________________
चतुर्थः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । पापौषधं पारयित्वा तं राजा मेघरथोऽपि हि। यथावत् पालयन्नुर्वी तस्थौ न्याय इवाऽङ्गवान् ॥३१४।। कपोत-श्येनवृत्तान्तमन्यदाऽनुस्मरनृपः । परं वैराग्यमापेदे बीजं प्रशमशाखिनः ॥३१५॥ कृत्वाऽष्टमतप: सोढुमपसर्ग-परीषहान् । तस्थौ प्रतिमया शैल इव सर्वाङ्गनिश्चलः ॥३१६॥
ईशानेन्द्रस्तदानीं च मध्येशुद्धान्तमासित: । 'नमो भगवते तुभ्यं' इति जल्पन्नमोऽकरोत् ॥३१७।। महिष्यस्तस्य पप्रच्छु: कस्मै स्वामिन्नमस्क्रिया। त्वया जगन्नमस्येन विदधेऽत्यन्तभक्तित: ? ॥३१८॥ ईशानेन्द्रः शशंसैवमर्हद्घनरथात्मजः । नगर्यां पुण्डरीकिण्यां सरस्यां पुण्डरीकवत् ॥३१९।। अयं मेघरथो नाम कृताष्टमतपो नृपः । विशुद्धध्यानमापन्नो महाप्रतिमया स्थितः ॥३२०॥ भावी तीर्थकरश्चैष भरतक्षेत्रमण्डनम् । दृष्ट्वा तदेनमेतस्मै नमोऽकार्षमिह स्थितः ॥३२१॥त्रिभिर्विशेषकम्।। ध्यानादस्मादमुं धीरं न हि चालयितुं क्षमाः। सुरा-ऽसुरगणा: सेन्द्रा अपि मादयस्तु के? ॥३२२।। ईशानेन्द्रमहिष्यौ च सुरूपा चाऽतिरूपिका। असहिष्णू प्रशंसां तां राज्ञः क्षोभार्थमीयतुः ॥३२३॥ पायुवतीस्ते विचक्राते लावण्याम्भस्तरङ्गिणी। दुर्गं वा जङ्गमं जैत्रमस्त्रं वा मीनलक्ष्मणः ॥३२४॥ विकारैर्विविधैस्तैस्तैः स्मरोज्जीवनभेषजैः । अनुकूलानुपसर्गानुपचक्रमिरेऽथ ताः ॥३२५॥ काऽपि मिथ्यापरिक्षिप्तधम्मिल्लोद्वन्धनच्छलात् । आविश्चक्रे भुजामूलं स्मरमूलनिकेतनम् ॥३२६।। अर्ध सितसंव्यानं जघनं काऽप्यदर्शयत् । पिधानपटनिर्यातमिव दर्पणमण्डलम् ॥३२७॥ काचिदालीजनालापव्यपदेशान् मुहुर्मुहुः । भ्रूलतोत्क्षेपमकरोत् स्मरास्त्रोत्क्षेपसन्निभम् ॥३२८॥ स्मरेतिवृत्तं सन्दृब्धं गान्धारग्रामबन्धुरम् । मुखदृष्टिविकाराढ्यं जगौ काऽप्यनुरागिणी ॥३२९॥ कामशास्त्रकथालापं काऽपि लीलावती मुहुः । स्वानुभूतरतक्रीडाप्रस्तावनपराऽकरोत् ॥३३०।। पित्तादीनां प्रकृतीनामनुरूपाणि धातुना। रेतोपज्ञानि करणान्यालिलेखाऽपरा पुन: ॥३३१।। ययाचे काचिदालापं करस्पर्शं च काचन । दृष्टिप्रसादं काचिच्च काचिदालिङ्गनं पुन: ॥३३२॥ कलाप्रकारान् विविधान् व्यधुरेवं महीपतेः। विभावर्यामाविभातं विकृत्य सुरयोषितः॥३३३॥ टङ्कप्रहारवद् वज्रे मोघीभूतानि भूभुजः । तानि वैक्रियरूपाणि देव्यौ सञ्जहतुस्ततः ।।३३४।। क्षमयित्वा मेघरथं नत्वा चाऽनुशयान्विते । ईशानेन्द्रमहिष्यौ ते निजधामनि जग्मतुः ॥३३५॥ पाराजाऽप्यपारयत् प्रीत: प्रतिमामथ पौषधम् । स्मारं स्मारं निशावृत्तं परं संवेगमासदत् ॥३३६॥ महादेवी प्रियमित्रा प्रियमालोक्य तादृशम् । साऽपि संवेगमापेदे सत्यो हि पतिवम॑गाः ॥३३७|| अथाऽपरेधुर्विहरन्नर्हन् घनरथः स्वयम् । तत्रैत्य समवासार्षीत् पूर्वोत्तरदिशि प्रभुः ॥३३८॥ स्वाम्यागमनमाचख्यू राज्ञे चाऽऽयुक्तपूरुषाः । स पारितोषिकं तेभ्यो दत्वाऽगात् सानुजः प्रभुम् ॥३३९।। आयोजनविसर्पिण्या सर्वभाषानुयातया। सग्रामरागया वाचा देशनां विदधे प्रभुः ॥३४०॥ पदेशनान्ते जिनपतिं नत्वा भपतिरब्रवीत। विश्वत्राणोद्यतोऽसि त्वं नाथ! त्रायस्व मामपि॥३४॥ सर्वं जानासि सर्वस्य हितोऽसि च जगत्पते! । तथाऽपि प्रार्थये स्वामिन्! स्वार्थे क इव नोत्सुकः ? ॥३४२।। यावत् कुमारं स्वे राज्ये निधायेहाउँपंताम्यहम् । दीक्षादानाय मे तावत् त्वया नाथ! प्रतीक्ष्यताम् ॥३४३॥ न प्रमादो विधातव्य इति शिष्टोऽर्हता स्वयम् । ययौ मेघरथो वेश्माऽवरजं चेत्यवोचत ॥३४४॥ १. पोषधं० खंता. पाता.वा.१-२॥२.०मन्यदा तु स्मरनृपः खंता. पाता. वा.१-२॥३. अन्तःपुरमध्ये ॥४.खंता. पाता. वा.१-२ मु. न ॥५. इवार्थे वा शब्दः ॥६.जयनशीलम् ।। ७. कामदेवस्य ॥८.केशपाशः॥९. वस्त्रम् ॥१०. सखीजनालाप ॥११. कामदेववृत्तान्तग्रथितम् । स्मरेतिवृत्तसन्हब्धं पा. मु.॥ १२.रतस्य कामक्रीडाया उपज्ञा प्राथम्यमीदृशानि करणानिचित्राणि॥१३. विभावरीमावि० सं. ता.पा.ला.खंता.पाता.वा.१-२॥१४. प्रात:कालपर्यन्तम् ।। १५.वैकृत्य खंता. पाता. वा.१-२॥१६. नुत्वा छा. ॥१७. पश्चात्तापान्विते॥१८.०पोषधम् खंता. पाता. वा.१-२॥१९. पतिमार्गानुसारिण्यः॥२०. ईशानकोणे ॥ २१. आगच्छामि ।। २२. महर्षिणा ता. ॥ २३. अनुजं दृढरथम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org