________________
पञ्चम: सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । निजघ्नुः परिघै: केऽपि वल्मीकानिव कुञ्जरान्। गदाभि: 'स्यन्दनानेकेऽपिषन् घटकपालवत्॥१८१।। शर-शूलै: केऽपि विद्ध्वाऽश्वान् श्वाविध इव व्यधुः । शल्यैरकीलयन् पत्तीन् केऽपि मन्त्रैः परेतवत्॥१८२।। इत्थं विचित्रं निघ्नन्तस्तन्वन्तस्तुमुलं महत्। वारंवारं करास्फोटं कुर्वाणा: सिंहनादिनः॥१८३॥ उल्ललन्तो दुर्ललिता किराता: प्लवगा इव। अग्रसैन्यं वनमिवाऽभामुस्ते चक्रवर्तिनः॥१८४॥ सैन्यानां जातभङ्गेन श्रीशान्तेः पृतनापतिः। हताशन इवाऽऽहत्या दीप्यमानोऽतिभीषणः॥१८५।। कृतान्त इव सन्नद्धःखड्गरत्नं करेऽदधत्।अश्वरत्नं समारुह्य किरातान् प्रत्यधावत॥१८६||युग्मम्।। सेनानी-वाजि-निस्त्रिंशास्त्रीणि रत्नानि तानितु। संयुक्तासेमलक्ष्यन्त त्रयोऽग्नय इवैकतः॥१८७।। गरुड: पादचारीव पाटयन्निव भूतलम् । सेनान्यो मनसा तुल्यं प्रससार सवाजिराट् ॥१८८॥ सादिनः पत्तयो वाऽपि किराता: स्थातुमग्रतः। न ह्यलम्भूष्णवोऽभूवन्नद्योघस्येवशाखिनः॥१८९।। रन्ध्रेषु केऽप्यदुर्झम्पां केऽपि कुञ्जेषु लिल्यिरे। गिरिषु प्राविशन् केऽपि बुब्रुडु: केऽपिवारिषु॥१९०॥ तत्यजुः केचिदत्राणि स्ववस्त्राण्यपरे जहुः । मृतीभूयेव केऽप्यस्थुर्निश्चेष्टं लुठिता भुवि॥१९१॥ केषाञ्चिद् बाहव: पेतुः शाखा इव महीरुहाम्। शिरांसि च फलानीव दलानीव करा अपि॥१९२।। दन्ता निपेतुः केषाञ्चित् केषाञ्चिच्चरणा पुनः । केषाञ्चित् पुस्फुटुंस्तुम्बपात्रवच्च करोटयः॥१९३॥ सेनान्यामश्वरत्नेन गाहमाने रणार्णवम्। किं किं विपत्तये नाऽऽसीद् विद्विषां यादसामिव ?॥१९४।। एवमालोडितास्तेन ते किराता: क्षणादपि। जग्मुर्दिशो दिशं सर्वे पवनोद्भूततूलवत्॥१९५॥ ते योजनानि भूयांसि गत्वैकत्राऽमिलन्नथ। मन्त्रयाञ्चक्रिरे चैवममर्ष-व्रीडपीडिताः॥१९६॥ अहो! किमिदमस्माकमाकस्मिकमुपस्थितम् ?। यत् कश्चिदेष वैताढ्यं लङ्घित्वेह समाययौ॥१९७।। तत्राऽपि चाऽतिमात्रेण सैन्येनाऽनन्यसन्निभः। छादयामास न: पृथ्वीमुद्वेल इव वारिधिः ॥१९८॥ पदातिमात्रं तस्याऽपि कोऽप्येकाङ्गोऽयमुद्भटः । भटोऽस्मान् कुट्टयामास चिरं सुभटमानिनः॥१९९।। अन्योऽन्यस्याऽपि जिहीम: प्राक्शौर्योच्छूनबाहवः । अत: परं मुखमपि न स्वं दर्शयितुं क्षमाः॥२००॥ अधुना प्रविशाम: किं दीप्यमानं हुताशनम् ? । झम्पादयोऽथवा मर्तुं गिरिशृङ्गाद् गरीयसः ? ॥२०१॥ स्वयं कैवलयाम: किं कालकूटं समुत्कटम् ?। दोलावल्लम्बयाम: किं बद्ध्वा स्वंशाखिमूर्धसु?॥२०२॥ स्वोदरं दारयाम: किं शस्त्रीभिर्जीर्णचीरवत् ? । दशनैः खण्डयाम: किं जिह्वामारुखण्डवत् ? ॥२०३॥ येन तेन प्रकारेण मरणं शरणं हि नः । एवं पराभवाक्रान्त: को मानी जीवितुं क्षम: ? ॥२०४॥ यदि वैक उपायोऽस्ति परेषांसाधनाय नः आह्वयामो वयं मेघमुखान् स्वकुलदेवताः॥२०५॥ क्षीणोपायविशेषाणांक्षीणपौरुषसम्पदाम् । परैराक्रम्यमाणानांशरणं कुलदेवताः॥२०६॥ इति निश्चित्य सर्वेऽपि सिन्धो रोधसि ते ययुः । चक्रिप्रतापसन्तप्ता मिमसव इवाऽम्भसि॥२०७॥ दीना दिग्वासस: सर्वे ते तत्रोत्तानशायिनः । तस्थुरेरितसर्वस्वा द्यूतकारनरा इव॥२०८॥ एवं स्थितास्ते सम्भूय प्रसादाय पयोमुचाम्। अकार्पुरष्टमतपो भक्तिग्राह्या हि देवताः॥२०९॥ तपोऽन्तेऽब्दमुखा देवा : प्रादुर्भूता दिवि स्थिताः । ऊचुर्मा भैष्ट मा भैष्ट वत्सा:! का वोऽतिरुच्यताम्॥२१०॥ म्लेच्छा अप्यूचिरे चक्री कश्चिदेष निहन्ति नः । तद्भयादिह नष्टा: स्म: काकनाशमिमे वयम्॥२११॥ त्रायध्वं भगवन्तोऽब्दास्त्रातारो यूयमेव नः। उन्मूढे हि क्षुते प्रायेणैकः शरणमर्यमा॥२१२॥ १.स्यन्दनानेकेऽपिंषन् छा.दे. मु.,स्यन्दनान् केऽप्यपिषन् ला. ता.,स्यन्दनान् केऽप्यपिषन् पा. सं.॥२.भाषायां 'शाहुडी' इति ॥ ३. प्रेतवत् ॥ ४. बिभीषणं सं.दे.ला.॥५.०समलक्ष्यन्ते पाता. वा.१-२॥६. 'दक्षिणाग्निर्हपत्याहवनीयौ त्रयोऽग्नयः' [अमरकोश ब्रह्मवर्ग श्लो.१९] दक्षिणाग्नि: गार्हपत्याग्निः आहवनीयाग्निः एते त्रयोऽनयः स्युः ।। ७.नदीपूरस्येव ॥८. लीना बभूवुः ॥९. दुहवुः ता. पा. मु.॥१०.०टुस्तुच्छपात्र. मु. ॥११. शिरोस्थि ॥ १२. एवमालोकितास्तेन दे. मु.॥१३. क्रोध-लज्जापीडिताः ।।१४. शौर्येण ऊर्ध्वबाहवः ।।१५. अद्यः ।।१६. छुरिकाभिः ।। १७. जीर्णवस्त्रवत् ।। १८. एर्वारु: भाषायां 'काकडी' इति ख्यातः; oमैरुि० मु.॥१९. मङ्क्तुमिच्छवः, टुमस्जोत् शुद्धौ(सि.१३५२)॥२०. नग्नाः ॥ २१. क्षुतं छिक्का, क्षुते रुद्धे सूर्यः शरणम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org