________________
४६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(पञ्चमं पर्व पावयामि तदात्मानं दृष्ट्वा साक्षाग्जिनेश्वरम् । तद्दर्शनं ह्येकदाऽपि सुस्वप्न इव कामधुक् ॥२१९॥ इत्थं विचिन्त्य स द्वीपे धातकीखण्डनामनि । पश्चिमेषु विदेहेषु सीतोदोत्तररोधसि ॥२२०॥ सूत्राभिधाने विजये पुरे खड्गपुराभिधे । गत्वाऽर्हन्तं समं पत्न्या ददर्शाऽमितवाहनम् ॥२२१॥युग्मम्।। प्रणम्य भगवन्तं तं सोऽश्रौषीन् मेदिनीपतिः। भवाम्भोधितरीकल्पामनल्पां धर्मदेशनाम् ॥२२२॥ आकर्ण्य देशनां तां च दु:खानलजलच्छटाम् । नत्वा चाऽर्हन्तमचलत् स निजां नगरी प्रति॥२२३।। अत्रोर्ध्वं गच्छतश्चाऽस्य बभूव स्खलनं गते: । दृढवेत्रवनाकीर्णे पोतस्येव पयोनिधौ॥२२४॥ गतिर्मे स्खलिता केनेत्यथ ज्ञातुमधो दृशम् । न्यधान यावदसौ तावदद्राक्षीन् मामिह स्थितम् ।।२२५॥ सकोपाटोपमेषोऽथ मामुत्क्षेप्तमुपासरत। आक्रम्यत मया चाऽयं वामो वामेन पाणिना ॥२२६॥ रेरास विरसं चैष सिंहाक्रान्त इव द्विपः । तद्भार्या सपरीवारा प्रपन्ना शरणं च माम् ॥२२७।। ततो मयाऽमुच्यताऽयं मुक्तश्च पुरतो मम । विकृत्य नाना रूपाणि सङ्गीतमकरोदिदम् ॥२२८॥ भूयोऽपि प्रियमित्रोचे प्रिय! पूर्वभवेऽमुना। किं कृतं कर्म येनैषा ऋद्धिरस्य महीयसी ? ॥२२९॥
आख्यन् मेघरथोऽप्येवं पुष्करार्धस्य भारते । पूर्वस्मिन् विद्यते सङ्घपुरं नाम महापुरम् ॥२३०॥ राज्यगुप्तोऽभिधानेन तत्राऽऽसीत् कुलपुत्रकः । दु:स्थ: सदा परकर्मकरणोत्पन्नभोजनः ॥२३१॥ शजिका नाम तस्याऽनुरक्ता भक्ता च पत्न्यभूत् । उभावपि हि चक्राते कर्माणि परवेश्मसु ॥२३२॥ अन्येधुश्च फलार्थं द्वावपि नानाद्रुमाकुलम् । सम्भूय जग्मतुः सवगिरि नाम महागिरिम् ॥२३३।। तस्मिन् वनफलार्थं तौ पर्यटन्तावपश्यताम् । कुर्वाणं देशनां सर्वगुप्तं नाम महामुनिम्॥२३४॥ विद्याधरसभामध्यमध्यासीनमुपेत्य तम् । तौ नमश्चक्रतुर्भक्त्या पुरतश्च निषेदतुः ॥२३५॥ तयोर्विशेषतो धर्मं दिदेश स मुनीश्वरः । दुःस्थितेषु हि महतां वात्सल्यमतिरिच्यते॥२३६।। देशनान्ते महर्षिं तं तौ प्रणम्यैवमूचतुः। पापयोरपि नौ पुण्यमेतद् दृष्टोऽसि यत्प्रभो! ॥२३७|| स्वयं विश्वजनीनोऽसि तथाऽप्योत्त॑स्त्वमर्थ्यसे। अस्मदर्थं तपः किञ्चिज्जगदह! समादिश ॥२३८॥ तद्योग्यतानुसारेण सर्वगुप्तो महामुनिः । द्वात्रिंशत्कल्याणकाख्यमादिदेश तपस्तयोः ॥२३९॥ पातथेति प्रतिपद्योभौ गत्वा स्वौकसि चक्रतुः । द्वे त्रिरात्रे चतुर्थानि द्वात्रिंशदिति तत्तपः ॥२४०॥ पारणस्य च समये द्वारे प्रक्षिप्य चक्षुषि। गवेषयामासतुस्तौ कञ्चिदप्यतिथिं मुनिम् ॥२४१।। साधुं धृतिधरं नाम प्रविशन्तमपश्यताम् । प्रत्यलाभयतां चोभौ भक्त्या भक्तोदकादिना ॥२४२।।
अन्यदा विहरंस्तत्र सर्वगुप्तमुनिः पुन: । स आजगाम तत्पार्श्वे धर्मं शुश्रुवतुश्च तौ॥२४३॥ आददाते परिव्रज्यां सर्वगुप्तमुनेः पुरः। फलं मानुषजन्मद्रोस्तौ विवेकपरायणौ ॥२४४॥ ततश्च राज्यगुप्तर्षिर्विदधे गुर्वनुज्ञया। आचामाम्लवर्धमानाभिधानं दुस्तपं तपः॥२४५।। अन्ते चाऽनशनं चक्रे चतु:शरणमाश्रितः । विपद्य ब्रह्मलोकेऽभूदु देशसागरजीवितः ॥२४६।। ब्रह्मलोकात् परिच्युत्य विद्युद्रथनृपात्मजः । अयं सिंहरथो नाम जज्ञे विद्याधरेश्वरः ॥२४७।। शखिका साऽपि तद्भार्या विधाय विविधं तपः । ब्रह्मलोके सुरो जज्ञे च्युत्वाऽसावस्य पत्न्यभूत् ॥२४८॥ इत: स्वनगरं गत्वा पुत्रं राज्ये निधाय च। पादान्ते मत्पितुर्दीक्षामयमादास्यते सुधीः ॥२४९॥ तपो-ध्यानादिभिः कृत्वा कर्माष्टकपरिक्षयम् । उत्पन्नकेवलज्ञान: सिद्धिमेष व्रजिष्यति ॥२५०॥ श्रुत्वा तद्वचनं मेघरथं च नत्वा भक्तितः । गत्वा च स्वपुरे पुत्रं राज्ये सिंहरथो न्यधात् ॥२५१॥ १.खंता. पाता. वा.१-२ प्रतिषु नास्ति॥२. भवसागरे नौसदृशीम् ॥३. आचक्रमे सं. पा. ता. ला. खंता. पाता. वा.१-२॥ ४. अधमः ।। ५. अरसत् दे. छा.।। ६.प्रपेदे सं.पा. ता.ला.॥७. मयाऽयं मुमुचे सं.पा. ता.ला. ।। ८. ०तमुपचक्रमे सं. पा. ता. ला. खंता. पाता. वा.१-२॥९. दुरवस्थः ॥ १०. विश्वहितः॥११. दुःखितैः॥१२. जगत्पूज्य!॥१३. द्वे अष्टमतपसी द्वात्रिंशच्च चतुर्थभक्तानीति ज्ञायते ॥१४.अन्वेषयामासतुः सं. ता. ला. पा. खंता. पाता. वा.१-२॥१५. मानुषजन्मवृक्षस्य । ०मानुषकल्पद्रो० मु.॥१६. दशसागरोपमायुः ॥ १७. विधाय दे. मु.॥१८. व्यधात् दे. छा. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org