________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(पञ्चमं पर्व सप्रसादं तमालम्ब्य विससर्ज जगत्पतिः । चक्ररत्नमचालीच्च प्रति प्राचेतसी दिशम् ॥१५२॥ पानागवल्लीवनाबद्धपूगद्रुमसमाकुले। कूले प्रतीच्यजलधे: स्कन्धावारं न्यधाद् विभुः॥१५३॥ चलितासन: प्रभासपति: सिंहासनस्थितम् । एत्य श्रीशान्तिमानपँतीयेष चशासनम्॥१५४॥ पासिन्धुदेवीमथोद्दिश्य पश्चिमोत्तरवर्त्मना। चक्रं प्रतस्थे तन्मार्गानुग: शान्तिरपि प्रभुः॥१५५॥ निकषा सिन्धुसदनं दक्षिणे सिन्धुरोधसि। स्वामी न्यधत्त शिबिरं चलन्नगरसन्निभम् ॥१५६।। सिंहासनमथाऽध्यास्य सिन्धुं मनसिकृत्य च। तस्थौ तत्सन्मुख: स्वामी योगीवाऽऽकृष्टितत्परः ॥१५७।।
आयातंस्वामिनं ज्ञात्वाऽवधिना सिन्धुदेव्यपि। उपात्तोपायना सद्यो भक्तितस्तमुपाययौ॥१५८॥ सा शान्तिस्वामिनं नत्वा जगादैवं कृताञ्जलिः। आदेशकारिणी देशेऽस्मिन्नस्मि पृतनेव ते॥१५९॥ इत्युक्त्वा साऽर्पयामास भक्तिप्रह्वा जगत्पतेः । रत्नस्वर्णस्नानपीठ-कलशान् भूषणादि च॥१६०॥ पाततश्चचाल तच्चक्रं सानीकः शान्तिचयपि। दिशोर्दक्पूर्वयाऽऽपच्च वैताढ्योपत्यकाभुवम्॥१६१॥ श्रीशान्तिस्वामिनस्तत्र वैताढ्याद्रिकुमारकः । प्राभृतान्यर्पयामास बभूव च वशंवदः॥१६२॥ चक्रमार्गानुग: स्वामी तमिस्रां निकषा गुहाम्। जगाम विदधे चाऽऽशु कृर्तमालामरं वशे॥१६३॥ पाश्रीशान्तिशासनात् सिन्धुनदीमुत्तीर्य चर्मणा। सेनानी: साधयामास सिन्धोदक्षिणनिष्कुटम् ॥१६४॥ ततश्चोद्घाटयामास तमिमां पृतनापति: । कपाटौ ताडयन् दण्डरत्नेनाऽमोघशक्तिना॥१६५।। गजरत्नं समारूढः प्ररूढप्रौढविक्रमः। तस्यां गुहायां संबल: स्वामी सिंह इवाऽविशत्॥१६६॥ दक्षिणे कुंम्भिन: कुम्भेमणिरत्नं तमश्छिदे। उदयाद्राविवाऽऽदित्यं विदधे विश्वसेनसूः॥१६७॥ काकिणीरत्नमादाय पाणिनोभयतः प्रभुः। क्रमादेकोनपञ्चाशन्मण्डलान्यालिखन् ययौ॥१६८॥ ततोवर्धकिरत्नेन गुहारथ्यान्तरस्थयोः । स्वाम्युन्मना-निमग्नाख्यनद्यो: पंद्यामबन्धयत्॥१६९।। उत्ततार तरङ्गिण्यौ दुस्तरे अपि पद्यया।शान्तिनाथ: ससैन्योऽपि सर्वमप्य॒जु दोष्मताम् ॥१७०॥ गुहाया उत्तरद्वारं स्वयमुज्जघटे क्षणात्। प्रभावात् स्वामिनः प्रात: पद्मिनीकोशवद्रवेः॥१७१।। तस्या गुहाया द्वारेण ससैन्यस्तेन निर्ययौ। सर्वत्राऽस्खलितो मार्ग: प्रभूणां स्रोतसामिव॥१७२॥ गुहाया निःसृतं तस्या: ससैन्यं प्रेक्ष्य चक्रिणम्। म्लेच्छाः सम्भूय सम्भूय सोपहासमदोऽवदन् ॥१७३।। अरेरे! कोऽयमायातोऽप्रार्थितप्रार्थकोऽधना। अस्मद्देशे सिंहयथाक्रान्तारण्य इव द्विप: ?||१७४|| यथेष्टमुट्टीकमाना भटंमन्या पदातयः। धूलीधूसरसर्वाङ्गा: के न्वमी रासभा इव ? ॥१७५।। आरूढकरिण: केऽमी वृक्षस्था: प्लवगा इव ? । केऽमी चतुरगारूढास्तरङ्गस्था इवाऽऽटय: ? ॥१७॥ अमी किं पङ्गव इवाऽधिरूढा: स्यन्दनेषु च?। अङ्गारशकटीप्रायमय:खण्डमिदं च किम् ? ॥१७७॥ अहो! एषामनालोच्यकारित्वमसुमेधसाम् । सम्भूयैभिर्यदारेभेशृगालैरिव जागरः॥१७८॥ अथवैतानुपेक्ष्याऽलं विषं वैरी ह्युपेक्षितः । वयमेतान् हनिष्याम: काकोला: शलभानिव॥१७९॥ एवमन्योन्यमुक्त्वा ते विविधायुधपाणयः। प्रावर्तन्ताऽग्रसैन्येन योद्धं श्रीशान्तिचक्रिणः॥१८०॥ १. तमालप्य० मु. खंता. इत्यादिषु ॥२. पश्चिमाम्॥३. तीरे। प्रतीच्यजलधे: स्कन्धे स्कन्धा० मु.॥४. अङ्गीचकार ॥५. वायव्यदिक्मार्गेण ॥६. समीपे ॥ ७.सिन्धु सदनं मु.॥८.आकर्षणतत्परः।। ९. सेना ॥१०. भक्तिनम्रा ॥११. रत्न-स्वर्णस्नानपीठं कलशान् ला.॥१२. ससैन्यः॥१३. ईशानदिशा ॥१४. कृतमालं वशंवदम् पा.॥१५. चर्मरत्नेन ॥१६. देशविशेषम् ।।१७. सेनापतिः ।। १८. सबलस्वामी मु.॥१९. गजस्य।।२०. तमसश्छेदार्थम् ।। २१. निदधे ता. पा.॥२२. काकणी० खंता. पाता. वा.१-२॥२३. गुहामार्गमध्यस्थितयोः ।। २४. सेतुम् ।। २५. सरलम् ॥ २६. स्वामिनो वासरमुखे दे. मु. विना,खंता. पाता.वा.१-२॥२७. अप्रार्थितस्य मृत्योः प्रार्थयिता॥२८. उत्प्लुत्यमानाः॥२९. के त्वमी मु.॥३०. वानराः ॥३१. इवातय: ता.पा.ला. खंता. वा.१-२; आटय: मत्स्याः , आतयः शरारिपक्षिविशेषाः, “आटिराति: शरारि: स्यात्" [अभि. चिं. का. ४.श्लो.१३३८] ॥३२. श्लोकोऽयं पाता. प्रतौ नास्ति ।। ३३. मणुमेधसाम् पा. । अशोभना बुद्धिर्येषां ते 'मूर्खा' इत्यर्थः ॥ ३४. वायसविशेषाः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org