________________
चतुर्थः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
श्रीमद्धनरथस्वामिपादान्ते 'दान्तमानसः । परिव्रज्य चरित्वा च तपः सिद्धिमियाय सः ॥ २५२ ॥ ||राजा मेघरथो देवरमणोद्यानतस्ततः । प्राविशत् सपरीवारो नगरीं पुण्डरीकिणीम् ॥ २५३ ॥ अपरेद्युर्मेघरथः पौषेधौकसि पौषधी । धर्ममाख्यातुमारेभे जिनाख्यातं विपश्चिताम् ॥२५४॥ तस्योत्सङ्गे तदानीं च सञ्जातभयवेपथुः । पारापतः पपातैको मुमूर्षुरिव दीनदृक् ॥ २५५॥ अभयं याचमानं तं खगं मानुषभाषया । मा स्म भैषीर्मा स्म भैषीरित्यभाषिष्ट भूपतिः ॥ २५६ ॥ एवमाभाषितस्तस्थौ सुस्थ: पारापतस्ततः । बालः पितुरिवोत्सङ्गे राज्ञः कारुण्यवारिधेः ॥ २५७॥ भक्ष्यं ममेदं मुञ्चाऽऽशु राजन्निति वदन्नथ । तस्याऽनुमार्गमेवाऽऽगाच्छ्येनोऽहेरिव पक्षिराट् ॥ २५८॥ श्येनमूचे नृपोऽप्येवं नाऽर्पयिष्याम्यमुं तव । क्षत्रियाणां न धर्मोऽयं शरणार्थी यदर्प्यते ॥ २५९ ॥ अपरं च तवाऽपीदं युज्यते न हि धीमतः । परप्राणापहारेण स्वप्राणपरिपोषणम् ॥ २६०॥
T
उत्खन्यमाने पिच्छेऽपि यथा ते भवति व्यथा । अन्यस्याऽपि भवत्येवं मार्यमाणस्य का कथा ? ॥२६१ ॥ जग्धेनाऽप्यमुना तृप्तिर्भाविनी क्षणमेव ते । सर्वजन्मापहारस्तु पक्षिणोऽस्य भविष्यति ॥२६२॥ पञ्चेन्द्रियप्राणवधात् तन्मांसस्य च भक्षणात् । नरके जन्तवो यान्ति सहन्ते दुःसहा व्यथाः ॥२६३॥ पैंरत्राऽनन्तदुःखाय क्षणमत्र सुखाय च । विवेकवान् कथं हन्यात् प्राणिनं क्षुधितोऽपि हि ॥ २६४॥ अपरेणाऽपि भोज्येन क्षुत्पीडा हन्त शाम्यति । पित्ताग्निः शर्कराशम्यः पयसा किं न शाम्यति ? ॥२६५॥ न च प्राणिवधप्राप्तनरकप्रभवा व्यथाः । केनाऽपि हि प्रकारेण शाम्यन्ति सहनं विना ॥ २६६ ॥ ततः प्राणिवधं मुञ्च धर्ममेव समाचर । भवे भवे येन सुखं प्राप्नोषि विमृश स्वयम् ॥ २६७॥ ॥ मनुष्यभाषया श्येनोऽप्यभाषत महीपतिम् । भवन्तं मद्भयादेष कपोतः शरणं ययौ || २६८ ॥ क्षुत्पीडयाऽर्दितोऽहं तु कं यामि शरणं ? वद । सर्वेष्वप्यनुकूला हि महान्तः करुणाधनाः ॥ २६९॥ यथैनं त्रायसे राजंस्तथा त्रायस्व मामपि । इमे गच्छन्ति ही प्राणा बुभुक्षाबाधितस्य मे ॥२७०॥ धर्मार्धर्मविमर्शो हि सुस्थितानां शरीरिणाम् । धर्मप्रियोऽपि किं पापं न करोति बुभुक्षितः ? ॥२७१ ॥ तर्द्धर्मवार्तयाऽलं मे र्भैक्ष्यभूतोऽयमर्प्यताम् । क एष धर्मस्त्रातव्य एको मार्यस्तथाऽपरः ? ॥ २७२ ॥ तृप्तिर्भवेन् महीपाल! न च भोज्यान्तरैर्मम । सद्यः स्वयंहतप्राणिस्फुरन्मांसाशनो ह्यहम् ॥ २७३॥ राजाऽप्येवमवोचत् तं स्वमांसं ते ददाम्यहम् । तुलयित्वा कपोतेन सुहितीभव मा मृथाः ॥ २७४॥ आमेत्युक्तवति श्येने तुलायामेकतो नृपः । कपोतं निदधेऽन्यत्र छित्त्वा छित्त्वा स्वमामिषम् ।।२७५।। उत्कृत्त्योत्कृत्त्य मांसं स्वं राजाऽक्षैप्सीद् यथा यथा । तथा तथा कपोतः स भारेण ववृधेतराम् ॥२७६॥ भारेण वर्धमानं तं कपोतं प्रेक्ष्य भूपतिः । स्वयमेवाऽध्यारुरोह तुलामतुलसाहसः ॥ २७७॥ तुलाधिरूढं राजानं प्रेक्ष्य हाहारवाकुल: । सर्वोऽपि संशयतुलामारुरोह परिच्छदः ॥२७८॥ सामन्तामात्यमुख्याश्चाऽभ्यधुरेवं महीपतिम् । एतदस्मदभाग्येन किमारब्धं त्वया प्रभो! ? ॥ २७९॥ अनेन हि शरीरेण त्रातव्या सकला मही । एकस्य पक्षिमात्रस्य त्राणे त्यजसि तत् कथम् ? ॥ २८० ॥ किञ्च कोऽप्येष मायावी त्रिदशो दानवोऽथवा । न हीदृक् पक्षिमात्रस्य भारः सम्भवति क्वचित् ॥ २८१ ॥ जगदुर्यावदेवं ते तावदाविरभवत् पुरः । किरीटी कुण्डली म्रग्वी तेजोराशिरिवाऽमरः ॥ २८२॥
I
" नृदेवं देव इत्यूचे त्वमेकः पुरुषेष्वसि । न चाल्यसे पौरुषाद्यत् स्वस्थानादिव मन्दरः ॥२८३॥
१. शुद्धमानसः ॥ २. ० पोषधौकसि पोषधी खंता. पाता. वा. १-२ ॥ ३. विदुषाम् ॥ ४. कम्पमानः ॥ ५. मर्तुमिच्छुः ॥ ६. पक्षिविशेष:, 'बाज' इति भाषायाम् ।। ७. गरुडः ।। ८. खादितेन ।। ९. मरणम् ।। १०. दुःसहां व्यथाम् मु. ॥ ११. परलोके । परत्रात्यन्त० मु. ॥। १२. शर्करया शम्यते यः पित्ताग्निः दुग्धेनाऽपि शम्यते ॥ १३. ०धर्मविचिन्ता सं. पा. ता. ला. खंता. पाता. वा. १-२ ॥ १४. भोज्यरूपः ॥ १५. तृप्तो भव ।। १६. स्वमांसम् ।। १७. नरेषु देवः, तम् ॥
Jain Education International
४७
For Private Personal Use Only
www.jainelibrary.org