________________
६४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(पञ्चमं पर्व वसन्तदेवो 'नाम्नाऽऽद्य: कामपालोऽपरः पुनः। विपेदातेधनपति: कालात् स चधनेश्वरः ॥४००॥ मदिरा-केसरानाम्न्यौ वणिक्पुत्र्यौ बभूवतुः । एका शङ्खपुरेऽन्या तुजयन्त्यां तावुभावपि॥४०१॥[त्रिभिर्विशेषकम्] क्रमेण वर्धमानास्ते समतिक्रम्य शैशवम् । नव्यमासादयामासुश्चत्वारोऽपि हि यौवनम्॥४०२।।
वसन्तदेव: काम्पील्या व्यवहारेण सोऽन्यदा। जयन्त्यां प्रययौ पुर्यांमर्थं च समुपार्जयत् ।।४०३॥ अन्यदा सोऽष्टमीचन्द्रोत्सवेऽगच्छद् यदृच्छया। रतिनन्दनमुद्यानं तत्राऽद्राक्षीच्च केसराम्॥४०४।। तया वसन्तदेवोऽपि ददृशे स्निग्धया दृशा। तयोः प्राग्जन्मभू: स्नेहः प्रादुरासीत् परस्परम् ॥४०५।। जयन्तीवासिनं तत्र वणिक्पुत्रं प्रियङ्करम् । वसन्तदेव: पप्रच्छ केयं ? कस्य सुताऽपि वा ?॥४०६।। सोऽप्याख्यदेषा दहिता श्रेष्ठिन: पञ्चनन्दिनः। स्वसाजयन्तिदेवस्य केसरा नाम कन्यका॥४०७।। वसन्तदेवो जयन्तिदेवेनसह सौहृदम् । समारेभे मिथो वेश्मगतागतनिबन्धनम्॥४०८॥ वसन्तदेवो जयन्तिदेवेन स्वगृहेऽन्यदा। न्यमन्त्र्यत प्रकारो हि मैत्र्यद्रोरेष दोहदः ॥४०९।। अर्चन्तीं केसरांतत्र कुसुमैः कुसुमायुधम्। वसन्तदेव: प्रैक्षिष्ट नेत्रकैरवकौमुदीम्॥४१०॥ जयन्तिदेवहस्ताब्जात् प्रतीच्छन् कुसुमस्रजम्। तया वसन्तदेवोऽपि ददृशे सानुरागया॥४११॥ अदोऽनुकूलं शकुनमिति हर्षोऽत्यभूत् तयोः । अन्योऽन्यशुभचेष्टा हि शुभोदर्का द्वयोरपि॥४१२॥ द्वयोश्चाऽलक्षयद्भावंधात्रीपुत्री प्रियङ्करा। सुलक्षं हि परस्वान्तमिङ्गिताकारवेदिभिः॥४१३॥ वसन्त इव वसन्तसखस्य सुहृदोऽकरोत् । पूजांवसन्तदेवस्य केसरासोदरोऽथ सः॥४१४॥ ऊचे प्रियङ्करा तां चकेसरे! तव सोदरः। करोत्यर्चामसावस्य त्वमप्युचितकृद्भव॥४१५॥ केसरा युगपदपि व्रीडा-भी-हर्षधारिणी। ऊचे त्वमेव जानासि कुरुष्वाऽस्य यथोचितम्॥४१६॥ प्रियङ्कराऽप्यङ्गणस्थप्रियङ्गुतरुमञ्जरीम् । कक्कोलादीनि चाऽऽदाय वसन्तमिदमब्रवीत्॥४१७।। स्वामिनी मे स्वहस्ताग्रोच्चितान्येतानि सुन्दर! । इष्टदेयानि ते दत्ते पुष्पाणि च फलानि च॥४१८॥ अभीष्टोऽस्म्यहमेतस्या इति हृष्टः स्वपाणिना। वसन्तदेवो जग्राह पुष्पाणि च फलानि च॥४१९॥ नाममुद्रांस दत्त्वोचे त्वयेदं शोभनं कृतम्। वर्तितव्यं सदाऽपीष्टानुरूपमिति तां वदेः॥४२०॥ गत्वा च तद्वचोऽशंसत् केसरायै प्रियङ्करा । दृढानुरागकन्दस्योद्भेदने वारिसेकवत्॥४२१॥ पापश्चिमे यामिनीयामे सुप्ता स्वप्नेऽथ केसरा। वसन्तदेवेनीऽऽत्मानं व्युह्यमानमुदैक्षत॥४२२॥ तदा वसन्तदेवोऽपिस्वप्ने परिणिनाय ताम्। स्वप्नदर्शनमप्यासीद् विवाहादधिकं तयोः॥४२३॥ प्रियङ्करायैतं स्वप्नं कथयामास केसरा। सद्यो रोमाञ्चितवपु: पैतीयन्ती तमेव हि॥४२४॥ भविष्यत्येवमेवेदमिति स्वार्थप्रसाधकम्। पुरोधसा निजगदे तदाऽनतिदैवीयसा॥४२५॥ वसन्तदेवस्तेभर्ता स्वप्नेन शकुनेन च। बध्यतां शकुनग्रन्थिरित्यूचे तां प्रियङ्करा ॥४२६॥ गत्वा वसन्तदेवस्याऽप्याख्यत् स्वप्नं प्रियङ्करा । सोऽपि स्वस्वप्नसंवादात् सिद्धमर्थममन्यत॥४२७।। प्रियङ्करोचेस्वामिन्या तुभ्यमात्मा प्रकल्पितः । कल्प्यतां निर्विकल्पं तत्सर्वं वैवाहिकं त्वया ॥४२८।। वसन्तदेवोऽप्यवदद् व्यधायि विधिनैव तत्। प्रायो मनुष्यघटितं कार्यं विघटते क्वचित्॥४२९॥ एवं वसन्तदेवस्तां नियंतिं रूपिणीमिव । आलप्य च सत्कृत्य चव्यसृजत् कृत्यकोविदः ॥४३०।। इत्थं प्रत्यहमन्योऽन्योदन्तपीयूषपायिनः। कियानप्यगमत कालस्तयो: वर्षशतोपमः॥४३१॥ १. नामाद्य: मु.॥२. न्यमन्त्रि तत्प्रकारो० मु.प्रभृतिषु ॥३. कामदेवम् ॥४. गृह्णन् ॥५. अहोऽनुकूलम् पा.॥६. शुभपरिणामा॥७. सुलक्ष्यम् दे. मु.; सुज्ञेयम् ।। ८. कामदेवस्य॥९.०दत्त्वोच्चस्त्वयेदं० मु. खंता. पाता. वा.१-२॥१०.०ददे मु.॥११. वारिदोदकम् छा. दे. ॥१२.०नात्मानमुह्यमानमु० दे.मु. ॥१३. प्रतीयन्ती मु.प्रभृतिषु । तं पतित्वेनेच्छन्ती ।।१४. समीपस्थेनेत्यर्थः॥१५. परं दैवघटितं कार्य कदापि न विघटत इति तात्पर्यम् ॥१६. साक्षात् भवितव्यताम्॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org