________________
चतुर्थः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । राजौकसि कमारं 'तं मक्त्वा च प्रणिपत्य च। विधाय रत्नवष्टिं च जग्मतर्निजमाश्रयम ॥१८८॥ पाअथैकदा घनरथोऽभ्येत्य लोकान्तिकामरैः। तीर्थं प्रवर्तयेत्युच्चैः स्वयंबद्धोऽप्यबोध्यत॥१८९।। राज्ये मेघरथं यौवराज्ये दृढरथं तथा। न्यस्य दत्त्वाऽऽब्दिकं दानं दीक्षां घनरथोऽग्रहीत् ॥१९०॥ उत्पन्नकेवलज्ञानो भविकान् प्रतिबोधयन् । तीर्थङ्करो घनरथो विजहार वसुन्धराम् ॥१९॥ पानरेन्द्रवृन्दमुकुटोद्धृष्टपादाम्बुजासनः । राजा मेघरथस्तूर्वीमशाद् दृढरथान्वितः ॥१९२॥ अन्यदा देवरमणनाम्न्युद्याने रिरंसया । ययौ जनोपरोधेन राजा मेघरथः स्वयम् ॥१९३॥ तत्राऽशोकतले सार्धं प्रियया प्रियमित्रया। स कारयितुमारेभे सङ्गीतमविगीतकम् ॥१९४॥
अत्रान्तरे तस्य पुरः प्रादुरासन् महीपतेः । भूता: सहस्रशोऽपूर्वसङ्गीतकचिकीर्षया ॥१९५।। विशालैरुदरैः केऽपि लम्बोदरसहोदरा: । क्षामैस्तैरेव केचिच्च पातालानीव बिभ्रतः ॥१९६।। प्रलम्बै: कर्कशैः पादैस्तौलारूढा इवाऽपरे । केचिदप्यायतैर्दोभिर्दुमा: साजगरा इव ॥१९७।। भुजङ्गभूषणा: केचित् केचिन्नकुलभूषणा: । 'द्वीपित्वग्वसना केऽपि व्याघ्रत्वग्वाससोऽपरे ॥१९८॥ भस्माङ्गरागा: केचिच्च केचिद रक्तविलेपनाः । उलूकोत्तंसिनः केचित् केचिद् गृध्रावतंसिनः ॥१९९।। आखुम्रग्मालिन: केचित् केचित् सैरटमालिनः । मुण्डमालाधरा: केऽपि केऽपि कङ्कालपाणयः ॥२००॥ कृताट्टहासा: केचिच्च केचित्तुमुलकारिणः । हेषाविधायिनः केचित् केचिद् बृंहितकारिणः ॥२०१॥ करास्फोटकरा: केऽपि केऽपि तालप्रदायिनः । मुंखातोद्यपरा: केऽपि कक्षावाद्यकृतोऽपरे ॥२०२।। दलयन्त इव क्षोणिं स्फोटयन्त इवाऽम्बरम् । चारीप्रचारैरुद्दण्डं प्रारभन्ताऽथ ताण्डवम् ॥२०३॥अष्टभिः कुलकम्॥ एवं नरेन्द्रतोषाय यावत् ते ताण्डवं व्यधुः । प्रादुरासीत् तावदेकं विमानवरमम्बरे ॥२०४।। रत्या मनोभव इव युवत्या युत एकया। अन्तस्तस्य पुमानेको ददृशे सुन्दराकृतिः ॥२०५॥ प्रियमित्रा ततो देवी जगादैवं महीपतिम् । कोऽयं ? केयं ? कुतो हेतोरिह चाऽऽपततः प्रभो! ? ॥२०६॥ पाअथ मेघरथोऽशंसज्जम्बूद्वीपेऽत्र भारते । वैताढ्यस्योत्तरश्रेण्यामलकेत्यस्ति पूर्वरा ॥२०७॥ तत्र विद्युद्रथो नाम विद्याधरनरेश्वरः । तस्य मानसवेगेति प्रिया चाऽसीत् प्रियंवदा ॥२०८॥ सिंहरथ्यरथस्वप्नात् कृतसिंहरथाभिधः । तस्यां तस्याऽभवत् सूनुर्विक्रमोत्फुल्लदोर्दुमः ॥२०९।। कन्यां वेगवतीं नाम प्रकृष्टकुलसम्भवाम् । स्वानुरूपामुपायंस्त स चन्द्र इव रोहिणीम् ॥२१०॥ यौवराज्ये निजे राजा तं च विद्युद्रथो व्यधात् । पुत्रे हि कवचहरे युक्तमेतत् महीभुजाम् ॥२११॥ लीलोपवन-वाप्यादिस्थानेषु ललनासखः । वने सिंह इव स्वैरं रेमे सिंहस्थ: सुखम् ॥२१२॥ विधुद्रथोऽपरेधुश्च विद्युल्लोलस्वभावकम् । संसारे सकलं ज्ञात्वा परं वैराग्यमासदत् ॥२१३॥ राज्ये सिंहरथं न्यस्य सद्यो विद्युद्रथो नृपः । सर्वसावद्यविरतिं गुरुपादान्तिकेऽग्रहीत् ॥२१४।। संवेगातिशयापन्न: संयमैर्नियमैरपि । ध्यानेन च विधायाऽष्टकर्मक्षयमगाच्छिवम् ॥२१५॥ पाराजा सिंहरथोऽप्युद्यत्प्रतापतपनोपमः । स विद्याधरचक्रित्वमाससाद दुरासदम् ॥२१६॥ निशायां सोऽन्यदा दध्यौ विनिद्र इव योगवित् । अरण्ये मालतीपुष्पस्येव जन्म मुधा मम॥२१७॥ अर्हतः समवसृतान केवलज्ञानिन: प्रभून् । भवाम्भोधिमहापोतानाऽपश्यं नाऽनमंच यत् ॥२१८॥ १. तौ सं. ला. ॥२. स्वयंबुद्धोऽपि बोधित: दे. छा. मु.॥३. वार्षिकं दानम् ॥ ४. स प्रबोध्य च ता., प्रतिबोध्य च सं. पा. ला., खंता. पाता. वा.१२॥५. क्षीणाष्टकर्मा कालेन मोक्षं धनरथो ययौ दे. मु. विना, खंता. पाता. वा.१-२॥६. रन्तुमिच्छया ॥७. लोकस्याऽऽग्रहेण ।। ८. सुन्दरम् ।। ९. गणपतिसदृशाः ॥ १०. कृशैः ॥११. तालवृक्षारूढाः ॥ १२. चित्रकचर्मवस्त्राः ॥१३. रुधिरविलेपनाः ॥१४. कृकलास(सरडो)मालावन्तः॥ १५. कङ्कालमस्थिपञ्जरः ।। १६. ०बृंहितमानसः (साः) खंता. वा.१-२ ॥ १७. मुखमेव वादिनं तस्य करा: ॥ १८. चारी-नृत्यप्रकार: ।। १९. सिंहा एव रथ्यास्तद्युक्तो रथस्तस्य स्वप्नात् ।। २०. ललनासहचरः ।। २१. सूर्योपमः ।। २२. तान्न चाऽर्चयम् मु., नाननर्च यत् पाता. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org