________________
पञ्चम: सर्ग:)
त्रिषष्टिशलाकापुरुषचरितम् । जिनेन्द्र-जिनजनन्योरनत्यासन्नदूरतः। गायन्त्यस्तद्गुणांस्तस्थुर्गायन्य इव तास्तत:॥५५॥ अष्टोर्ध्वलोकादी(दे)युर्दिग्देव्य: प्राविधिपूर्वकम्। विकृत्याऽब्दान् सिषिचुःक्ष्मां गायन्त्योऽस्थुस्तथैव ताः॥५६॥ अष्टे(ष्टै)यु: पूर्वरुचका देव्यो दर्पणपाणयः। जिनं जिनाम्बां नत्वाऽस्थुर्गायन्त्य: पूर्वदिश्यथ॥५७।। देव्योऽपाग्रुचकादेयुरष्टौ भृङ्गारपाणयः । नत्वाऽर्हन्तं तदम्बांच गायन्त्योऽस्थुरपाग्दिशि॥५८॥ प्रत्यरुचकतोऽष्टे(ष्टै)युर्देव्यो नत्वा जिनाऽचिरे । गायन्त्यस्तद्गुणांस्तस्थुः प्रतीच्यां व्यजनाञ्चिताः॥५९॥ उदग्रुचकतोऽप्येत्य देव्योऽष्टौ तौ प्रणम्य च।उँदीच्यां चामरभृतस्तस्थुस्तद्गुणगायिकाः॥६०॥ विदिग्रुचकतोऽप्येत्य चतम्रो दिक्कुमारिकाः। प्राग्वन्नत्वा विदिक्ष्वस्थुर्गायन्त्यो दीपपाणयः ॥६॥ चतम्रो रुचकद्वीपान्त:स्था एत्य प्रणम्य तौ। नालं जिनेन्द्रस्य चतुरङ्गुलोत्कर्षमच्छिदन् ॥६२॥ खनित्वा विवरं द्रव्यनिधायं तत्र तंन्यधुः। रत्नैर्वब्रैस्तदाऽऽपूर्याऽऽबध्नन् पीठं च दूर्वया॥६३॥ सतिकावेश्मनस्तस्य पूर्वोदग्दक्षिणासु ता:। सचतुःशालानि रम्भासदनानि विचक्रिरे॥६४॥ नीत्वाऽर्हदचिरादेव्यौ दक्षिणे कदलीगृहे। रत्नसिंहासने मध्येचतुःशालं निवेश्य च॥६५॥ दिव्यैः सुरभिभिस्तैलैरभ्यानञ्जुरुभावपि। ततश्चोद्वर्तयामासुर्गन्धद्रव्यैः सुगन्धिभिः॥६६॥[युग्मम्] प्रारम्भासदने नीत्वा न्यस्य सिंहासने च तौ। ता देव्योऽस्नपयन् गन्ध-पुष्प-शुद्धोदकैस्ततः॥६७।। द्वावप्यामोच्य दिव्यानि वस्त्रालङ्करणानि ता:। उदरम्भागृहे नीत्वा रत्नसिंहासने न्यधुः॥६८॥ गोशीर्षचन्दनं क्षुद्रहिमाद्रेराभियोगिकैः। आनाय्याऽऽप्लुष्य चाऽबध्नन् रक्षाग्रन्थिं द्वयोरपि॥६९॥ पर्वतायर्भवेत्युच्चैर्वदन्त्यो जिनकर्णयोः । ता:समास्फालयामासूरत्नपाषाणगोलकौ॥७०॥ जिनेन्द्र-जिनजनन्यौ निन्युस्ता: सूतिकागृहे। पर्यङ्के न्यस्य तस्थुश्च गायन्त्योभगवद्गुणान् ॥७१।।
तदा चाऽऽसनकम्पेन ज्ञात्वाऽर्हज्जन्म वज्रभृत्। पालकेन विमानेन तत्राऽऽगात् सपरिच्छदः ॥७२॥ नमस्तुभ्यं रत्नकुक्षिधारिणीति वदन्न्यधात्। शक्रोऽवस्वापनी देव्या रूपान्तरमथाऽर्हतः॥७३॥ पञ्चरूपस्ततो भूत्वा चतुर्भिरिव दर्पणैः। तत्र चैकेन रूपेण पाणिभ्यां प्रभुमुद्दधे॥७४॥ दधानश्चामरे द्वाभ्यां छत्रमेकेन चोज्ज्वलम्। एकेन च पुरो वैल्गन् वज्रमुल्लालयन् ययौ॥७५॥ क्षणाद् गत्वा मेरुशैलेऽतिपाण्डुकम्बलां शिलाम्। सिंहासने निषसादर्शक्रोऽङ्कारोपितप्रभुः॥७६॥ तदैवाऽऽसनकम्पेनाऽच्युताद्या अपि वासवा: । त्रिषष्टिरपि तत्राऽद्रौ ससङ्केता इवाऽऽययुः॥७७॥ हदिनीनाथ-हदिनी-हृदादिभ्य:समाहृतैः । पयोभिः पूरितै: कुम्भैरच्युतोऽस्नपयत् प्रभुम्॥७८॥ तं षोडशं तीर्थकर तीर्थाम्भस्कुम्भपाणयः। अन्येऽपिस्नपयामासुभषष्टिरपिवासवाः॥७९॥ पञ्चमूर्तिरथेशानो दधौ मूत्यैकया प्रभुम्। तिसृभिश्चामराद्यग्रे तस्थौ शूलभृदन्यया॥८०॥ भर्तुश्चतुर्पा पार्श्वेषु स्फाटिकांश्चतुरो वृषान् । शक्रो विचक्रे सपदि ककुब्भासानिवाऽमलान्॥८१॥ तद्विषाणाग्रनिर्यातैर्वारिभि: स्वामिनं हरिः। स्नपयामास विमलैर्धारायन्त्रोत्थितैरिव॥८२॥ ममार्ज देवदष्येणगोशीविलिलेपच। दिव्यालङ्कारमालाभिरानचंच हरिः प्रभम॥८३॥ आरात्रिकमथोत्तार्य स्वामिनो विधिपूर्वकम्। पवित्रं स्तोत्रमारेभे हर्षगद्गदया गिरा॥८४॥ “भगवन्! भवते विश्वजनीनायाऽद्भुतर्द्धये। संसारमरुमार्गकच्छायाविटपिने नमः॥८५॥ सञ्चितैनस्तमस्विन्या: प्रभातसमयो मया। त्वदीयं दर्शनं दिष्ट्याधिगतं परमेश्वर!॥८६॥ लोचनान्यपिधन्यानियैर्दृष्टोऽसि जगत्पते!। तेभ्योऽपिपाणयोधन्यास्त्वत्संस्पर्शोऽन्वभावियैः॥८७॥ १. गानकारिण्यः॥२. मेघान्।। ३. भूमिम्॥४. दक्षिणरुचकात्॥५. पश्चिमरुचकात्॥६. जिनं चअचिरांच नत्वा॥७. उत्तररुचकात्।। ८. उत्तरदिशि॥९. गर्तम् ।। १०. द्रव्य(धन)वत् निहित्वा । द्रव्यं निधाय मु.॥११. अभ्यङ्गं चक्रुः ।।१२. परिधाप्य॥१३. दग्ध्वा ॥१४. वल्गु मु.प्लवमानः॥१५. शक्राकारोपित: मु.॥१६. समुद्रः ॥ १७. नदी॥ १८. तीर्थाम्भं कुम्भपाणय: मु.॥१९. आदिशब्देन छत्रम् ।। २०. ईशानेन्द्रः ॥ २१. दिक्प्रकाशानिव ॥ २२. इन्द्रः ॥ २३. विश्वजनहिताय ।। २४.वृक्षाय ॥२५. सञ्चितपापान्येव रात्रिस्तस्याः।।२६. भाग्येन।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org