________________
पञ्चम: सर्ग:)
त्रिषष्टिशलाकापुरुषचरितम् । वसन्तदेवेनाऽन्येद्यु: स्वगृहे तस्थुषा सता। मङ्गल्यतूर्यमश्रावि सदने पञ्चनन्दिनः ।।४३२॥ सुदत्तश्रेष्ठिपुत्राय कन्यकुब्जनिवासिने। प्रदत्ता वरदत्ताय केसरा पञ्चनन्दिना॥४३३॥ वर्धापनकृते तेन तूर्यमेतद्धि वाद्यते। इति प्रवृत्तिं सप्रापप्रेषितैः पुरुषैर्निजैः ।।४३४।।युग्मम्।। एवमाकर्ण्य सोऽमूर्च्छन् मुद्रेणेव ताडितः। एवमाश्वासयाञ्चक्रे द्राक् प्रियङ्करया ततः॥४३५।। त्वां केसरा संदिशति खेद: कार्यस्त्वया न हि। गुरूपक्रान्तमाकर्ण्य विवाहमिममप्रियम्॥४३६॥ गुरवो मदभिप्रायानभिज्ञा किञ्चिदीदृशम्। विधित्सन्ति विधित्सन्तु न विधास्याम्यहं त्विदम्॥४३७॥ त्वमेव भर्ता भावी मे भावि वा मरणं ध्रुवम्। बोद्धव्यं नाऽन्यथा नाथ! न हि मिथ्या कुलीनवाक्॥४३८॥ प्रीतो वसन्तोऽपीत्यूचे तादृशं स्वप्नदर्शनम् । प्रतिज्ञा च कुलीनानां न मुधा जातु जायते॥४३९॥ प्रतिज्ञाऽस्माकमप्येषा केसरामुद्वहामि वा। येन केनाऽप्युपायेन यामि वा यममन्दिरम् ॥४४०॥ एवमुक्त्वा विसृष्टा सा प्रययावुपकेसरम् । तदुक्तदयितोदन्तान् मुमुदे केसराऽप्यथ॥४४१।। तयोरन्योऽन्यसम्बन्धोपायचिन्ताजुषोर्ययौ । काल: कियानप्यसुखं रजनीवरथाङ्गयोः॥४४२।। अर्थे तयोरसम्पन्न एवोपायकृतोरपि। जन्ययात्राऽऽययौ प्रात: केसरोद्वाहहेतवे॥४४३॥ पावसन्तदेवस्तच्छ्रुत्वा निर्गत्य नगराबहिः । उद्यानमेकमगमत् त्वरमाण: समीरवत्॥४४४।। वसन्तदेवो दध्यौ च साऽन्योद्वाहेन निश्चितम्। अङ्गुलीदर्शनेनेव कूष्माण्डं हा विपत्स्यते॥४४५।। यथार्हयोगाविज्ञाभ्यां पितृभ्यां खेदिता चिरम्। मदुद्वाहनिराशा साऽनूढाऽपि हि मरिष्यति॥४४६॥ तस्याः पुरस्तात् तन्मृत्वा शान्तदुःखो भवाम्यहम्। कः श्रोष्यति प्रियामृत्युं दग्धे पिटकसन्निभम् ? ॥४४७।। वसन्तश्चिन्तयित्वैवमशोकतरुमूर्धनि। पाशग्रन्थिं गले दत्त्वोद्बबन्ध स्वं निषङ्गवत्॥४४८॥ ईषद्बद्धे च तत्पाशे निकुञ्जात् कोऽपि पूरुषः । मा मा भोः! साहसं कार्षीरिति जल्पन् समाययौ॥४४९।।
आरुह्याऽशोकवृक्षंस तत्पाशग्रन्थिमच्छिदत्। विरुद्धमाकृतेरस्या: कृतं किमिति ? चाऽब्रवीत्॥४५०॥ वसन्तोऽपि जगादैवं दैवदग्धस्य मेऽनया। किमिन्द्रवारुणस्यैवाऽऽकृत्या भ्रान्तोऽसि सुन्दर! ॥४५१॥ प्रियाविरहदुःखान्तहेतुं मृत्यु ममेप्सतः । किं त्वया विहितो विघ्न: पाशग्रन्थिं निकृन्तता? ॥४५२॥ ततश्च दयितोदन्तं वसन्तस्तस्य पृच्छतः। शशंस शस्यमानं हि दुःखं प्राय: प्रशाम्यति॥४५३॥ इस पुमानप्युवाचैवं यद्यप्येवमुपस्थितम् । तथाऽपि युज्यते नेत्थं प्राणत्यागो विवेकिनः ॥४५४॥ उपाया एव युज्यन्तेऽभीष्टार्थप्राप्तिहेतवः। उपेये त्वत्र ते सन्ति पशुवन् मा मृथास्ततः॥४५५।। यस्मिन्नुपेये नोपीयो मर्तुं तत्राऽपि नोचितम्। मृतो न तदवाप्नोति याति कर्मोचितां गतिम्॥४५६॥ उपायाभावतोऽप्राप्येऽभीष्टे वस्तुनि पर्यटन् । एष जीवामि जीवन् हि नरोभद्राणि पश्यति॥४५७॥ कृत्तिकापुरवास्तव्य: कामपालोऽस्मि नामत:। निरगां यौवनोन्मत्तो देशान्तरदिदृक्षया॥४५८॥ पर्यटश्चाऽऽसदंशङ्खपुरं नाम महापुरम् । तत्रेक्षितुंशङ्खपालयक्षोत्सवमगामहम् ॥४५९।। तत्र चूतनिकुञ्जान्त: स्मरान्त:पुरिकोपमाम्। अपश्यं कन्यकामेकामेकान्तशुभदर्शनाम्॥४६०॥ सानुराग: सानुरागं तयाऽप्यहमुदीक्षित:। तदृक्पाशैर्बद्ध इव चिरंतत्र स्थितोऽस्मि च॥४६१॥ सखीहस्तेन मेऽदत्त सा ताम्बूलमनिन्दिता। ओष्ठरागस्येव मनोरागस्याऽपि निबन्धनम्॥४६२॥ ताम्बूलमाददानस्तद्युज्यते मम किन्त्विह। कृतप्रतिकृतिचिकीरिति यावदचिन्तयम् ॥४६३॥ १. वार्ताम् ।। २.० पूरुपैर्निजैः खंता. पाता. वा.१-२ विना ।। ३. गुरुणा पित्रादिनोपक्रान्तमारब्धम् ।।४. विवाहमेवमप्रियम् ता., विवाहामि मम प्रियम् मु.॥ ५. विधातुं-कर्तुमिच्छन्ति॥६. एवमुक्ता० मु.॥७. चक्रवाकयोः॥८. अर्थस्तयोरसम्पन्न० मु.प्रभृतिषु। अर्थ-प्रयोजने॥९. लग्नयात्रा 'जान' इति भाषायाम् ।। १०. विनक्ष्यति॥११.यथायोग्यसम्बन्धकरणेऽज्ञाभ्याम् ।।१२. गुमडुं' इति भाषायाम् ॥१३. तूणीरवत्॥१४. इन्द्रधनुष इवभारया आकृत्या-कायेन ॥१५. हेतु मृत्यु मु.॥१६. विदधे ता. पा. ला.सं. ॥१७.०र्थप्राप्तिहेतवे पा. दे. ॥१८. प्राप्ये वस्तुनि॥१९. नोपाया मर्तुम् पा.छा. ता.सं. ।। २०. ताहक्पाशै० मु.॥२१. किं न्विह खंता. ॥ २२. कृतस्य प्रत्युपकर्तुमिच्छन् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org