________________
(पञ्चमं पर्व
६८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं पूर्वस्नेहेन ते नित्यं ढौकनं पञ्चवस्तुकम् । अद्भुतं विदधाते तौ राजन्! जानीहि ते त्वमी॥५२८।। अमीभिः सह तद्भोक्तुं त्वमिष्टैरीशिषे नृप! । नेयत्कालमभुक्यास्त्वमभीष्टानविदन्नमून् ॥५२९॥ श्रुते प्रभोर्वचस्येवं राज्ञस्तेषां च तत्क्षणम्। जातिस्मरणमुत्पेदे प्राक्स्नेहोद्योतदीपकः॥५३०॥ भगवन्तं ततो नत्वा कुरुचन्द्रमहीपतिः । तान् सोदर्यानिव स्नेहादनैषीन्निजवेश्मनि ॥५३१॥
देवा अपि प्रभुं नत्वा स्थानं निजनिजं ययुः । भगवानप्यन्यतोऽगादनुगृह्णन् महीतलम् ॥५३२॥ श्रमणानां सहस्राणि द्वाषष्टिनैष्ठिकात्मनाम्। साध्वीनामेकषष्टिस्तु सहस्रा: षट् शतानि च॥५३३॥ चतुर्दशपूर्वभृतांशतान्यष्टौ महात्मनाम् । तथा सहस्रत्रितयमवधिज्ञानधारिणाम्॥५३४।। चत्वारि च सहस्राणि मन:पर्ययशालिनाम् । केवलज्ञानभाजां त्रिचत्वारिंशच्छतानि तु॥५३५।। जातवैक्रियलब्धीनां सहस्राणि षडेव हि। वादलब्धिमतां द्वे तु सहस्रे सचतुःशते॥५३६॥ श्रीवकाणामुभे लक्षेसहस्रा नवतिस्तथा। सहस्रत्रिनवत्यग्रा श्राविकाणां त्रिलक्ष्यपि॥५३७॥ आरभ्य केवलाद्वर्षसहस्रान् पञ्चविंशतिम् । एकाब्दोनां विहरत: परिवारोऽभवत् प्रभोः ॥५३८।। निर्वाणकालं ज्ञात्वाचसम्मेतादिप्रभुर्ययौ। प्रपेदेऽनशनं सार्धं मुनीनां नवभि: शतैः॥५३९।। मासान्ते च ज्येष्ठकृष्णत्रयोदश्यां निशाकरे। भरणीस्थे ययौ स्वामी मोक्षं तैर्मुनिभिः सह ॥५४०॥ कौमारे मण्डलीकत्वे चक्रभृत्त्वे व्रतेऽपि च। प्रत्येकं लक्षतुर्यांशोऽब्दलक्षायुरिति प्रभुः ॥५४१॥ श्रीधर्मनाथनिर्वाणाच्छ्रीशान्तिस्वामिनिर्वृति: । पादोनपल्यन्यूनेषु सागरेष्वभवत्रिषु।।५४२।।
चक्रे शान्तिजिनस्य मोक्षमहिमा तत्रेन्द्रमुख्यैः सुरैः कालेनाऽर्जितकेवलो गणधरश्चक्रायुधः सोऽपि च। भव्योद्बोधकृते विहत्य सुचिरं संन्यस्य चाऽऽयु:क्षये तीर्थे कोटिशिलाभिधे शिवमगात् प्राज्यैः समं साधुभिः॥५४३॥ षट्खण्डोर्वीतलजयविधावप्यनायासभाजस्त्यक्त्वा लक्ष्मी तृणमिव चतामप्युपात्तव्रतस्य। चक्रित्वेन प्रथितयशसस्तीर्थकृत्वेन चोच्चै(रोदात्तं जयति चरितं धीरशान्तंचशान्तेः॥५४४।।
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये पञ्चमे पर्वणि श्रीशान्तिनाथचरम
भववर्णनो नाम पञ्चम: सर्गः॥
॥ इति श्रीशान्तिनाथचरितप्रतिबद्धं पञ्चमं पर्व समाप्तम॥
१. श्रुत्वा प्रभोर्वचांस्येवं मु. ।। २. ०नप्यतोऽथागादनु० मु. ।। ३. श्रमणानां सङ्ख्या ६२सहस्रमिता ।। ४. व्रतनिष्ठात्मनाम् ।। ५. साध्वीनां सङ्ख्या ६१६००मिता॥६. चतुर्दशपूर्विणां सङ्ख्या ८००मिता॥७. अवधिज्ञानधारिणां सङ्ख्या ३सहस्रमिता॥८. मन:पर्ययज्ञानिनां सङ्ख्या ४सहस्रमिता। मन:पर्याय वा.१-२,मनःपर्यव० मु.॥९. केवलज्ञानिनां सङ्ख्या ४३००मिता ॥१०. च मु.॥११. वैक्रियलब्धीनां सङ्ख्या ६सहस्रमिता ।। १२. वादलब्धीनां सङ्ख्या २४००मिता॥१३. श्रावकाणां सङ्ख्या २लक्ष-९०सहस्रमिता॥१४. श्राविकाणां सङ्ख्या ३लक्ष-९३सहस्रमिता॥१५. कौमारे वर्षसङ्ख्या २५सहसमिता। १६. मण्डलीकत्वे वर्षसङ्ख्या २५सहस्रमिता ॥ १७. चक्रित्वे वर्षसङ्ख्या २५सहस्रमिता ॥ १८. दीक्षायां वर्षसङ्ख्या २५ सहस्रमिता ।। १९. आयुर्वर्ष
१लक्षमितमासीत् ।। २०. दीक्षां पालयित्वा ।। २१. सर्गः समाप्त: वा.१-२॥ Jain Education International For Private & Personal Use Only
www.jainelibrary.org