________________
पञ्चमः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । तत्रिपद्यनुसारात् ते द्वादशाङ्गीमसूत्रयन् । 'अनुयोग-गणानुज्ञे स्वामी तेषामदत्त च॥३६८॥ नरा नार्यश्च भूयांस: स्वाम्यन्ते प्राव्रजस्तदा। जगृहुः श्रावकत्वं च सम्यक् सम्यक्त्वपूर्वकम्॥३६९।। पूर्णायामादिपौरुष्यामुत्थाय परमेश्वरः । देवच्छन्दे विशश्राम मध्यप्राकारमण्डने॥३७०॥ स्वाम्यंहिपीठाध्यासीन: स तत्रैव तस्थुषि। विदधे देशनां चक्रायुधो गणधराग्रणीः॥३७१॥ पूर्णद्वितीयपौरुष्यां व्यसृजत् सोऽपि देशनाम्। नत्वाऽथ स्वामिनं जग्मुः स्वं स्वं स्थानं सुरादयः॥३७२।। पातत्तीर्थजन्मागरुडयक्षो गजरथोऽसित: । क्रोडास्यो बीजपूराब्जभृद्दक्षिणकरद्वयः॥३७३॥ वामौ दधानो नकुलाक्षसूत्रसहितो करौ। श्रीशान्तिस्वामिपादानां जज्ञे शासनदेवता॥३७४॥ तत्तीर्थजन्मा निर्वाणी गौरागी कमलासना। पुस्तकोत्पलसंयुक्तौ बिभ्रती दक्षिणी भुजौ॥३७५।। सकमण्डलु-कमलौ वामौ च दधती करौ। अजायत जगद्भस्तिथा शासनदेवता॥३७६॥ अमक्तसन्निधिस्ताभ्यां भगवानन्यतस्ततः। बोधाय भव्यभविनां विजहार वसुन्धराम्॥३७७॥ गाविहरन्नन्यदा तत्र नगरे हस्तिनापुरे। उपेत्य समवासार्षी भगवान् करुणानिधिः ॥३७८॥ पौरजानपदोपेत: स्वामिनं तत्पुरेश्वरः। उपतस्थे कुरुचन्द्रश्चन्द्रोऽर्कमिव पर्वणि॥३७९॥ यथास्थानमथाऽऽसीने श्रीमत्स चतुर्विधे। संसारवैराग्यकरी विदधे देशनां विभुः॥३८०॥ देशनान्ते प्रभुंनत्वा कुरुचन्द्रोऽब्रवीदिदम्। प्राग्जन्मकर्मणा केन स्वामिन्! राज्यमिहाऽऽसदम् ? ॥३८१॥ ढौकने मम ढौक(क्य?)न्तेऽद्भुतानि प्रतिवासरम्। पञ्चवस्तु-फलादीनि केन प्राग्जन्मकर्मणा?॥३८२॥ इष्टेभ्यस्तानि दास्यामीत्युपभुञ्जेन हि स्वयम्। न चाऽन्यस्मै प्रयच्छामि भगवन्! केन कर्मणा ? ॥३८३॥ पाप्रभुरप्याख्यदेतद्धि साधवेदानतस्तव। राज्यश्रीरन्वहं चेदं ढौकनं पञ्चवस्तुनः।।३८४॥ अंदानाभोग्यते चैषां पुण्यसाधारणत्वत: । वस्त्वधीनं बहूनां हि न खल्वेकेन भुज्यते॥३८५॥ अभीष्टेभ्य: प्रदास्येऽहमिति चिन्ताऽपि ते ततः। पूर्वकर्मानुसारेण जायते जन्मिनां हि धीः ॥३८६॥
अस्यैव जम्बूद्वीपस्य क्षेत्रे चाऽत्रैवभारते। कोसलाख्ये जनपदे नगरे श्रीपुरेऽभवत् ।।३८७।। सुधनो धनपतिश्च धनदश्च धनेश्वरः । वणिक्पुत्राः सवयसश्चत्वार: सोदरा इव॥३८८।। अन्यदाऽर्थोपार्जनार्थं ते चत्वारोऽपि संहिताः । रत्नद्वीपं प्रत्यचलन् द्रोणकोदूढशम्बला:॥३८९॥ महाटवीं प्राविशंस्ते तीर्णप्राया कृता च सा। क्षीणप्रायं च पाथेयं तेषामजनि बह्वपि॥३९०॥ तदा चैकं ददृशुस्ते मुनिं प्रतिमया स्थितम्। अस्मै किञ्चित् प्रयच्छाम इति चाऽचिन्तयन् क्षणम् ॥३९१।। तंच द्रोणकनामानमूचुः शम्बलवाहिनम्। भो! भद्र! किञ्चिदप्यस्मै द्रोण! देहि महर्षये॥३९२।। तेभ्योऽधिकश्रद्धया स तं मुनिं प्रत्यलाभयत्। महाभोगफलं कर्म तेन निर्वर्तितं तदा॥३९३॥ रत्नद्वीपं च तेऽपीयुर्व्यवहारं च चक्रिरे। उपाया॑ऽर्थं समाजग्मुर्भूयोऽपि नगरं निजम् ॥३९४।। तेनैव पुण्यबीजेन ननन्दुः सर्वदाऽपि ते। जीवन्त्यप्येकदाऽऽप्तेन धान्यानि स्वातिवारिणा॥३९५॥ धनेश्वर-धनपती किन्तु मायापरौ मनाक् । अधिकं शुद्धवृत्तिस्तु तेषु च द्रोणकोऽभवत्॥३९६॥ आयु:क्षये च प्रथमं विपद्य द्रोणक: सतु।दानप्रभावात् पुत्रोऽभूस्त्वं हास्तिनपुरेशितुः॥३९७।। जनन्या च मुंखविशच्चन्द्रस्वप्नावलोकनात्। पितृभ्यां नामधेयं ते कुरुचन्द्र इतीरितम्॥३९८॥
सुधनो धनदश्चोभौ मृत्वाऽभूतां वणिक्सुतौ। काम्पील्यनगरे पूर्वो द्वितीय: कृत्तिकापुरे ॥३९९॥ १. अनुयोगानुज्ञां गणानुज्ञा च ।। २. केचित् सम्यक्त्व० मु.प्रभृतिषु ।। ३. कृष्णवर्णः ।।४. वराहमुख: ।। ५. करौ दे. मु.॥ ६. ०नन्यतत्पर: दे. मु. ॥७. अमावास्यायाम् ॥८. यथास्थानं स्थिते चाऽथ मु.॥९.प्रभुः मु.॥१०. विभुम् मु.॥११. उपहारे॥१२. पञ्चवस्त्र-फलादीनि ता. ला. छा. सं. खंता. पाता. वा.१-२॥१३. अदानत्वमभोग्यतां च ॥१४. पूर्वकामानुसारेण ता. ॥१५. संहता: मु.॥१६. द्रोणकनामकेन पुरुषेण उदूढं पाथेयं येषां ते ।। १७. तीर्णप्रायीकृता सं. ता. पा. छा. ॥१८. अर्जितम् ॥ १९. हस्तिनापुरेशितुः पाता. वा.१-२॥२०. जनन्या च मुखे विश० मु.प्रभृतिषु ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org