________________
४८
कलिकालसर्वज्ञश्री हेमचन्द्राचार्यप्रणीतं
I
सभायां वर्णयामास त्वामीशानदिवस्पतिः । अहं त्वसहमानस्तत् त्वत्परीक्षार्थमागमम् ॥ २८४॥ प्राग्जन्मवैराद् युद्धायोपस्थितौ पक्षिणाविमौ । अपश्यं चाऽध्यतिष्ठं चाऽकार्षं चैतत् सहस्व तत् ॥ २८५॥ इत्युदित्वा नृपं कृत्वा सज्जं देवो दिवं ययौ । सामन्ताद्याश्च राजानं पप्रच्छुरिति विस्मयात् ॥ २८६॥ श्येन-पारापतावेतौ कीदृशौ पूर्वजन्मनि ? । किंहेतु वाऽनयोर्वैरं ? देवोऽयं प्राग्भवे च कः ? ॥२८७॥ | राजाऽप्याख्यज्जम्बूद्वीपैरवत क्षेत्रमण्डनम् । पद्मिनीखण्डमित्यस्ति पुरं श्रीपद्मखण्डवत् ॥ २८८॥ तत्र सागरदत्तोऽभूत् सम्पदा सागरोपमः । भार्या विजयसेनेति तस्य चाऽसीदैनिन्दिता ॥ २८९ ॥ सञ्जज्ञाते तयोः पुत्रौ नामतो धन-नन्दनौ । यौवनं च प्रपेदाते वर्धमानौ क्रमेण तौ ॥ २९०॥ क्रीडाभिर्विविधाभिस्तौ विहरन्तावुभावपि । गमयामासतुः कालं पितृऋद्धिसमुन्नतौ ॥ २९९ ॥ ॥ अन्यदा सागरदत्तं तौ प्रणम्यैवमूचतुः । देशान्तरे वणिज्यार्थमावां तात ! समादिश ॥ २९२ ॥ पित्रा समनुजज्ञाते मुदितेन तदैव तौ । सूनोः पुरुषकारो हि हर्षाय प्रथमं पितुः ॥ २९३॥ आदाय विविधं भाण्डं तौ सार्थेन प्रचेलतुः । प्रापतुश्च क्रमान्नागपुरं नाम महापुरम् ॥२९४॥ तत्र व्यवहरन्तौ तौ श्वानौ भक्ष्यमिवैककम् । किञ्चिदेकं महामूल्यं महारत्नमवापतुः || २९५ ।। तौ च शङ्खनदीतीरे तस्य रत्नस्य हेतुना । युयुधाते मिथो क्रुद्धौ दुर्दान्तौ वृषभाविव ॥२९६॥ युध्यमानौ पेततुस्तावगाधे तन्महाहदे । विपेदाते च सद्योऽपि लोभः कस्य न मृत्यवे ? ॥ २९७ ॥ विपद्य तावुभौ बन्धू उत्पेदाते इमौ खगौ । प्राग्जन्मवैरादेवं च वैरायेते इहाऽपि हि ॥२९८॥ ॥ अन्यच्च जम्बूद्वीपेऽस्मिन् प्राग्विदेहविभूषणे। सीताया दक्षिणतटे विजये रमणीयके ॥ २९९॥ शुंभाख्यायां पुरि नृपोऽभवत् स्तिमितसागरः । तस्येतैः पञ्चमभवेऽभूवं पुत्रोऽपराजितः || ३००||[युग्मम्] तदा हि बलदेवोऽहं वासुदेवोऽपि मेऽनुजः । अनन्तवीर्य इत्यासीदयं दृढरथोऽस्ति यः ॥३०१॥ प्रतिविष्णुस्तदानीं च दमितारिर्महाभुजः । कनकश्रीकन्यकार्थेऽस्माभिर्युधि निपतितः ॥३०२|| स भ्रान्त्वा भैवकान्तारे जम्बूद्वीपस्य भारते । अष्टापदगिरेर्मूले निकृत्याः सरितस्तटे ॥३०३॥ सोमप्रभाभिधानस्य तापसस्य सुतोऽभवत् । बालं तपश्चरित्वाऽभूत् सुरूपो नामतः सुरः || ३०४|| युग्मम्|| सोऽयं सुरोऽस्मत्प्रशंसामीशानेन्द्रेण निर्मिताम् । असहिष्णुः समार्गच्छच्चक्रे चैतत् परीक्षणम् ॥३०५॥ 'तच्छ्रुत्वा वचनं राज्ञो जातजातिस्मृती उभौ । श्येन - पारापतौ सद्यो मूर्च्छया पेततुर्भुवि ॥ ३०६ ॥ राजलोककृतैस्तालवृन्तानिल- जैलोक्षणैः । भूयोऽपि सञ्ज्ञां लेभाते तौ प्रसुप्तोत्थिताविव ॥३०७॥ तौ स्ववाचोचतुर्भूपं साध्वावां ज्ञापितौ त्वया । प्राग्जन्मदुष्कृतं स्वामिन्नीदृग्योनिनिबन्धनम् ॥३०८॥ स्वामिन्! युद्ध्वा तदाऽऽवाभ्यां रत्नं नाम न केवलम् । अतिलोभाभिभूताभ्यां मर्त्यजन्माऽपि हारितम् ॥ ३०९॥ इदानीं नारकं जन्माऽभवन्निकटमावयोः । निषिद्धावन्धवत् कूपात् परमावां ततस्त्वया ॥ ३१० ॥ अतः परमपि स्वामिन्नुन्मार्गाद् रक्ष रक्ष नौ । सन्मार्गमादिश शुभं स्थानं येन लभामहे ॥३१९॥ तयोश्च योग्यतां ज्ञात्वाऽवधिज्ञानोर्मिवारिधिः । समादिदेशाऽनशनं प्राप्तकालं महीपतिः ॥ ३१२ ॥ प्रपद्य तावनशनं शुभचित्तौ विपद्य च । उत्पेदाते सुरवरौ मध्ये भैवनवासिनाम् ॥३१३॥
I
१. ईशानेन्द्रः । ईशानस्य दिवस्पतिः खंता ॥ २. व्यधाम् ॥ ३. को हेतुर्यस्य तद्, वैरविशेषणम् ॥ ४. लक्ष्मीसरोवत् ॥ ५. शुद्धा ॥ ६. ० समुद्धतौ मु. ॥ ७ पित्राऽपि समनुज्ञाते मु. ॥ ८. ० महाक्रुद्धौ वा. १-२ ॥ ९. श्येन - पारापतौ ॥ १०. सुभगायाम् सं. ता. पा. खंता. पाता ॥ ११. इतोऽस्माद् भवात् पूर्वं पञ्चमे भवे ।। १२. हतः ।। १३. भवकान्तारम् दे. मु. विना । संसारारण्ये ।। १४. निकृतीनाम्नी नदी, तस्यास्तटे ।। १५. समागच्छद् व्यधाच्चैतत्० मु. ॥ १६. जलसेचनैः ॥ १७. कारणम् ।। १८. नारकात् ॥ १९. ० शुभस्थानम्० मु. ॥ २०. कालप्राप्तं खंता. पाता. वा. १-२ मु. ॥ २१. भुवन० मु. ॥
Jain Education International
(पञ्चमं पर्व
For Private Personal Use Only
www.jainelibrary.org