥१८. किड्कयः;कर्मकार्य इवला.॥१९. सागराणाम् ।। २०. ओषध्य: मु.॥२१. पर्वतानाम् ॥ २२. पर्वतस्योपरितनो भूभागः ।। २३. पर्वतानाम् ।। २४. जिन! मु. ॥ २५. गृहीत्वाऽऽशु छा. पा. मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org