________________
५०
आदत्स्व वत्स! भूभारं यथा हि प्रव्रज्याम्यहम् । भवभ्रमणतोऽमुष्मान्निर्विण्णोऽस्म्येष पान्थवत् ॥ ३४५॥ "ततो दृढरथोऽप्येवं जगाद रचिताञ्जलिः । दुःखः खल्वेष संसारस्त्याज्य एव विवेकिभिः ॥३४६॥ अस्मिन्नेवंविधेऽपारेऽकूपार इव दुस्तरे । आरोप्य धरणीभारं कथं मुञ्चसि मां प्रभो ! ? ॥३४७॥ आत्माऽभेदेन मामद्य यावद् दृष्ट्वाऽधुना पृथक् । किं करोषि ? प्रसीदेश ! मामप्यात्मवदुद्धर ।। ३४८|| अद्यैव तातपादान्ते भवत्पादैः सहैव हि । प्रव्रजिष्याम्यहं स्वामिन्नन्यस्मै दीयतां मही ॥ ३४९ ॥ ततो मेघरथो राज्यं मेघसेने निजात्मजे । यौवराज्यं रथसेने न्यधाद् दृढरथात्मजे ॥३५०॥
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
ततश्च मेघसेनेन कृतनिष्क्रमणोत्सवः । समं दृढरथेनाऽऽत्मजन्मनां सप्तभिः शतैः ॥ ३५१ ॥ राज्ञां चतुःसहस्र्या च गत्वा भगवतोऽन्तिके । सर्वसावद्यविरतिं राजा मेघरथोऽग्रहीत् ॥ ३५२॥ युग्मम् ॥ परीषहानुपसर्गान् सहमानोऽतिदुःसहान् । त्रिगुप्तिः पञ्चसमितिर्निराकाङ्क्षो वपुष्यपि ॥ ३५३॥ विविधाभिग्रहतपः परो दृढरथान्वितः । एकादशाङ्गीधरणो धरणीं विजहार सः || ३५४ || युग्मम् ।। विंशत्या स्थानकैरर्हद्भक्तिप्रभृतिभिः शुभैः । कर्माऽर्हन्नामगोत्रं स दुरुपार्जमुपार्जयत् ॥ ३५५॥ सिंहनिष्क्रीडितं नाम स कृत्वा दुस्तपं तपः । श्रामण्यं पालयित्वा च पूर्वलक्षमखण्डितम् ॥३५६॥ आरुह्याऽम्बरतिलकं गिरिं गिरिरिव स्थिरः । भ्रात्रा सहैवाऽनशनं चक्रे मेघरथो मुनिः || ३५७|| [युग्मम्] पूर्णायुरापदथ मेघरथो विमानं सर्वार्थसिद्धमनुजेन समन्वितोऽपि । तत्राऽमितान्यनुबभूवतरां त्रयस्त्रिं"शाब्ध्यायुरव्ययपदोपपदे सुखानि ॥ ३५८।।
Jain Educatio
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये पञ्चमे पर्वणि श्रीशान्तिनाथदेवीयदशमैकादशभववर्णन नाम चतुर्थः सर्गः”॥
(पञ्चमं पर्व
१. दुःखरूपः ॥ २. समुद्रः ॥ ३. आत्मसदृशेन ॥ ४. पुत्राणाम् ॥ ५.० वपुष्यति पाता. वा. १-२ ॥ ६. महात्मा विधिवत् प्रायं मु. ॥ ७. खंता. पाता. वा. १२ प्रतिषु न ॥ ८. सर्वार्थसिद्धमथ तस्य सहोदरोऽपिं । काले कियत्यपि गतेऽनशनं प्रपद्य, शुद्धाशयोऽव्ययपदोपपदं तदेव ।। इति र. स्वीकृतपाठः ।। ९. तत्राऽमितामनु० ला. मु. ॥ १०. ० श्यद्यायु० ता. पा. सं., शद्यायु० ला. मु., शच्चायु० वा. १-२ ॥ ११. पञ्चमपर्वणि खंता. पाता. वा. १-२ ॥ १२. सर्गः समाप्तः मु. ॥
For Private Personal Use Only
www.jainelibrary.org