________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(पञ्चमं पर्व तावदालानमुन्मूल्य परितस्त्रोटितान्दुकः । प्रससार महासार: कोऽप्येको 'व्यालकुञ्जरः ।।४६४॥युग्मम्।। प्रतीकारासहै`रात् प्रतिकारैः समुज्झित: अतिमात्राकुलैर्धावन् महामात्रैरुदीक्षितः॥४६५॥ आराहस्तान् हस्तिपकान् विहस्तानपहस्तयन्। हस्ती चूतनिकुञ्जतं क्षणादप्याससाद सः॥४६६॥युग्मम्।। तस्या: सर्व: पलायिष्ट कन्यकाया: परिच्छदः। आत्मैवोपरि सर्वस्य प्रायेणोपस्थितेभये॥४६७॥ आपतत्यपि तत्रेभेसा पलायितुमक्षमा। हरिणारौ हरिणीव तस्थौ तत्रैववेपिनी॥४६८॥ यावदादत्त हस्तेन तां कन्यां सामि सामजः। लकुटेन मया तावत् पेचके सन्यहन्यत॥४६९॥ कन्यां मुक्त्वा से ववले पुच्छस्पृष्ट इवोरग:। तंगजंवञ्चयित्वा च तांचाऽऽदायाऽन्यतोऽगमम् ॥४७०॥ मुमुचेसा मयैकस्मिन् प्रदेशे निरुपद्रवे। सा तु वारितवामेव हृदयान्न मुमोच माम् ॥४७१॥ तस्या: परिजनस्तत्र भूयोऽपि हि समाययौ। त्रातां च मदिरांज्ञात्वा बन्दीव प्रशशंस माम्॥४७२॥ पुनश्चूतवने तस्मिन् सा सखीभिरनीयत। दैवादापेतुरनिलाकृष्टाश्च करिशीकराः॥४७३॥ भीता दिशो दिशं जग्मुस्तत: सर्वेऽपि सा पुनः। गता क्वाऽपीत्यजानान: पर्याटं तद्दिदृक्षया॥४७४॥ तामदृष्ट्वा चिरेणाऽपि शून्यस्वान्त इहाऽऽगमम्। न म्रिये निरुपायोऽपि किन्तु जीवामि पश्य माम्॥४७५॥ केसरायास्तु सम्प्राप्तावुपाया अपि सन्त्यहो! । तत्तुल्यदु:खं मित्रं त्वां वच्म्यज्ञानेन मा मृथाः ॥४७६।। पाप्रातर्विवाह इत्यद्य स्मरं रतिसमन्वितम् । कल्पोऽयमिति सैकैव पूजयिष्यति केसरा॥४७७॥ ततोऽनागतमेवाऽऽवां स्मरदेवकुलान्तरे । सखे! प्रविश्य तिष्ठावो निभृतं साधकाविव ॥४७८।। तस्यां तत्र प्रविष्टायां तद्वेषग्रहणादहम् । सेर्वं यास्यामि तद्नेहं मोहयंस्तत्परिच्छदम्॥४७९॥ मयि दूरमपक्रान्ते तामादाय त्वमन्यतः। गच्छे: स्वच्छन्दमिच्छा ते सेत्स्यत्येवमखण्डिता॥४८०॥ वचसा मुदितस्तेन वसन्तोऽप्येवमब्रवीत् । ममाऽत्र योग: क्षेमं च पश्यामि व्यसनं तु ते॥४८१।। तदा च वृद्धब्राह्मण्येष्टदेव्येव कृतं क्षुतम् । ऊचे च कामपालेन ममेह व्यसनं न हि॥४८२।। त्वत्कार्येऽस्मिन् प्रसक्तस्य प्रत्युताऽभ्युदयो मम । प्रयाति सात्त्विकानां हि दैवमप्यनुकूलताम्॥४८३।। अत्राऽन्तरे ब्राह्मणेन वृद्धेन स्वार्थसङ्गतम् । एवमेतन्न सन्देह इत्यूचे हृष्टचेतसा॥४८४॥ निबध्य शकुनग्रन्थिं प्रतिपद्य च तद्वचः। वसन्तदेव: सुहृदा सह तेनाऽविशत् पुरीम् ॥४८५॥ तत्राऽशनादि कृत्वा तौ सायं निर्गत्य वेश्मनः । स्मरदेवकुलं गत्वा तस्थतुः स्मरपृष्ठतः ॥४८६॥ पतत्र स्थिताभ्यां ताभ्यां तु मङ्गल्यस्तूर्यनि:स्वनः। आयाति केसरा नूनमिति हर्षेण शुश्रुवे॥४८७॥ साऽपि स्मरणमात्रेण साध्यं मन्त्रं मुहुर्मुहुः । प्रेय:समागमं नाम स्मरन्ती तत्र चाऽऽययौ॥४८८॥ याप्ययानात् समुत्तीर्य विमानादिव नाकिनी। प्रियङ्कराकरात् स्वर्णमयीं पूजामुपाददे॥४८९॥ एकाकिनी प्राविशत्सा स्मरदेवकुलं ततः । आचार इत्यपिधे तद्द्वारं निजपाणिना ॥४९०॥ भूतले पुष्पपत्राघु प्रक्षिप्योद्दिश्य मन्मथम्। मन्मथाक्रान्तहृदया प्राञ्जलि: सैवमब्रवीत्॥४९१॥ चित्ते भवसि सर्वेषां सदा वससि तत्र च। तेन जानासि तद्भावं भगवन्! मकरध्वज! ॥४९२॥ सर्वभावविदस्तत्किमेतद्युक्तं तव प्रभो!। अनभीष्टेन यत्पत्या नियोजयसिमां बलात्॥४९३॥ १.अन्दुकः-पादशृङ्खला॥२.मत्तो गजः ॥३. अत्यन्ताकुलैः॥४. हस्तिपकैः ।। ५. आरा शस्त्रविशेषो करे येषां तान् ॥६. विहस्तान् व्याकुलान् हस्तिपकान् अपसारणार्थे हस्तं शुण्डादण्डं ऊ/कुर्वन् ।। ७. सर्वस्योपरि-सर्वस्मादधिक: सर्वस्याऽऽत्मैव ॥ ८. हरिणानां शत्रु सिंहस्तस्मिन् आगच्छति सतीत्यर्थः ॥९. यावज्जग्राह सं.ता.पा.ला.॥१०.अर्धाम् ॥११. गजः॥१२. पुच्छाग्रभागे॥१३. सोऽवलिष्ट मु.प्रभृतिषु॥१४.०याऽन्यतो ययौ वा.१-२॥ १५. विमुक्ता मु.प्रभृतिषु ॥१६.वारितानि वामानि दूषणानि यया सा॥१७.बन्दीवाऽवर्णयच्च सं.ता.पा. ला.; खंता. पाता. वा.१-२ विना ॥१८. दैवादापतन्ननिला० दे. मु.॥१९. करिणश्चीत्कारा: 'चिंघाड' इति ॥२०. यातास्तत:मु.प्रभृतिषु ।।२१. पर्यटं मु.॥२२. तत्तुल्यदुःखमित्रं०खंता. पाता. वा.१-२ ।। २३. गुप्तं यथा तथा ।। २४.सेवयिष्यामि खंता. पाता. वा.१-२॥२५. तव मु.प्रभृतिषु ।। २६. वेश्मत: छा. ।। २७. साध्यमन्त्रं मु.प्रभृतिषु, पाता. ॥ २८. पिनद्धवती ॥२९. पुष्पपत्रार्थ मु.प्रभृतिषु ।। ३०. तत्सर्व ता.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org