________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(पञ्चमं पर्व नाम्ना घनरथः सोऽद्याऽप्यवनी पाति तीर्थकृत् । विजय-वैजयन्तौ तु जातौ विद्याधरौ युवाम् ॥१५६|| इति पूर्वभवान् श्रुत्वा प्रीतौ नत्वा च तं मुनिम् । प्राग्जन्मपितरं भक्त्या त्वां द्रष्टुं ताविहाऽऽगतौ ॥१५७|| प्रचक्रतुः सङ्क्रमणमनयोस्ताम्रचूडयोः । तौ तु त्वदर्शनोपायभूतं स्वामिन्! कुतूहलात् ॥१५८॥ इतश्च गत्वैतौ भोगवर्धनस्यान्तिके गुरोः । प्रव्रज्य क्षीणकर्माणौ प्राप्स्यत: पदमव्ययम् ॥१५९॥ श्रुत्वेति प्रकटीभूय पूर्ववत् सुतमानिनौ। विद्याधरौ घनरथं तौ नत्वा जग्मतुर्गृहम् ॥१६०॥ पाएतत् तु कुक्कुटौ श्रुत्वा तावचिन्तयतामिति । अहो! ईदृगसारोऽयं संसार: क्लेशकारणम् ॥१६१।। नृजन्मनि वणिग्भ्यामप्यावाभ्यां किमुपार्जितम् ? । दूरेऽस्त्वन्यद् येन भूयो नृजन्माऽपि हि दुर्लभम् ॥१६२।। तदानीं ग्रासलुब्धाभ्यां लुब्धकाभ्यामिवाऽन्वहम् । तैस्तैरुपायैरावाभ्यां वञ्चिता: प्राणिनो हहा! ॥१६३॥ वञ्चयित्वा चिरं लोकं कूटमान-तुलादिभिः । असन्तुष्टौ मिथोऽप्यावां धिक् तदा केलहायितौ ॥१६४॥ आर्त्तध्यानं प्रपन्नौ च निहत्याऽऽवां मिथो मृतौ । प्राप्तवन्तौ तत्फलं च तिर्यग्योनिमनेकशः ॥१६५॥ विमृश्यैवं नृपं नत्वा प्रोचतुस्तौ स्वभाषया। देवाऽऽदिश किमद्याऽऽवां कुर्वहे हितमात्मन: ? ॥१६६।। विज्ञाय चाऽवधिज्ञानाद् राजा घनरथोऽवदत् । अर्हन् देवो गुरु: साधुर्धर्मो जीवदयाऽस्तु वाम् ॥१६७।। एवं धनरथेनोक्ते कुक्कुटौ तौ शुभाशयौ । प्रपेदाते अनशनं विपेदाते उभावपि ॥१६८॥ पमृत्वाऽभूतां भूतरत्नामहाटव्यां महर्द्धिकौ। ताम्रचूल-स्वर्णचूलसझौ तौ भूतनायकौ ॥१६९॥ प्राग्जन्माऽवधिना ज्ञात्वा तौ विमानं विकृत्य च। उपेयतुर्मेघरथं पूर्वजन्मोपकारिणम् ।।१७०॥ भक्तिभाजौ मेघरथं तौ प्रणम्यैवमूचतुः। अद्यैवाऽऽवां त्वत्प्रसादादभूव व्यन्तरेश्वरौ ॥१७१।। माविभौ सैरिभौ च मेषौ तदनु कुक्कुटौ । एतत्प्रकर्षजन्मानावभूवाऽऽवां स्वकर्मभिः ॥१७२।। कुक्कुटत्वे त्वहरहनि:सङ्ख्यकृमिभोजनौ । आप्स्याव: कां गतिं नाथाऽभविष्यः शरणं न चेत् ? ॥१७३॥ प्रसीदाऽनुगृहाणैतद्विमानमधिरुह्य च। विश्वां विश्वम्भरां पश्य ज्ञानेन ज्ञातपूर्व्यपि ॥१७४।। इत्थमभ्यर्थितस्ताभ्यां दाक्षिण्यक्षीरसागरः । तदाऽऽरोहन् मेघरथो विमानं सपरिच्छदः ॥१७५।। उत्पपात विमानं तच्चचाल च मनोगति । अङ्गुल्या दर्शयन्तौ तौ दृश्यान्येनमशंसताम् ।।१७६।। वैडूर्यमय्यसौ भाभिर्दूवाङ्कुरितदिङ्मुखाः । चत्वारिंशद्योजनोच्चा चूला मेरुमहागिरेः ॥१७७।। अस्या: प्रतिदिशं चाऽर्धचन्द्राकारा: शिला इमाः । अर्हजन्माभिषेकाम्भ:पुण्या: सिंहासनाङ्किताः ॥१७८॥ इमान्यायतनान्युच्चैः स्वामिनां शाश्वतार्हताम् । तदर्चाचरितार्थद्रुपुष्पमेतच्च पाण्डकम् ॥१७९॥ अमी वर्षधरा: शैला: षडेषु षडमी ह्रदाः । चतुर्दशमहासिन्धुसीमन्तितमहीतलाः ।।१८०॥ अद्रयोऽमी च वैताढ्या आढ्या विद्याधरद्धिभिः । स्वस्वक्षेत्रार्धमर्यादाशिलाभित्तिसहोदरा: ॥१८१॥ अमीषामपि कूटेषु सिद्धचैत्यान्यमूनि च। प्रतिमाभि: सनाथानि श्रीमतां शाश्वतार्हताम् ॥१८२॥ इयं च जंगती जम्बूद्वीपस्य वलयाकृतिः। उत्तुङ्गजालकटकैर्विद्याधरविलासभूः ॥१८३॥ उदधिर्लवणोदोऽयं नैक्रचक्रनिकेतनम् । अयं च धातकीखण्ड: द्वीप: कालोदवेष्टितः ॥१८४॥ क्षुद्रमेरुगिरी चैतावर्हत्स्नात्रशिलाङ्कितौ । ईष्वाकारौ गिरी चैतौ शाश्वतार्हत्पवित्रितौ ॥१८५॥ अदोऽर्धपुष्करद्वीपं धातकीखण्डसन्निभम् । मानुषोत्तरशैलोऽयं मर्त्यभून ह्यतः परम् ॥१८६॥ इत्थमाख्यानपूर्वं तौ दर्शयित्वा वसुन्धराम् । आनिन्यतुर्मेघरथं नगरी पुण्डरीकिणीम् ॥१८७।। १.तव दर्शने उपायभूतमिति सङ्क्रमणविशेषणम् ॥२.इतस्तु खंता.पाता.वा.१-२॥३. इदानीं मु.॥४. मृगवधाजीवी लुब्धकः ॥५. कलिं कृतवन्तौ ॥६. घनरथेनोक्तं मु.॥७.कुर्कुटौ प्रतिपद्य तौ मु.॥८. म्रियेते स्म ॥९. गजौ॥१०. महिषौ ॥११. एतद् व्यन्तरेश्वररूपं प्रकृष्टं जन्म ययोस्तौ ॥ १२. नौ ता. ला. छा.॥१३. समग्रम् ॥१४. पृथ्वीम् ॥१५. पूर्वं ज्ञातं येन स ज्ञातपूर्वी ॥१६. सपरिवारः॥१७. मनोवद् गमनं यस्य तत् ॥१८. दृश्यान्येवमशं० सं. ला. खंता. पाता. वा.१-२॥१९. कान्तिभिः ।। २०. सहितानि ॥ २१. दुर्गः ॥२२. उत्तुङ्गगवाक्षवलयः । परिकरितेति शेषः ।। २३. नक्राणां मकराणां चक्र समूहस्तस्य स्थानम् ।। २४. धनुर्वदाकारौ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org