________________
पञ्चम: सर्ग:)
त्रिषष्टिशलाकापुरुषचरितम् । विना वसन्तदेवं मे नाऽन्यत्र रमते मनः । विषकन्या पत्युरिवाऽन्यः पतिर्मरणाय मे॥४९४॥ वसन्तदेवो मे भर्ता भूयाजन्मान्तरेऽपि हि। नमस्कृतोऽसि सुचिरं नमस्कारोऽयमन्तिमः॥४९५॥ इत्युक्त्वा यावदात्मानं तोरणे प्रोद्बबन्ध सा। तावद्वसन्तो धावित्वा पाशग्रन्थिं व्यसूत्रयत्॥४९६।। कुतोऽयमिति साश्चर्या सव्रीडा सभया चसा। एवं वसन्तदेवेन जगदे कुमुदेक्षणा॥४९७।। असौ वसन्तदेवोऽस्मि प्रिये! प्राणप्रियस्तव। मनोभवाद्याचसे यं परलोकेऽप्यधीश्वरम् ॥४९८॥ निष्कारणवयस्यस्याऽमुष्य बुद्ध्या महात्मनः। अनागतां प्रविष्टोऽस्मि त्वां जिहीर्षुः कृशोदरि! ॥४९९।। तदर्पयस्व नेपथ्यं येन त्वद्वेषधार्यसौ। मोहयंस्ते परिजनं त्वद्वत् त्वद्वेश्म गच्छति॥५००॥ समंत्वत्परिवारेण किञ्चिदस्मिन्नुपेयुषि। देशान्तरमभिप्रेतं यास्याम: श्यामकुन्तले! ॥५०१।। इत्युक्ता निजनेपथ्यं कामपालाय साऽपर्यत् । पृष्ठे च कामदेवस्य स वसन्तोऽप्यवास्थित ॥५०२॥ कामदेवं कामपालोऽप्यर्चित्वा कुसुमादिना। चकार केसरावेषं नीरङ्गीपिहिताननः ॥५०३।। स्वयमुद्धाट्य तद्वारमवलम्ब्य प्रियङ्कराम्।याप्ययानं समारोहद्वाहीकैस्तदौह्यत॥५०४॥ सोऽलक्षित: परिजनैः पञ्चनन्दिगृहं ययौ। सुप्रयुक्तस्य दम्भस्य ब्रह्माऽप्यन्तं न गच्छति॥५०५।। स प्रियङ्करया यानादवतार्य वधूगृहम् । अनाय्युपावेश्यत चस्वर्णवेत्रासने तया॥५०६॥ स्मरन्ती केसरे! तिष्ठ मन्त्रं प्रियसमागमम्। पुदित्वा निर्जगाम सा प्रियाकृत् प्रियङ्करा॥५०७।। सोऽथतद्वाक्यभावार्थमुपादायाऽस्मरन्मुहः। मन्त्रं काम-रतिसमागमं नाम महामतिः॥५०८॥
केसरामातुलसुता जन्ययात्रानिमन्त्रिता। साशवपुरवास्तव्या मदिरा तत्रचाऽऽययौ॥५०९।। तस्योपविश्य पुरत: किञ्चिनिःश्वस्य चाऽब्रवीत्। केसरे! किं सखेदाऽसि विध्यधीनासु सिद्धिषु? ॥५१०॥ समंवसन्तदेवेन सङ्गमं ते वराङ्गने!। अभीष्टमहमश्रौषमपिशङ्खपुरे स्थिता ॥५११॥ अहमात्मानुभूतत्वात्प्रेयोविरहवेदनाम्। जानामि तेन वच्मि त्वां समाश्वासयितुं सखि! ॥५१२॥ अनभीष्टं करोत्येष प्रतिकूलो यथा विधिः । दशावशेनाऽनुकूलोऽभीष्टं कर्ता तथैव सः॥५१३।। सखि! किञ्चाऽसि धन्या त्वं यस्यास्ते प्रेयसा समम् । अभूवन् दर्शनालापप्रभृतीनि मुहुर्मुहुः ॥५१४॥
वृत्तान्तो दारुणो मे तु दुःश्रवः श्रूयतां सखि! । शङ्खपालोत्सवेऽहं हि समं परिजनैरगाम्॥५१५।। तत्राऽशोकद्रुमस्याऽधो मन:सर्वस्वतस्करम्। युवानमेकमद्राक्षप्रत्यक्षमिव मन्मथम्॥५१६।। सखीहस्तेन ताम्बूलं तस्मैच प्रेषितं मया। रक्षिताऽस्मि च तेनाऽहं व्यालेभादन्तकादिव॥५१७।। पुनश्च हस्तिशङ्कायां त्रस्ताऽहं ससखीजना। भूयोऽपिचाऽन्वेषयन्ती नाऽपश्यं तं क्वचिद्गतम्॥५१८।। अलिदष्टा मर्कटीव सर्वत्राऽरतिभाजनम् । तदाप्रभृति जीवामि वराक्येषा कथञ्चन ॥५१९॥ अद्ययावत्तमद्राक्षं स्वप्न एव मनोरमम् । यदि दैवप्रसादेन सप्रत्यक्षो भविष्यति॥५२०॥ तव दु:खं लघूकर्तुं रहस्यं शस्यते मया।अन्यं हि दुःखितं दृष्ट्वा समाश्वसन्ति दुःखिनः ॥५२१॥ तदलं सखि! खेदेनाऽनुकूले हि विधौ स्वयम्। प्रेय:समागमो भावी कातरे! धैर्यभाग्भव॥५२२॥
अथाऽपसार्य नीरङ्गीकामपालोऽब्रवीदिदम्। त्वया यक्षोत्सवे दृष्टपूर्वोऽस्म्येष सते प्रियः॥५२३॥ दैवानुकूल्यादधुनैवाऽऽवयोरिव सङ्गमः। अभवत् कान्ते! वसन्तदेव-केसरयोरपि॥५२४॥ अलमालापविघ्नेन विमुञ्च भयनिघ्नताम्। किञ्चिन्निर्गमनद्वारं दर्शयाऽनिन्द्यदर्शने!॥५२५।। एवमुक्त्वा गृहोद्याने पश्चिमद्वारवर्त्मना। मदिरादर्शितेनाऽगात् समं मदिरयैव सः॥५२६।। पूर्वं पुरेऽस्मिन् वसन्तदेव-केसरयोस्तयोः। आयातयो: संयुयुजे कामपालोऽथ सप्रियः॥५२७।। १. वेषम् ।। २. यास्याव: छा. मु.॥३. पालखी' ॥४. वरानने पा.॥५. च विमार्गन्ती मु.प्रभृतिषु॥६. वृश्चिकदष्टा ॥७. तंच मु.॥८. समाश्वसिति दुःखितः मु.॥९. बभूव ता. पा.ला. सं.॥१०. भयाधीनत्वम्॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org