________________
पञ्चमः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
1
पूर्वसिंहासने तत्र प्राङ्मुखो न्यषदत् प्रभुः । दिक्ष्वन्यासु विचक्रुश्च तद्रूपत्रितयं सुराः ॥ ३०३ ॥ यथाद्वारं प्रविश्याऽथ श्रीमान् सङ्घश्चतुर्विधः । अवतस्थे यथास्थानं स्वाम्यास्यमवलोकयन् ॥ ३०४॥ विरोधिनोऽपि तिर्यञ्चो मध्यवप्रेऽवतस्थिरे । प्राकारेऽधस्तने त्वंस्थुर्वाहनान्यखिलान्यपि॥३०५॥ तदा चक्रायुधनृपं हर्षोत्फुल्लविलोचनाः । सहस्राम्रवणोद्यानपाला एत्य व्यजिज्ञपत् ॥ ३०६ ॥ दिष्ट्याऽद्य वर्धसे देव! यच्छान्तिस्वामिनोऽधुना । उत्पेदे केवलज्ञानं सहस्राम्रवणस्थितेः ॥३०७॥ इत्याकर्ण्य गिरं हृष्टः सद्यश्चक्रायुधो नृपः । पारितोषिकमेतेभ्यो दत्त्वा स्वामिनमाययौ ॥ ३०८ ॥ तत्र प्रदक्षिणीकृत्य शान्तिनाथं प्रणम्य च । विनयी निषसादाऽनुशक्रं चक्रायुधो नृपः ॥ ३०९ ॥ भूयश्च स्वामिनं नत्वा शक्रश्चक्रायुधोऽपि च । प्रचक्रमे स्तोतुमेवं हर्षगद्गदया गिरा ॥ ३१० ॥ “श्रेयोदशाप्रवेशोऽद्य जगतोऽपि जगत्पते! । ज्ञानादित्येन भवता सुदिनोत्सवकारिणा ॥ ३११॥ पुण्यैरस्मादृशामेते तव कल्याणकोत्सवाः । कल्याणचिन्तामणयः प्रभवन्ति जगद्गुरो ! ॥ ३१२ || कषायादिमलालीढं मनः सर्वशरीरिणाम् । क्षालयन्ति जगन्नाथ! त्वद्दर्शनजलोर्मयः ॥ ३१३ ॥ कर्मच्छिदे बद्धयत्नस्तीर्थकृत्कर्म यत् पुरा । आर्जयस्तत् तव स्वार्थानपेक्षान्योपकारिता ॥ ३१४ ॥ घोरसंसारभीतानां महादुर्गमिव प्रभो! । जगत्यदस्ते समवसरणं शरणं नृणाम् ।।३१५।। जानासि सर्वं सर्वेषां भावं सर्वहितोऽसि च । प्रार्थनीयं न तत् किञ्चित् तथाऽपि प्रार्थ्यसे मया ॥ ३१६ ॥ यथा हि विहरन् ग्रामाकर- पुरादिकम् । क्षणे क्षणे त्वं त्यजसि मा त्याक्षीर्मन्मनस्तथा ॥ ३१७|| त्वत्पादपङ्कजध्यानषट्पदीभूतचेतसः । व्यतिक्रामतु मे कालो भगवंस्त्वत्प्रसादतः "॥३१८॥ स्तुत्वेति सति तूष्णीके शक्रे चक्रायुधेऽपि च । श्रीशान्तिनाथो भगवानारेभे देशनामिति ॥३१९॥ "अनेकदुःखसन्ताननिदानं दववह्निवत्। अहो! खल्वेष संसारश्चतुर्गत्यात्मकः सदा ॥ ३२० ॥ क्रोध-मान-माया-लोभाः कषायास्तस्य चोच्चकैः । आधारभूताश्चत्वारः स्तम्भा इव महौकसः ॥३२१॥ तत्क्षीणेषु कषायेषु संसारः क्षीयते स्वयम् । मूलेषु हि विशुष्केषु शुष्क एव महीरुहः ॥ ३२२॥ विनेन्द्रियजयं नैव कषायान् जेतुमीश्वरः । हन्यते हैमनं जाड्यं न विना ज्वलितानलम् ॥ ३२३॥ अदान्तैरिन्द्रियहयैश्चलैरपथगामिभिः । आकृष्य नरकारण्ये जन्तुः सपदि नीयते ॥ ३२४ ॥ इन्द्रियैर्विजितो जन्तुः कषायैरभिभूयते । वीरैः कृष्टेष्टकः पूर्वं वप्रः कै: कैर्न खण्ड्यते ? ॥ ३२५ ॥ कुलघाताय पाताय बन्धाय च वधाय च । अनिर्जितानि जायन्ते करणानि शरीरिणाम् ॥ ३२६॥ इन्द्रियैः स्वार्थविवशैः कस्को नैव विडम्ब्यते ? । अपि विज्ञातशास्त्रार्थाश्चेष्टन्ते बालका इव ॥३२७॥ किमतोऽपि र्घृणास्थानमिन्द्रियाणां प्रकाश्यते ? । यद् बन्धौ बाहुबलिनि भरतोऽप्यस्त्रमक्षिपत्॥३२८॥ जयो यद्बाहुबलिनि भरते च पराजयः । जिताजितानां तत्सर्वमिन्द्रियाणां विजृम्भितम् ॥३२९॥ यच्छस्त्राशस्त्रि युध्यन्ते चरमेऽपि भवे स्थिताः । दुरन्तानामिन्द्रियाणां मैहिमाऽनेन लक्ष्यते॥३३०॥ दण्ड्यन्तां चण्डचरितैरिन्द्रियैः पशवो जनाः । शान्तमोहाः पूर्वविदो दण्ड्यन्ते यत् तदद्भुतम् ॥ ३३१ ॥ जिता हैषीकैरत्यन्तं देव-दानव-मानवाः । जुगुप्सितानि कर्माणि "ही तन्वन्ति तपस्विनः ॥३३२॥ अखाद्यमपि खादन्ति चाऽप्यपेयं पिबन्ति च । अगम्यं चाऽपि गच्छन्ति हृषीकवशगा नराः ॥३३३॥ वेश्यानां नीचकर्माणि दास्यान्यपि च कुर्वते । कुल-शीलोज्झितास्त्यक्तकरुणैः करणैर्हताः ॥ ३३४॥ परद्रव्ये परस्त्रीषु मोहान्धमनसां नृणाम् । या प्रवृत्तिः सेन्द्रियाणामर्तेन्द्राणां विजृम्भितम् ॥ ३३५॥
१. सुरासुर-नृणां गणः छा. दे. मु. ॥ २ तस्थुः ला ॥। ३. कल्याणदशायां प्रवेशः ॥ ४. जयत्यदस्ते ला. पा. ता. सं. ॥ ५. यथा क्षणे० पाता. ॥ ६. सुवर्णसम्बन्धि जाड्यं मलम् ।। ७. अदमितैः ॥ ८. धीरैः ता. ॥ ९. कृष्टा इष्टका यस्य वप्रस्य ।। १०. इन्द्रियाणि ॥ ११. लज्जास्थानम् ।। १२. विलासः ।। १३. महिमाऽनेन लभ्यते मु.; महिम्नाऽनेन लभ्यते ला. प्रभृतिषु ॥ १४. उपशान्तमोहनाम्नि गुणस्थाने वर्तमानाः । १५. इन्द्रियैः ।। १६. ही इति खेदे ॥ १७. इन्द्रियवशगाः ॥ १८. कुलाचारबाह्याः ॥ १९. जागरूकाणाम् ॥
Jain Education International
६१
For Private Personal Use Only
www.jainelibrary.org