________________
६२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(पञ्चमं पर्व पाणि-पादेन्द्रियच्छेद-मरणानि शरीरिभिः । प्राप्यन्ते यद्वशात् तेषां करणानां किमुच्यते? ॥३३६॥ विनयं ग्राहयन्त्यन्यैर्ये स्वयं करणैर्जिताः। पिधाय पाणिना वक्त्रंतान हसन्ति विवेकिनः॥३३७।। आ देवेन्द्रादा च कीटाद्ये केचिदिह जन्तवः। विमुच्यैकं वीतरागं ते सर्वेऽपीन्द्रियैर्जिताः ॥३३८॥ वशास्पर्शसुखास्वादप्रसारितकर: करी।आलानबन्धनक्लेशमासादयति तत्क्षणम्॥३३९॥ पयस्यगाधे विचरन गिलन गलगतामिषम। मैनिकस्य करे दीनोमीन: पतति निश्चितम॥३४०॥ निपतन्मत्तमातङ्गकपोले गन्धलोलुपः । कर्णतालतलाघातान्मृत्युमाप्नोतिषट्पदः॥३४१॥ कनकच्छेदसङ्काशशिखालोकविमोहितः। रभसेन पतन् दीपेशलभोलभते मृतिम्॥३४२॥ हरिणो हारिणीं गीतिमाकर्णयितुमुद्धरः। आकर्णाकृष्टचापस्य याति व्याधस्य वेध्यताम्॥३४३॥ एवं विषय एकैकः पञ्चत्वाय निषेवितः । कथं हि युगपत् पञ्च पञ्चत्वाय भवन्ति न ? ॥३४४॥ तदिन्द्रियजयं कुर्यान् मन:शुद्ध्या महामतिः। यां विना यम-नियमै: कायक्लेशो वृथा नृणाम् ॥३४५॥ अनिर्जितेन्द्रियग्रामो यतो दुःखैः प्रबाध्यते। तस्माज्जयेदिन्द्रियाणि सर्वदुःखविमुक्तये॥३४६।। नचेन्द्रियाणां विजय: सर्वथैवाऽप्रवर्तनम् । राग-द्वेषविमुक्तानांप्रवृत्तिरपि तज्जयः॥३४७।। अशक्यो विषयोऽस्पष्टुमिन्द्रियैः स्वसमीपगः । राग-द्वेषौ पुनस्तत्र मतिमान् परिवर्जयेत्॥३४८॥ हताहतानीन्द्रियाणि सदासंयमयोगिनाम्।अहतानि हितार्थेषु हतान्यहितवस्तुषु॥३४९॥ जितान्यक्षाणि मोक्षाय संसारायाऽजितानि तु। तदेतदन्तरं ज्ञात्वा यद्युक्तं तत् समाचरेत् ॥३५०॥ स्पर्शे मृदौ च तूंल्यादेरुपलादेश्च कर्कशे। भवेद्रत्यरती हित्वा जेता स्पर्शनमिन्द्रियम्॥३५१॥ रसे स्वादौ च भक्ष्यादेरितरस्मिन्नथाऽपि वा। प्रीत्यप्रीती विमुच्योच्चैर्जिह्वेन्द्रियजयी भवेत्॥३५२।। घ्राणदेशमनुप्राप्ते शुभे गन्धे पैरत्र वा। ज्ञात्वा वस्तुपरीणामं जेतव्यं घ्राणमिन्द्रियम्॥३५३॥ मनोज्ञं रूंपमालोक्य यदि वा तद्विलक्षणम्। त्यजन् हर्षं जुगुप्सां च निर्जयेच्चक्षुरिन्द्रियम्॥३५४।। स्वरे श्रव्ये च वीणादेः खरोष्ट्रादेश्च दुःश्रवे। रतिं जुगुप्सां च जयन् श्रोत्रेन्द्रियजयी भवेत्॥३५५॥ कोऽपि नास्तीह विषयो मनोज्ञ इतरोऽपि वा। य इन्द्रियैर्नोपभुक्तस्तत् स्वास्थ्यं किं न सेव्यते ? ॥३५६॥ शुभा अप्यशुभायन्ते शुभायन्तेऽशुभा अपि। विषयास्तत् क्व रज्येत विरज्येत क्वचेन्द्रियैः ।।३५७॥ स एव रुच्यो द्वेष्यो वा विषयो यदि हेतुतः । शुभाशुभत्वंभावानां तन्न तत्त्वेन जातुचित्॥३५८॥ जितेन्द्रियो मन:शुद्ध्या तत: क्षीणकषायकः । अचिरान्मोक्षमाप्नोति जन्तुरक्षीणशर्मकम्"||३५९|| आकर्ण्य कर्णपीयूषवृष्टिमेवं च देशनाम् । चक्रायुधः संसंवेगो भगवन्तं व्यजिज्ञपत् ॥३६०॥ पास्वामिन्! भीतोऽस्मि संसारादस्मात् क्लेशैकवेश्मनः । न पौरुषाभिमानोऽत्र दोष्मतोऽपि विवेकिनः ॥३६१।। दीप्यमाने यथा गेहे पोते स्फुटति वा यथा। तन्नेता किञ्चिदादाय सारवस्त्वन्यतो व्रजेत् ॥३६२॥ तथा भवे जन्म-जरा-मरणादिकरालिते। एकमात्मानमादाय त्वां शरण्याऽऽश्रितोऽस्म्यहम्॥३६३॥ स्वामिन्! मा मामुपेक्षस्व निपतन्तं भवार्णवे। तस्योत्तरणनावं मे दीक्षामद्यैव देहि तत्॥३६४॥ युक्तं विवेकिनस्तेऽद इत्युक्त: स्वामिना ततः। तनये कवचहरे राज्यं चक्रायुधो न्यधात्॥३६५॥ सहितोराजभिः पञ्चत्रिंशता स्वामिनोऽन्तिके।स्वामिसूनुरुपादत्त प्रव्रज्यां सङ्घसाक्षिकम्॥३६६॥ चक्रायुधादिगणभृत्षट्त्रिंशत उपादिशत्। उत्पाद-विगम-ध्रौव्यलक्षणां त्रिपदी प्रभुः॥३६७॥ १. करिणी॥२.धीवरस्य॥३. कर्णतालतलापातान् ला.॥४. मनोहराम् ॥५. मृत्यवे।।६. मनःशुद्धिम् ।। ७.०योऽस्पष्टुमि० सं. ता. ला. पा.॥८. सदा संयमधारिणां योगिनाम् ॥९.इन्द्रियाणि ॥१०. तूलादे० मु.॥११. स्वादे मु.॥१२. अशुभगन्धे॥१३. रूप-लावण्यमालोक्य पा. ॥१४. अमनोज्ञः॥१५. वैराग्यसहितः ।।१६. नावि त्रुटन्त्यां सति ॥१७. ०शरण्यं श्रितो० मु.प्रभृतिषु ।।
८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org